Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 202
________________ २१. वादिदेवसूरिचरितम् । नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फीतिमनोहरं नयपथप्रस्तार भङ्गीगृहम् । यस्मिन् केवलिनो विनिर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाचिरम् ॥ २०७ ॥ ऊचे कुमुदचन्द्रेण वादिना सिद्धभूपतेः । आशीरासीमभूमीश विद्वद्विजयशोभिनः ॥ २०८ ॥ सा चेयं खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गीचरं १७९ तद्यत्र भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥ २०९ ॥ २११ ॥ तस्मिन् महर्षिरुत्साहः सागरश्च कलानिधिः । प्रज्ञाभिरामो रामश्च नृपस्यैते सभासदः || २१० ॥ ते प्रोचुर्मुद्रिता वाच इति दिग्वाससः क्षतिः । नारीमुक्तिर्ज्ञानिभुक्तिर्यत्र तत्र जयो ध्रुवः ॥ देवाचार्यश्च भाभूव' श्रीपालश्च महाकविः । पक्षे दैगंबरे तत्र केशवत्रितयं मतम् ॥ तत्रोत्साहो महोत्साह उवाच प्रकटाक्षरम् । किंचिदुत्प्रासनागर्भं दृष्ट्वा दिग्वस्त्रपार्षदान् ॥ २१३ ॥ तथा हि २१२ ॥ 5 10 15 संवृतावयवमस्तदूषणं साधनं सदसि दर्शयिष्यतः । I २१७ ॥ 20 २१८ ॥ अस्य लुश्चितकचस्य केवलं केशवत्रितयमेति सभ्यताम् ॥ २१४ ॥ महर्षिणा च विज्ञप्ते उपलक्ष्य प्रभुस्ततः । प्रयोग उच्यतां सम्यगादिदेशेति कौतुकात् ॥ २१५ ॥ ततोऽसौ नास्ति निर्वाणं, स्त्रीभवस्थस्य देहिनः । तुच्छसत्त्वतया तस्य, यस्तुच्छो मुक्तिरस्य न ।। २१६ ॥ अत्रोदाहरणं बालः पुमान् तुच्छोऽबलाभवः । अतो न निर्वृतिस्तत्र प्रयोगममुमाह सः ॥ देवसूरिरथाह स्मासिद्धं धर्मिविशेषणम् । स्त्रीभवे निर्वृतिं प्राप मरुदेवाऽऽगमे मतम् ॥ तवाप्रसिद्धमेतच्चेदनेकान्तं ततः पठ । तस्य मार्गमतिक्रम्य दुर्नयो ह्यवधारणम् ॥ २१९ ॥ तथा हेतु ते दूष्योऽनैकान्तिकतया मतः । स्त्रियोऽपि यन्महासत्त्वाः प्रत्यक्षागमवीक्षिताः ॥ २२० ॥ सीताद्या आगमेऽध्यक्षं पुनः साक्षान्महीपतेः । माता श्रीमयणल्लाख्या सत्त्वधर्मैकशेवधिः ॥ २२१ ॥ तथा व्याप्तिरलीकेयं प्रतिव्याप्ते प्रढौकनात् । याः स्त्रियस्ता ध्रुवं तुच्छा नैतत् तत्सत्त्वदर्शनात् ॥ २२२ ॥ 25 तथा तद्दर्शनात् तत्रोदाहृतिश्चापि दूषिता । बालं पुंसामभिज्ञानादतिमुक्तकसाधुवत् ॥ २२३ ॥ तथास्योपनयोऽसिद्धः प्राकू सिद्धान्तात् सदूषणात् । ततो निगमनं दूष्यं प्रत्यनुमानसम्भवात् ॥ २२४ ॥ अनूद्य दूषयित्वैवं परपक्षमथ स्वकम् | पक्षं देवगुरुः प्राह स्त्रीभवेष्वथ निर्वृतिः ॥ २२५ ॥ प्राणिनः सत्त्ववैशिष्ट्यात् स्त्रियः सत्त्वाधिका मया । दृष्टाः कुन्ती सुभद्राद्या अथोदाहृतिरागमे ॥ २२६ ॥ महासत्त्वाः स्त्रियः सन्ति मोक्षं गच्छन्ति निश्चितम् । इत्युक्त्वा विरते देवगुरावाशाम्बरोऽवदत् ॥ २२७ ॥ 30 पुनः पठ ततोऽवाचि तत्राप्यनवधारिते । त्रिरप्याह कृते नैवमबुद्धा तमदूषयत् ।। २२८ ।। प्रतिवाद्याह वाच्यस्यामबोधः प्रकटोत्तरम् । दिग्वासाः प्राह जल्पोऽयं कटित्रे लिख्यतामिह ॥ २२९ ॥ महर्षिः प्राह संपूर्णा वादमुद्राऽत्र' दृश्यते । दिगम्बरो जितः श्वेताम्बरो विजयमाप च ॥ २३० ॥ 3 N सतः । 4 N स्त्रियाम्ना । 5 N° मुद्रा च । 1 N ज्ञानिमुक्ति° । 2 N भानुश्व; A लाभूश्च ।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252