Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 201
________________ १७८ प्रभावकचरिते 10 15 अन्यदेकं च ते भाग्यं यत्तेन ब्रह्मचारिणा । एवं विवदमानोऽपि शापाद् भस्मीकृतोऽसिन ॥ १७८॥ संमान्य चास्य सम्बन्धमधुनैव समर्पय । लिखित्वा वादिनोर्वादकाले जयपराजये ॥ १७९ ॥ राजादेशं गृहीत्वेति तेन प्रैषि निजोऽनुजः । सान्त्वनाय प्रभोः सोऽपि तत्कृत्वाह्वयदत्र तम् ॥ १८० ॥ प्रभुर्विजयसेनाख्यं प्रैषीत् तत्र मनीषिणम् । नोचितं गमनं तत्र सचिवानागतौ स्वयम् ॥ १८१ ।। दिगम्बरो विजीयेत चेत् तन्यक्कारपूर्वकम् । निर्वास्योऽतः पुराद् धृत्वा परिस्पन्दं स चौरवत् ॥ १८२ ॥ अथ श्वेताम्बरो हारयेत् तत्तस्य शासनम् । उच्छिद्याशाम्बरत्वेनावस्थाप्यं तैः स्थितैः किमु ॥ १८३ ।। इत्येवं लेखयित्वाऽत्र तद् राजकरणेऽमुचत् । कृतपक्षोऽपि सम्बन्धोऽनुमतस्तैर्बलोन्नतैः ॥ १८४॥ प्रेषितः सिद्धराजेन श्रीश्रीपाला कवीश्वरः । शिक्षा दत्वातिवात्सल्याद् देवसूरिप्रभोरथ ॥ १८५॥ स प्रणम्य नृपस्याह वाचिकं तत्पुरः स्फुरन् । स्वदेश-परदेशस्था अपि विज्ञा ममार्हिताः ॥ १८६ ॥ परं तथा त्वया बन्धो! वक्तव्यं वादलीलया । यथा देशान्तरी जेयः स्थेयः श्रेयःकृते 'मम ॥ १८७ ।। त्वय्येव मम चित्तस्य दृढावस्थितिरीदृशी । यथा ब्रीडयसे नो नः सभां कार्यस्तथा ध्रुवम् ॥ १८८ ।। अथ श्रीदेवसूरिश्च प्रदे प्रतिवाचिकम् । प्रतापस्ते महाराज ! विदेशिबुधजित्वरः ॥ १८९ ॥ वयं सहकृतस्तत्र परं मा दोल्यतां मनः । गुरूपदिष्टपक्षीधैर्विजेण्ये तं विवादिनम् ।। १९० ॥ क ईदृग् विदुषां शास्ता तद्वचःकौतुकी च कः । भवानिव भवानिच्छुरप्यहं येन वादकृत् ॥ १९१ ॥ इति तद्वच आख्याञ्च श्रीपालः कविवासवः । भूपालोऽपि मुदं प्राप देवसूरिवचोमृतैः ॥ १९२ ॥ १०. चन्द्राष्टशिववर्षेत्र (१९८१) वैशाखे पूर्णिमादिने । आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥ १९३ ॥ वादी कुमुदचन्द्रश्चाययावाडम्बरस्थितः । सुखासनसमासीनश्छत्रचामरशोभितः ॥ १९४ ॥ प्रतीहारेण मुक्तेऽत्र पट्टे चासावुपाविशत् । आहाद्यापि न चायाति श्वेतभिक्षुः कथं भिया ? ॥ १९५ ।। अथ श्रीदेवसूरिश्चाययौ भूपालसंसदम् । ऊचे कुमुदचन्द्रश्च स्वप्रज्ञाबलगर्वितः ॥ १९६ ॥ तथा हिश्वेताम्बरोऽयं किं ब्रूयान्मम वादरणाङ्गणे । सांप्रतं सांप्रतं तस्माच्छीघ्रमस्य पलायनम् ॥ १९७ ॥ सुरिः प्रोवाच बन्धुर्मे किमसत्यं वदत्यसौ । श्वेताम्बरो यतः श्वायमस्मद्वादरणाङ्गणे ॥ १९८॥ भषणे तस्य पर्याप्तं रणे नाधिकृतिः पुनः । परं पलायनं शीघ्रं युक्तं युक्तं वदत्यदः ॥ १९९॥ श्रुत्वेति पार्षदा वाचं शब्दखण्डनयानया । विस्मिताः स्मितमाधाय दध्युरस्य जयो ध्रुवम् ॥ २० ॥ एकाग्रमानसौ तत्र शासने पक्षपातिनौ । थाहडो नागदेवश्च सह चाजग्मतुर्मुदा ॥ २०१ ॥ थाहडः स्वगुरुं व्यज्ञपयद् द्रव्येण भेदिताः" । सभ्याः श्रुता मया द्रव्यं तदास्ये द्विगुणं ध्रुवम् ॥२०२॥ प्रभावनाकृते स्वीयशासने तत्" समादिश । अथावद् गुरुर्द्रव्यव्ययः कार्यो न हि त्वया ॥ २०३ ॥ अद्य प्रभुभिरादिष्टः श्रीमुनिचन्द्रसूरिभिः । स्वप्ने यद् वत्स ! वक्तव्यः प्रयोगः स्त्रीषु मुक्तिकृत् ॥२०४॥ उत्तराध्य य न ग्रन्थटीका श्रीशान्तिसूरिभिः । कृता तदनुसारेण वक्तव्यं जेष्यते रिपुः ॥ २०५ ॥ इत्युक्त्वा नृपतेराशीर्वाद दर्शनसङ्गतम् । अभ्यधात् सूरिरानन्दहेतुं केतुं विवादिनाम् ॥ २०६॥ 20 25 30 1N कृतोऽपि सन् । 2N ते। 3 सचिवानां मतौ। 4 A B पुराकृता। 5 N तं। 6 B बलोन्नते; D बलोन्नतेः । 7 A N कृतेर्मम । 8 N वित्तस्य । 9 A यतश्चायं । 10 N मेदिना। 11 N वत्स।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252