________________
१७८
प्रभावकचरिते
10
15
अन्यदेकं च ते भाग्यं यत्तेन ब्रह्मचारिणा । एवं विवदमानोऽपि शापाद् भस्मीकृतोऽसिन ॥ १७८॥ संमान्य चास्य सम्बन्धमधुनैव समर्पय । लिखित्वा वादिनोर्वादकाले जयपराजये ॥ १७९ ॥ राजादेशं गृहीत्वेति तेन प्रैषि निजोऽनुजः । सान्त्वनाय प्रभोः सोऽपि तत्कृत्वाह्वयदत्र तम् ॥ १८० ॥ प्रभुर्विजयसेनाख्यं प्रैषीत् तत्र मनीषिणम् । नोचितं गमनं तत्र सचिवानागतौ स्वयम् ॥ १८१ ।। दिगम्बरो विजीयेत चेत् तन्यक्कारपूर्वकम् । निर्वास्योऽतः पुराद् धृत्वा परिस्पन्दं स चौरवत् ॥ १८२ ॥ अथ श्वेताम्बरो हारयेत् तत्तस्य शासनम् । उच्छिद्याशाम्बरत्वेनावस्थाप्यं तैः स्थितैः किमु ॥ १८३ ।। इत्येवं लेखयित्वाऽत्र तद् राजकरणेऽमुचत् । कृतपक्षोऽपि सम्बन्धोऽनुमतस्तैर्बलोन्नतैः ॥ १८४॥ प्रेषितः सिद्धराजेन श्रीश्रीपाला कवीश्वरः । शिक्षा दत्वातिवात्सल्याद् देवसूरिप्रभोरथ ॥ १८५॥ स प्रणम्य नृपस्याह वाचिकं तत्पुरः स्फुरन् । स्वदेश-परदेशस्था अपि विज्ञा ममार्हिताः ॥ १८६ ॥ परं तथा त्वया बन्धो! वक्तव्यं वादलीलया । यथा देशान्तरी जेयः स्थेयः श्रेयःकृते 'मम ॥ १८७ ।। त्वय्येव मम चित्तस्य दृढावस्थितिरीदृशी । यथा ब्रीडयसे नो नः सभां कार्यस्तथा ध्रुवम् ॥ १८८ ।। अथ श्रीदेवसूरिश्च प्रदे प्रतिवाचिकम् । प्रतापस्ते महाराज ! विदेशिबुधजित्वरः ॥ १८९ ॥ वयं सहकृतस्तत्र परं मा दोल्यतां मनः । गुरूपदिष्टपक्षीधैर्विजेण्ये तं विवादिनम् ।। १९० ॥ क ईदृग् विदुषां शास्ता तद्वचःकौतुकी च कः । भवानिव भवानिच्छुरप्यहं येन वादकृत् ॥ १९१ ॥
इति तद्वच आख्याञ्च श्रीपालः कविवासवः । भूपालोऽपि मुदं प्राप देवसूरिवचोमृतैः ॥ १९२ ॥ १०. चन्द्राष्टशिववर्षेत्र (१९८१) वैशाखे पूर्णिमादिने ।
आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥ १९३ ॥ वादी कुमुदचन्द्रश्चाययावाडम्बरस्थितः । सुखासनसमासीनश्छत्रचामरशोभितः ॥ १९४ ॥ प्रतीहारेण मुक्तेऽत्र पट्टे चासावुपाविशत् । आहाद्यापि न चायाति श्वेतभिक्षुः कथं भिया ? ॥ १९५ ।। अथ श्रीदेवसूरिश्चाययौ भूपालसंसदम् । ऊचे कुमुदचन्द्रश्च स्वप्रज्ञाबलगर्वितः ॥ १९६ ॥
तथा हिश्वेताम्बरोऽयं किं ब्रूयान्मम वादरणाङ्गणे ।
सांप्रतं सांप्रतं तस्माच्छीघ्रमस्य पलायनम् ॥ १९७ ॥ सुरिः प्रोवाच बन्धुर्मे किमसत्यं वदत्यसौ । श्वेताम्बरो यतः श्वायमस्मद्वादरणाङ्गणे ॥ १९८॥ भषणे तस्य पर्याप्तं रणे नाधिकृतिः पुनः । परं पलायनं शीघ्रं युक्तं युक्तं वदत्यदः ॥ १९९॥ श्रुत्वेति पार्षदा वाचं शब्दखण्डनयानया । विस्मिताः स्मितमाधाय दध्युरस्य जयो ध्रुवम् ॥ २० ॥ एकाग्रमानसौ तत्र शासने पक्षपातिनौ । थाहडो नागदेवश्च सह चाजग्मतुर्मुदा ॥ २०१ ॥ थाहडः स्वगुरुं व्यज्ञपयद् द्रव्येण भेदिताः" । सभ्याः श्रुता मया द्रव्यं तदास्ये द्विगुणं ध्रुवम् ॥२०२॥ प्रभावनाकृते स्वीयशासने तत्" समादिश । अथावद् गुरुर्द्रव्यव्ययः कार्यो न हि त्वया ॥ २०३ ॥ अद्य प्रभुभिरादिष्टः श्रीमुनिचन्द्रसूरिभिः । स्वप्ने यद् वत्स ! वक्तव्यः प्रयोगः स्त्रीषु मुक्तिकृत् ॥२०४॥ उत्तराध्य य न ग्रन्थटीका श्रीशान्तिसूरिभिः । कृता तदनुसारेण वक्तव्यं जेष्यते रिपुः ॥ २०५ ॥ इत्युक्त्वा नृपतेराशीर्वाद दर्शनसङ्गतम् । अभ्यधात् सूरिरानन्दहेतुं केतुं विवादिनाम् ॥ २०६॥
20
25
30
1N कृतोऽपि सन् । 2N ते। 3 सचिवानां मतौ। 4 A B पुराकृता। 5 N तं। 6 B बलोन्नते; D बलोन्नतेः । 7 A N कृतेर्मम । 8 N वित्तस्य । 9 A यतश्चायं । 10 N मेदिना। 11 N वत्स।