________________
२१. वादिदेवसूरिचरितम् ।
१७७
१९. इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः । थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥ ताभ्यां प्रणम्य विज्ञप्तं दिगम्बरपराजये । दाप्यतां स्वेच्छया द्रव्यमेतदर्थं तदर्जितम् ॥ १५५ ॥ श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः । न जयस्तत् किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाह्डो नाथाशाम्बरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षाद्वशिता' गांगिलादयः ॥ १५७ ॥ ऊचुश्च प्रभवो देवा गुरवश्चात्र जाग्रति । कार्यो व्ययो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८ ॥ ततः कुमुदचन्द्रेणागतेन नगरान्तरा । श्वेताम्बरजयोन्नत्यै कृतं पत्रावलम्बनम् ॥ १५९ ॥ दिनानां विंशतिं प्रत्युपाश्रयं यतिनां तदा । नीरं तृणानि मुक्त्वा च स पुरोगान्यवादयत् ॥ १६० ॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्यवग्दृशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ॥ थाहडस्तस्य तत्पत्रं राजद्वारविलम्बितम् । स्फाटयामास शृङ्गारमिव तस्य जयश्रियः ।। १६२ ॥ श्री सिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तान्तमाह्वयत् तत्र श्वेताम्बर - दिगम्बरौ ॥ १६३ ॥ 10 सभाव्यवस्थामाधाय प्रैषीद् दूतं च सत्वरम् । सम्बन्धकावताराय तयोर्गांगिलमंत्रिणे ॥ १६४ ॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् । जातिप्रत्ययतः किंचिद् विद्विष्टमिव चावदत् ॥ तथा हि
१६५ ॥
दन्तानां मलमण्डली परिचयात् स्थूलं भविष्णुस्ततिः #
कृत्वा भैक्षकपिण्डभक्षणविधिं शौचं किलाचाम्लतः । नीरं साक्षि शरीरशुद्धिविषये येषामहो कौतुकं
तेऽपि श्वेतपटाः क्षितीश्वरपुरः" कांक्षन्ति जल्पोत्सवम् ॥ १६६ ॥ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः । धीवराचोचितं तद् वः शौचाचारविचारणम् ॥ १६७ ॥ परमुक्तं च
विमृश विमृशाम्भोभिः शक्योऽपसारयितुं न यैजठर पिठरी क्रोडस्थेमाप्यहो मललेशकः । कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो
परिदलयितुं पार्योऽनार्यः स पातककर्दमः ॥ १६८ ॥
माणिक्यः प्राह किंनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः स विवेकबृहस्पतिः ॥ १६९॥ संस्कारसूत्रपातेन चतुर्द्धा हृदयात्मनाम् । वपुर्मनोवचः कार्यजातेष्वन्यान्यरूपतः ।। १७० ।। अकृत्य कृत्ययोस्तुल्यकर्त्तव्यत्वस्पृशां सदा । द्विजन्मनां प्रधानत्वं दर्शनानां विडम्बनम् ॥ १७१ ॥ इत्येवमूहापोहेन सम्बन्धो नार्पितस्तदा । प्रातः सभागतः पृष्टो राजा सचिवगांगिलः ॥ १७२ ॥ लिखितो भवता कः सम्बन्धः किं वादिनोर्द्वयोः । स प्राहैषामपावित्र्यान्नार्हा राजसभास्थितिः ॥ १७३ ॥ अतो मया न चालेखि सम्बन्धो नृपतिस्ततः । अन्तः कोपानलं बभ्रे पयोधिरिव वाडवम् ॥ १७४ ॥ एवं च सदसन्मर्त्यविशेषविदुषस्तव । व्ययस्य करणं तेऽलंकारारोपस्तवोचितः ॥ १७५ ॥ श्रजानां गौरवर्णोऽपि काल एवावभासते । अल्पोऽप्यत्र न ते दोषः सा ममैवाविचारिता ॥ १७६ ॥ परं दर्शनबाह्यत्वाद् ग्राम्यवन्नागरोऽपि सन् । नान्तर्मुखो गुणान् दोषीकृत्य यस्मात् प्रजल्पसि ॥ १७७ ॥
1 A ध्यक्षोद्वसिता; B ध्यक्षावसिता । 2 N कार्योऽन्वयो । 3N तत्रत्यं । 4 N विशिष्ट । 5N ष्णुस्तुतिं । 6 N किल्लात्रात्मनः । 7 N किमीश्वरपुरः । 8 N समागतः । 9 N प्र ( अ ) ज्ञानां ।
प्र० २३
5
15
20
25
30