________________
5
10
15
20
25
30
१७६
प्रभावकचरिते
किं च श्री वा दिवेताल शान्त्या चार्य स्य सद्गुरोः । पार्श्वेऽधीतस्य शैवाख्यवादिजेतुर्महामतेः' ।। १२६ ॥ मुनिचन्द्र प्रभोः किं न भवान् शिष्यशिरोमणिः । कालेऽधुनातने सङ्घोदयस्त्वय्येव तिष्ठते ॥ १२७ ॥ ततः श्री सिद्ध भूपालं विज्ञप्यात्र सकौतुकम् । त्वत्कृतं विजयं स्वस्य वयं वीक्षामहे ध्रुवम् ॥ १२८ ॥ श्राद्धानां श्राविकाणां च शतानि त्रीणि सप्त च । विजयाय तव श्रीमन्नाचामाम्लानि तन्वते ॥ १२९ ॥ प्रतिहन्तुं प्रत्यनीकसुराणां वैभवं लघु ।
देव्याः श्रीशासनेश्वर्या बलं दातुं स्वसत्त्वतः ॥ १३० ॥
तदर्थमिति विज्ञाय विश्ववन्द्यः स बन्दिनम् । प्राहिणोद् वादिने धीमान् शिक्षयित्वा स्ववाचिकम् ॥१३१॥ स गत्वा चाह-वादीन्द्रो देवाचार्यो वदत्यदः । मन्मुखेन व्रजन्नस्मि पत्तनेऽहं त्वमापतेः ॥ १३२ ॥ सभायां सिद्धराजस्य पश्यतां तत्सभासदाम् । स्वपराभ्यस्तवाणीनां प्रमाणं लभ्यते यथा ॥ १३३ ॥ भवत्वेवमिति प्रोच्य स दिगम्बरसंनिधौ । गत्वा प्रोवाच तत्सर्वं श्रुतं तेनावधानतः ॥ १३४ ॥ गमिष्यत इति प्रोक्ते वादिनाऽजायत क्षुतम् । तत्तस्याशकुनं मत्वा समेत्याकथयद् गुरोः ॥ १३५ ॥ ततः सूरिदिने शुद्धे मेषलग्ने रवौ स्थिते । सप्तमस्थे शशांके च षष्ठे राहौ रिपुदुहि ॥ १३६ ॥ प्रयाणं कुर्वतस्तस्य निमित्तं शकुनाः शुभाः । स्फुरितं दक्षिणेनाक्ष्णा शिरःस्पन्दोऽप्यभूद् भृशम् ॥ १३७॥ किकी दिविर्दृशोर्मार्गमाययौ चन्द्रकी व्यरौत् । मृगाः प्रदक्षिणं जग्मुर्विषमा विषमच्छिदः ॥ १३८ ॥ तथा रथः प्रभोस्तीर्थनाथस्याभ्यर्चितो जनैः । अभ्यर्हितप्रतिमया बभूवाभिमुखस्तथा ॥ १३९ ॥ इत्यादिभिर्निमित्तैश्च मनः 'सौष्ठवमाश्रितः । अक्षेपात् पत्तनं प्राप प्राप्तरूपेश्वरः प्रभुः ॥ १४० ॥ प्रवेशोत्सवमाधत्त सङ्घ उत्कण्ठितस्ततः । तत्र सिद्धाधिपं भूपमपश्यच्च क्षणे शुभे ॥ १४१ ॥ पुनश्च मागधाधीशो दिगम्बरपुरो गतः । प्राह स्फुटं वचोभिः श्रीदेवाचार्यस्य वाचिकम् ॥ १४२ ॥ मदं मुच यतः पुंसां दत्तेऽसौ व्यसनं महत् । शलाकापुरुषस्यापि दशास्यस्य यथा पुरा ॥ १४३ ॥ एवमुक्त्वा स्थिते वैतालिके दिग्वसनोऽवदत् । श्वेताम्बराः कथाभिज्ञा एषामेतद्धि जीवनम्' ॥ १४४ ॥ अहं तु तत्कथातीतः प्रीतो वादेन केवलम् । येन स्वस्य परस्यापि प्रमाणं हि प्रतीयते ॥ १४५ ॥ 'एकमेवोचितं तेन जल्पितं यन्नृपाप्रतः । संगम्यं वादमुद्रायां तदेतत् क्रियतां ध्रुवम् ॥ १४६ ॥ तन्त्रागच्छाम शीघ्रं च वयमप्यद्य निश्चितम् । प्रस्थास्तवस्तदित्युक्त्वाऽऽरुरोह च सुखासनम् ॥ १४७ ॥ संमुखं पुनरासीच्च क्षुतं व्यमृशदत्र च । विकारः श्लेष्मणः शब्दस्तत्रास्था काऽस्तु मादृशाम् ॥ १४८ ॥ स्याद्वाततोऽपि कण्डूतिर्जिह्वाया मे नरेण न । प्रतिहन्येत वादेन श्रुतमस्मान्निषेधकम् ॥ १४९ ॥ याम एव तथाप्येवमुक्त्वा सञ्चरतः सतः । अवातरत् फणी श्यामः कालरात्रेः कटाक्षवत् ॥ १५० ॥ व्यलम्बत परीवारस्तस्याशकुनसम्भ्रमात् । आह च स्वामिनो नैव कुशलं दृश्यते ह्यदः ॥ १५१ ॥ स प्राह पार्श्वनाथस्य तीर्थाधिष्ठायको मम । धरणेन्द्रो ददौ दर्श साहाय्यविधये ध्रुवम् ॥ १५२ ॥ इत्याद्यशकुनैबढं निषिद्धोऽपि दिगम्बरः । अणहिल्लपुरं प्राप तथा प्रावेशि कैरपि ॥ १५३ ॥
1 N महात्मनः । 2 N स तत्वतः । 3 N प्रोचे । 4 N मतः । 5N जीवितम् । 6 N कथाभीतः । 7 N एवमेवो । 8 N तनृपा। 9 N संगम्य ।