________________
___10
२१. वादिदेवसूरिचरितम् ।
१७५ ततस्त्यज मदं कुरु प्रशमसंयतान् खान् गुणान्
दमो हि मुनिभूषणं स च भवेन्मदव्यत्यये ॥ ९९ ॥ इत्येवं कथिते बन्दिवरेणास्य पुरो मुनेः । वादिनः सोऽवदन्मूर्खसाधूनां शम उत्तरम् ॥ १०॥ उत्तेजनं किमप्येष क्रियते चित्तपीडनम् । अस्य विद्याकलामध्यं ज्ञायते येन तत्त्वतः ॥ १०१॥ विमृश्येति निजैः साधुवृन्दं रथ्यान्तरागतम् । वैरानुबन्धचेष्टाभिरुपासर्जयदद्भुतम् ॥ १०२ ॥ इत्येवमुपस्पृष्टेऽत्र निःप्रकम्पे सुमेरुवत् । दिग्वासा निजरूपाभमविशिष्टं प्रचक्रमे ॥ १०३ ॥ निजचैत्याग्रतो यान्ती वृद्धां गोचरचर्यया । उपसर्गयितुं साध्वीमारेभेऽन्येारुद्यतः ॥ १०४ ॥ अथ पल्लवकान् पल्लवकानिव 'तमस्तरोः । प्रेष्य तां कुण्डके क्षिप्त्वा नर्त्तयामास साहसी ॥ १०५ ॥ अहो साध्वीमसौ वृद्धां दर्शनिव्याजबुक्कसः । विडम्बयति पापीति तस्यावर्णो जनेऽभवत् ॥ १०६ ॥ अथ सा मोचिता कैश्चिदनुकम्पापरैनरैः । सूरेरुपाश्रयं प्रायादतिगद्गदशब्दभूः ॥ १०७॥ किंकृतस्तेऽपमानोऽयमिति पृष्टा च सूरिभिः । जरामन्युभराव्यक्तस्वरं प्राह तद्ग्रतः ॥ १०८॥ वर्द्धितोऽध्यापितः सूरिपदे मद्गुरुभिर्भवान् । स्थापितोऽस्मादृशामीविडम्बनकृते ध्रुवम् ॥ १०९ ॥ दिगम्बरोऽयं बीभत्सदर्शनः स्वविटवजैः । राजाध्वनि प्रयान्तीं मामनाथवदुपाद्रवत् ॥ ११० ॥ विद्वत्तया प्रभुत्वेन किं फलं तेऽवकेशिना । किं करस्थेन शस्त्रेण यदि शत्रुर्न हन्यते ॥ १११ ॥ शमशैत्यमहावळ्याः फलं परिभवो दृढः । अस्यते मुच्यते वापि राहुणा स्वेच्छया शशी ॥ ११२ ॥ 15 अद्य ते विक्रमः कालः पठितस्य फलं ह्यदः । धान्ये शुष्के धने चास्ते वर्षन् मेघः करोतु किम् ॥११॥ देवसूरिरथो वाचमुवाच क्रोधदुर्द्धराम् । मा विषादं कुरुष्वार्ये ! दुर्विनीतः पतिष्यति ॥ ११४ ॥ आर्याह दुर्विनीतोऽयं पतिष्यति नवा पुनः । त्वयि न्यस्तभरः सङ्घः पतिष्यत्येव वेत्रवत् ॥ ११५ ॥ प्रभुराह स्थिरीभूय चेद् विलोकयसे ततः । मुक्तानामिह वेधो नः संभवी गुणयुक्तये ॥ ११६ ॥ अथ चोवाच माणिक्य ! विज्ञप्तिं लिख मामिकाम् । श्रीमत्पत्तनसवाय विनयातिशयस्पृशम् ॥११७॥20 आदेशानन्तरं सोऽथ लिखति स्म स्फुटाक्षरम् । अदर्शयत् प्रभोः पश्चादथासौ प्रत्यवाचयत् ॥ ११८॥
'स्वस्ति नत्वा जिनं श्रीमदणहिल्लपुरे प्रभुम् । संघ कर्णावतीपुर्याः श्रीमंतो देवसूरयः ॥ ११९ ॥ भक्त्या विज्ञपयन्त्यत्राशाम्बरेण विवादिना।
शीघ्रमेवागमिष्यामः कृतवादाश्रवा इति ॥ १२० ॥ अचिराध्वन्यपुंसश्च हस्ते साऽथ समर्पिता । गूर्जराणां राजधानी स प्राप प्रहरत्रयात् ॥ १२१॥ दृष्ट्वा सङ्घन मोऽसौ भोजनाच्छादनादिभिः । सम्मान्य प्रहितः शीघ्रं प्रतिलेखं समर्प्य च ॥ १२२ ॥ आयाद् देवगुरोः पार्श्वे सङ्घादेशं ददौ मुदा । एनं ललाटे विन्यस्य विवृत्यावाचयञ्च सः ॥ १२३ ॥
'खस्ति श्रीतीर्थनेतारं नत्वा श्री पत्त नात् प्रभुः। सङ्घः कर्णा व ती पु यो परवादिजयोर्जितम् ॥ १२४ ॥
30 श्री देवोपपदं सूरि समादिशति सम्मदात् ।
आगन्तव्यं झटित्येव भवता वादिपुङ्गव ! ॥ १२५ ॥ 1N नभस्तरोः। 2N विक्रमे। 8 A BN °युक्तयोः।
25