________________
10
१७४
प्रभावकचरिते तत्र वर्षास्ववस्थाप्याश्विने' तं चाभ्यमित्रयत् । प्राकारं जगृहे श्रीमान् सिद्धराजश्व सत्वरम् ॥ ८॥ ६८. अथ कर्णावतीसङ्घोऽन्येशुरुत्कण्ठितः प्रभोः । आह्वाययन्महाभक्त्या चतुर्मासकहेतवे ॥ ८१ ॥
ततस्तत्राययुः पूज्याः सङ्घादेशपुरस्कृताः । 'शुद्धोपाश्रयमासाद्यावस्थानं प्रतिशुश्रुवुः ॥ ८२॥ अरिष्टनेमिप्रासादे व्याख्यानं च प्रतुपूवुः । अबुध्यन्ताबुधा लोका यस्य श्रवणतो घनाः ॥८३॥
इतश्च दाक्षिणात्यः श्रीकर्णाटनृपतेर्गुरुः । श्रीजयकेशिदेवस्य श्रीसिद्धेशप्रसूपितुः ॥ ८४ ।। अनेकवादिनिर्जिष्णुर्वादिपुत्रकपद्धतिम् । वामपादे वहन् गर्वपर्वताधित्यकाश्रितः ॥ ८५ ॥ जैनो जैनमतद्वेषिदर्पसर्पकरण्डिका । श्रीमान कुमुदचन्द्राख्यो वादिचक्री दिगम्बरः ।। ८६ ॥ श्रीवासुपूज्यचैत्यस्थो वर्षानिर्वाहहेतवे । श्रीदेवसूरिधर्माख्याप्रभावामर्षणस्तदा ॥ ८७ ॥ दानान्मुखरयन बंदिवृन्दानि प्रजिघाय सः । उद्दीपयन् वचोभिस्तं सूरिं शमिकुलेश्वरम् ॥ ८८ ॥
-पंचभिः कुलकम् । वैतालिकपतिर्धमिपर्षदन्तःप्रविश्य च । आह स्तुतिपरस्तस्य काव्यानि क्रोधदीप्तये ॥ ८९ ॥
गेय-वाङ्मययोः पारदृश्वरी प्रेक्ष्य यन्मतिम् ।
वीणापुस्तकभृद् ब्राह्मी विस्मिता'तदपारगा ॥ ९० ॥ ततस्तद्ब्रह्ममास्थाय तदुपास्तितरास्तिकाः । सिताम्बराः परानन्दभाजो भवत किं न हि ॥ ९१ ॥
तथा हिहंहो श्वेतपटाः किमेष विकटाटोपोक्तिसण्टङ्कितैः
संसारावटकोटरेऽतिविषमे मुग्धो जनः पात्यते । तत्त्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा
सत्यं कौमुदचन्द्रमंहियुगलं रात्रिंदिवं ध्यायत ॥ ९२॥ अथाह देवसूरीणां माणिक्याख्यो विनेयराट् । दर्शनप्रतिकूलाभिर्वाग्भी रोषाङ्कुरं वहन् ॥ ९३ ॥
- तद्यथाकः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यंहिणा ___ कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं कांक्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये
यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ ९४ ॥ __ माणिक्यः शिष्यमाणिक्यं जगदे देवसूरिभिः । नात्र कोपावकाशोऽस्ति खरवादिनि दुर्जने ॥ ९५ ॥
अथ बन्दिराज आह श्वेताम्बरचणकतुरग इह वादी । श्वेताम्बरतमसोऽर्कः श्वेताम्बरमशकधूमोऽयम् ॥ ९६ ॥ श्वेताम्बरप्रहसने स सूत्रधारः प्रभुः कुमुदचन्द्रः।
किं वाच्यस्तव वाचा संदिश किमिहान्यवाग्डमरैः ॥ ९७ ॥ स गुरुः प्राह नाहयुव्रतमास्माकदर्शने । ततः कथय मद्धातुः "पुर एकं हि वाचिकम् ॥ ९८ ॥
तद् यथादिगम्बरशिरोमणे ! गुणपराङ्मुखो मा स्म भू
गुणग्रहफलं हि तद् वसति यद् रमापङ्कजे । 1N °स्थाप्याश्चित्ते । 2 सिद्धो । 3 वेदपारगा। 4 N श्वेतांबरः प्रहसनैः। 5 N वाग्डंबरैः। 6D पर।
20
25
30