Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 212
________________ २२. हेमचन्द्रसूरिचरितम् । १८९ आहारं सुदृढं पुनर्बलकर ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ॥ १७६ ॥ अथ सूरिरुवाचात्र नेदं विद्वज्जनोचितम् । अविमर्श पुरस्कारं वचः शुचि पुरोहित ! ॥ १७७ ॥ यतो विचित्रा विश्वेऽस्मिन् प्राणिनां चित्तवृत्तयः । पशूनामपि चैतन्यवतां नृणां तु किं पुनः ॥ १७८ ॥ यतःसिंहो बली हरिणशूकरमांसभोजी सम्वत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि __कामी भवत्यनुदिनं वद कोऽत्र हेतुः॥१७९ ॥ श्रुत्वेति भूपतिः प्राहातिसाहसमिदं नृणाम् । य उत्तराय नालं स्यात् स यद्वदति पर्षदि ॥ १८०॥ 10 इति भूपालसन्मान्यो वदान्यः सुकृतार्थिनाम् । श्रीहेममूरिः सञ्जज्ञे सङ्घोद्धारधुरन्धरः ॥ १८१ ॥ ६१०. अथान्यदा महाविद्वान् श्री भाग व त दर्शनी । देवबोधाख्यया सांकामिकसारस्वतोत्तरः॥ १८२ ।। आजगाम धियां धामाणहिल्लपुरमध्यतः । व्यजिज्ञपन्नियुक्ताश्च श्रीसिद्धाधिपतेः पुरः॥ १८३ ॥ ततः श्रीपालमामव्य कविराज नराधिपः । रहो मत्रयते स्मासौ प्रतिपन्नं सहोदरम् ॥ १८४ ॥ देवबोधो महाविद्वान् द्रष्टव्योऽसौ कथं हि नः । निस्पृहत्वादनागच्छन् सभायां तपसोर्जितः ॥१८५॥15 आत्मदेशे परो विद्वानागतो यन्न पूज्यते । तत् क्षणमात्मनः केन निवार्यमपकीर्तिकृत् ॥ १८६ ॥ अथाह कविराजोऽपि विद्वानाडम्बरी च यः। स कथं निस्पृहो लक्ष्मी विना परिकरः कथम् ॥ १८७ ॥ सा विद्वद्वल्लभैर्युष्मादृशैभूपैर्भवेदिह । दत्तैव नापरः कश्चिदुपायोऽस्याः समजने ॥ १८८॥ परं श्रीभारतीभक्त्यात्यादरः स्वामिनो यदि । तत् सुधासधर्मायां पर्षद्याहूयतामसौ ॥ १८९ ॥ अस्त्वेवमिति राज्ञोक्ते प्रधानपुरुषास्ततः । प्राहीयन्त ततस्तेनाभिहितास्ते मदोद्धतम् ॥ १९० ॥ 20 आह्वानायागता यूयं मम भूपनिदेशतः । भूपालैः किं हि नः कार्य स्पृहाविरहितात्मनाम् ॥ १९१ ॥ तथा काशीश्वरं कन्यकुब्जाधीशं समीक्ष्य च । गणयामः कथं स्वल्पदेशं श्रीगूर्जरेश्वरम् ॥ १९२ ॥ परमस्मदिक्षायै भवतां स्वामिनस्तदा । उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३॥ एवं विसर्जितास्ते च यथावृत्तं व्यजिज्ञपन् । कविराज नृपः प्राह तद्वाचातिचमत्कृतः॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोऽवकाशो मदस्य तत् ॥१९५।।25 द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात् ततः । सश्रीपालस्ततो भूपोऽन्यदागच्छत् तदालये ॥ १९६॥ सिंहासनस्थमद्राक्षीद् विद्वद्वन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्षं देवबोधं कवीश्वरम् ॥ १९७ ॥ दृढभक्त्या नमश्चके राजा विनयवामनः । गुणपूर्णे सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा । अभिनन्द्यावदत् पाणिसज्ञयाऽदर्शयन् भुवम् ॥ १९९ ।। अनोपविश्यतां राजन् ! श्रुत्वेति क्षमापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० । 30 यतःइह निवसति मेरुः शेखरो भूधराणामिह विनिहितभाराः सागराः सप्त चान्ये । यता 1BN पयोदधियुतं। 2N अविमृश्य: Bअविमृर्य। 3D शशकशूकर। 4 N बत। 50 °बोधाख्यरासीः । 6N इह हि वसति।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252