________________
२२. हेमचन्द्रसूरिचरितम् ।
१८९ आहारं सुदृढं पुनर्बलकर ये भुञ्जते मानवा
स्तेषामिन्द्रियनिग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ॥ १७६ ॥ अथ सूरिरुवाचात्र नेदं विद्वज्जनोचितम् । अविमर्श पुरस्कारं वचः शुचि पुरोहित ! ॥ १७७ ॥ यतो विचित्रा विश्वेऽस्मिन् प्राणिनां चित्तवृत्तयः । पशूनामपि चैतन्यवतां नृणां तु किं पुनः ॥ १७८ ॥
यतःसिंहो बली हरिणशूकरमांसभोजी
सम्वत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि
__कामी भवत्यनुदिनं वद कोऽत्र हेतुः॥१७९ ॥ श्रुत्वेति भूपतिः प्राहातिसाहसमिदं नृणाम् । य उत्तराय नालं स्यात् स यद्वदति पर्षदि ॥ १८०॥ 10
इति भूपालसन्मान्यो वदान्यः सुकृतार्थिनाम् । श्रीहेममूरिः सञ्जज्ञे सङ्घोद्धारधुरन्धरः ॥ १८१ ॥ ६१०. अथान्यदा महाविद्वान् श्री भाग व त दर्शनी । देवबोधाख्यया सांकामिकसारस्वतोत्तरः॥ १८२ ।।
आजगाम धियां धामाणहिल्लपुरमध्यतः । व्यजिज्ञपन्नियुक्ताश्च श्रीसिद्धाधिपतेः पुरः॥ १८३ ॥ ततः श्रीपालमामव्य कविराज नराधिपः । रहो मत्रयते स्मासौ प्रतिपन्नं सहोदरम् ॥ १८४ ॥ देवबोधो महाविद्वान् द्रष्टव्योऽसौ कथं हि नः । निस्पृहत्वादनागच्छन् सभायां तपसोर्जितः ॥१८५॥15 आत्मदेशे परो विद्वानागतो यन्न पूज्यते । तत् क्षणमात्मनः केन निवार्यमपकीर्तिकृत् ॥ १८६ ॥ अथाह कविराजोऽपि विद्वानाडम्बरी च यः। स कथं निस्पृहो लक्ष्मी विना परिकरः कथम् ॥ १८७ ॥ सा विद्वद्वल्लभैर्युष्मादृशैभूपैर्भवेदिह । दत्तैव नापरः कश्चिदुपायोऽस्याः समजने ॥ १८८॥ परं श्रीभारतीभक्त्यात्यादरः स्वामिनो यदि । तत् सुधासधर्मायां पर्षद्याहूयतामसौ ॥ १८९ ॥ अस्त्वेवमिति राज्ञोक्ते प्रधानपुरुषास्ततः । प्राहीयन्त ततस्तेनाभिहितास्ते मदोद्धतम् ॥ १९० ॥ 20 आह्वानायागता यूयं मम भूपनिदेशतः । भूपालैः किं हि नः कार्य स्पृहाविरहितात्मनाम् ॥ १९१ ॥ तथा काशीश्वरं कन्यकुब्जाधीशं समीक्ष्य च । गणयामः कथं स्वल्पदेशं श्रीगूर्जरेश्वरम् ॥ १९२ ॥ परमस्मदिक्षायै भवतां स्वामिनस्तदा । उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३॥ एवं विसर्जितास्ते च यथावृत्तं व्यजिज्ञपन् । कविराज नृपः प्राह तद्वाचातिचमत्कृतः॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोऽवकाशो मदस्य तत् ॥१९५।।25 द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात् ततः । सश्रीपालस्ततो भूपोऽन्यदागच्छत् तदालये ॥ १९६॥ सिंहासनस्थमद्राक्षीद् विद्वद्वन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्षं देवबोधं कवीश्वरम् ॥ १९७ ॥ दृढभक्त्या नमश्चके राजा विनयवामनः । गुणपूर्णे सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा । अभिनन्द्यावदत् पाणिसज्ञयाऽदर्शयन् भुवम् ॥ १९९ ।। अनोपविश्यतां राजन् ! श्रुत्वेति क्षमापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० । 30
यतःइह निवसति मेरुः शेखरो भूधराणामिह विनिहितभाराः सागराः सप्त चान्ये ।
यता
1BN पयोदधियुतं। 2N अविमृश्य: Bअविमृर्य। 3D शशकशूकर। 4 N बत। 50 °बोधाख्यरासीः । 6N इह हि वसति।