________________
१८८
प्रभावकचरिते अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥ १४७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ॥ १४८ ॥ विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामासौ द्विजव्यूहोऽतिधीरगीः ॥ १४९ ॥ राजाप्याह न भूपाला अविमृश्य विधायिनः । दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥ १५०॥ अनुयोज्या अमी चात्र दद्युश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवात्र नः सुहृत् ॥ १५१॥ हेमाचार्योऽपि निम्रन्थः सङ्गत्यागी महामुनिः । असूनृतं कथं ब्रूयाद् विचार्य तदिदं बहु ॥ १५२ ।। एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ॥ १५३॥ अपृच्छदथ माध्यस्थ्यात सर्वसाधारणो नृपः । शास्त्रे चाहती दीक्षा किं' गृहीता पाण्डवैः किमु ॥१५४॥ सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां म हा भारत मध्यतः ॥ १५५ ॥ परमेतन्न जानीमो ये न (नः ?) शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ॥१५६॥ राजाह तेऽपि बहवः पूर्वं जाताः कथं मुने! । अथावोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप! ॥ १५७ ॥ व्याससन्दर्भिताख्याने श्रीगांगेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच खं परिच्छदम् ॥ १५८ ॥ मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग भूमिखण्डे सदा शुचौ ॥ १५९ ।।
विधाय न्याय्यसङ्गनम मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्यास्य ययुर्गिरौ ॥ १६०॥ 15 अमानुषप्रचारे च शृङ्गे कुत्रापि चोन्नते । अमुञ्चन् देवतावाणी क्वापि तत्रोद्ययौ तदा ॥ १६१ ॥
तथा हिअत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् ।
द्रोणाचार्यसहस्रं तु कर्णसंख्या न विद्यते ॥ १६२॥ एतद् वयमिहाकर्ण्य 'व्यमृशाम स्वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ॥ १६३ ॥ गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमचन्द्रप्रभालये ॥ १६४ ॥ केदारे च महातीर्थे कोऽपि कुत्रापि तद्रतः । बहूनां मध्यतो धर्म तत्र ज्ञानं न 'नः स्फुटम् ॥ १६५ ॥ स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः । ज्ञानं कुत्रापि चेद् गङ्गा नहि कस्यापि पैतृकी ॥ १६६॥ राजा श्रुत्वाह तत्सत्यं वक्ति जैनर्षिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥ १६७ ॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद्विचाव कार्य कार्य क्षमाभृता ॥ १६८॥ तथाहमेव कार्येऽत्र दृष्टान्तः समदर्शनः । समस्तदेवप्रासादसमूहस्य विधापनात् ॥ १६९ ॥ उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥ १७०॥ राज्ञा सत्कृत्य सूरिश्चाभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥१७१॥
भूपेन सत्कृतश्चैवं हेमचन्द्रप्रभुस्तदा । श्रीजैनशासनव्योम्नि प्रचकाशे गभस्तिवत् ॥ १७२ ॥ ६९. राज्ञः सौवस्तिकोऽन्येारामिगाख्यो वृथा रुषम् । वहन् जजल्प सूरिं तं निविष्टं राजपर्षदि ॥१७॥ 30
धर्मे वः शमकारुण्यशोभिते न्यूनमेककम् । व्याख्याने कृतशृङ्गारास्त्रिय आयान्ति सर्वदा ॥ १७४ ॥ भवन्निमित्तमकृतं प्रासुकं ददते च ताः । विकारसारमाहारं तद्ब्रह्म क स्थितं हि वः ॥ १७५ ॥
यतःविश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशना
स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । 1A °मविचार्येह; Dमविचार्येण । 2N नास्ति 'किं'। 30 विमृशाम । 40 ततः। 5D स्त्रियश्चायोति ।