________________
१८७
२२. हेमचन्द्रसूरिचरितम् ।
तथा हिहेमसूरि अत्थाणि ते ईसर जे पंडिया ।
लच्छि-वाणि मुहकाणि सा पइं भागी मुह मरउं ॥ ११९ ॥ तारमुक्तेऽस्य' पूर्वांह्रौ नाम्ना पूज्यप्रजल्पनात् । अवज्ञाकृतिनोऽभूवन सभ्यांना कोपतो दृशः ॥ १२० ।। माञ्जिष्ठाः सावधानेषु तेषु तस्य पदत्रयम् । उवाच चारणस्तच्च श्रुत्वा ते पुलकं दधुः।। १२१ ॥-युग्मम् ।। अचिन्तयंश्च वाण्यस्य चमत्कारकृदुन्नता । बुधस्य हि स्थितियत्र तत्र स्यान्महिमा गुरुः ॥ १२२ ॥ ऊचुर्मुदा ते सम्भूय पुनः पठ पुनः पठ । पठिते प्रभवोऽवोचनिःक्षोभस्त्रिः पुनः पठ ॥ १२३ ॥ चतुःकृत्वोऽपि पाठे तु मते कृतिभिरादरात् । कोपाभासमिवाबिभ्रद् विचाराच्चारणोऽवदत् ॥ १२४ ॥ यूयं यथेष्टदातारो यदि तत्स्वानुमानतः । गृह्णाम्यहं गुरुं भारं वाहीक इव दुर्वहम् ॥ १२५ ॥ त्रिपाठे दोहकस्यास्य यल्लब्धं तेन मे धृतिः । नैवाधिकेन कार्य में प्रत्युताहितहृदुजा ॥ १२६ ॥ 10 तस्यायुतत्रयं पूज्याः सभ्यपादिदापयन् । स उचे मे धनं पूर्णमासप्तपुरुषावधि ॥ १२७ ।।
अहं प्रतिग्रहं गृहे 'न चातोऽभ्यधिकं किल । इत्युक्त्वा प्रययौ सोऽथ प्रदेशं स्वसमीहितम् ।। १२८ ।। ६७. राज्ञा श्रीसिद्धराजेनान्यदाऽनुयुयुजे प्रभुः । भवतां कोऽस्ति पट्टस्य योग्यः शिष्यो गुणाधिकः ॥१२९॥
तमस्माकं दर्शयत चित्तोत्कर्षाय मामिव । अपुत्रमनुकम्पार्ह पूर्वे त्वां मा स्म शोचयन् ॥ १३०॥ आह श्रीहेमचन्द्रश्च न कोऽप्येवं हि चिन्तकः । आद्योऽप्यभूदिलापालः सत्पात्राम्भोधिचन्द्रमाः॥१३१।। 15 सज्ज्ञानमहिमस्थैर्य मुनीनां किं न जायते । कल्पद्रुमसमे राज्ञि त्वयीदृशि कृतस्थितौ ॥ १३२ ।। अस्त्यामुष्यायणो रामचन्द्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूपः संघे विश्वकलानिधिः ॥ १३३ ॥ अन्यदाऽदर्शयंस्तेऽमुं क्षितिपस्य स्तुतिं च सः । अनुक्तामाद्यविद्वद्भिहल्लेखाधायिनी व्यधात् ॥ १३४ ॥
__ तथा हिमात्रयाऽप्यधिकं किंचिन्न सहन्ते जिगीषवः।
इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥ १३५ ॥ शिरोधूननपूर्व च भूपालोऽत्र दृशं दधौ । रामे वामेतराचारो विदुषां महिमस्पृशाम् ॥ १३६ ॥ 'एकदृष्टिर्भवान् भूयाद् वत्स ! जैनेन्द्रशासने । महापुण्योऽयमाचार्यो यस्य त्वं पदरक्षकः ॥ १३७ ।। इत्युक्त्वा विरते राज्ञि रामस्यादुष्यदेककम् । नेत्रं दृष्टिर्हि दुर्घष्या सुकृतातिशयस्पृशाम् ॥ १३८ । उपाश्रयाश्रितस्यास्य महापीडापुरःसरम् । व्यनशद् दक्षिणं चक्षुर्न रत्नमनुपद्रवम् ॥ १३९॥ 25
कर्मप्रामाण्यमालोच्य ते शीतीभूतचेतसः । स्थितास्तत्र चतुर्मासीमासीनास्तपसि स्थिरे ॥ १४०॥ ६८. चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्यामी श्रीसङ्घाने प्रतुष्टुवुः ॥ १४१ ॥
सुधासारवचःस्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ॥ १४२ ॥ पाण्डवानां परिव्रज्याव्याख्याने विहितेऽन्यदा । ब्राह्मणा मत्सराध्माता व्याचख्युपतेरिदम् ॥ १४३ ॥ स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ॥ १४४ ॥30 तत्रेदमुच्यते स्वायुःप्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुर्हिमवद्भूधराध्वनि ॥ १४५ ॥ श्रीकेदारस्थितं शम्भु स्नानपूजनपूर्वकम् । आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥-युग्मम् ।
1B तारमुक्तेश्च; N पूर्वाह्नी । 2 N गुरोः। 3D निक्षोभः पुनस्त्रिः पठ। 4 A नः 1 5 N न वातोऽ। 6 D कंचिन्न । 7A BD एकादृष्टि । 8 A D पुण्यरक्षकः। 9N रामस्यादुपदेशकम् । 10 N परया भक्त्या खान्ताः।