________________
5
10
15
20
25
30
१८६
प्रभावकचरिते
समादिक्षत् ततस्तुष्टा निजाधिष्ठायकान् गिरा । मम प्रसादवित्तः श्रीहेमचन्द्रः सिताम्बरः ॥ ९० ॥ ततो मूर्त्त्यन्तरस्येव मदीयस्यास्य हेतवे । समय प्रेष्यतां प्रेष्यवर्गः पुस्तकसञ्चयम् ॥ ९१ ॥ ततः सत्कृत्य तान् सम्यग् भारतीसचिवा नरान् । पुस्तकान्यर्पयामासुः प्रैषुश्चोत्साहपण्डितम् ॥ ९२ ॥ अचिरान्नगरं स्वीयं प्रापुर्देवीप्रसादिताः । हर्षप्रकर्षसम्पन्नपुलकाङ्कुरपूरिताः ॥ ९३ ॥
सर्व विज्ञपयामासुर्भूपालाय गिरोदिताः । निष्ठानिष्ठे प्रभौ हेमचन्द्रे तोषमहादरम् ॥ ९४ ॥ इत्याकर्ण्य चमत्कारं धारयन् वसुधाधिपः । उवाच धन्यो मद्देशोऽहं च यत्रेदृशः कृती ॥ ९५ ॥ श्री हेमसूरयोऽप्यत्रालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत् सिद्ध है मा ख्य मद्भुतम् ॥ ९६ ॥ द्वात्रिंशत्पादसंपूर्णमष्टाष्यायमुणादिमत् । धातुपारायणोपेतं रङ्गल्लिङ्गानुशासनम् ॥ ९७ ॥ सूत्रसद्वृत्तिमन्नाममालानेकार्थसुन्दरम् । मौलिं लक्षणशास्त्रेषु विश्वविद्वद्भिरादृतम् ।। ९८ ।। - त्रिभिर्विशेषकम् । आदौ विस्तीर्णशास्त्राणि नहि पाठ्यानि सर्वतः । आयुषा सकलेनापि पुमर्थस्खलनानि तत् ॥ ९९ ॥ संकीर्णानि च दुर्बोधदोषस्थानानि कानिचित् । एतत् प्रमाणितं तस्माद् विद्वद्भिरधुनातनैः ॥ १०० ॥ श्रीमूलराजप्रभृति'राजपूर्वजभूभृताम् । वर्णवर्णनसम्बद्धं पादान्ते श्लोकमेककम् ॥ १०१ ॥ तच्चतुष्कं च सर्वान्ते श्लोकैस्त्रिंशद्भिरद्भुता । पञ्चाधिकैः प्रशस्तिश्च विहिताऽवहितैस्तदा ॥१०२॥ युग्मम् । राज्ञः पुरः पुरोगैश्व विद्वद्भिर्वाचितं ततः । चक्रे लक्षत्रयं वर्षे राज्ञा पुस्तकलेखने ॥ १०३ ॥ राजादेशान्नियुक्तैश्च सर्वस्थानेभ्य उद्यतैः । तदा चाहूय सच्चक्रे लेखकानां शतत्रयम् ॥ १०४ ॥ पुस्तकाः समलेख्यन्त सर्वदर्शनिनां ततः । प्रत्येकमेवादीयन्ताभ्येतॄणामुद्यमस्पृशाम् ॥ १०५ ॥ - विशेषकम् । अंग-वंग-कलिंगेषु लाट-कर्णाट-कुंकणे ।
महाराष्ट्र-सुराष्ट्रासु वत्से कच्छे च मालवे ।। १०६ ॥ सिंधु- सौवीर- नेपाले पारसीक-मुरंडयो:' । गंगापारे हरिद्वारे काशि- चेदि - गयासु च ॥ १०७ ॥ कुरुक्षेत्रे कन्यकुब्ने गौड - श्रीकामरूपयोः । सपादलक्षवजालंधरे च खसमध्यतः ॥ १०८ ॥ सिंहलेऽथ महाबोधे चौडे मालव- कैशिके ।
इत्यादिविश्वदेशेषु शास्त्रं व्यस्तार्यत स्फुटम् ॥ १०९ ॥ - चतुर्भिः कलापकम् ।
अस्य सोपनिबन्धानां पुस्तकानां च विंशतिः । प्राहीयत नृपेन्द्रेण काश्मीरेषु' महादरात् ॥ ११० ॥ एतत्तत्र गतं शास्त्रं स्वीयकोशे निवेशितम् । सर्वो' निर्वाहयेत्' स्वेनादृतं देव्यास्तु का कथा ॥ १११ ॥ कालो नाम कायस्थकुलकल्याणशेखरः । अष्टव्याकरणाध्येता प्रज्ञाविजितभोगिराट् ॥ ११२ ॥ प्रभुस्तं दृष्टमात्रेण ज्ञाततत्त्वार्थमस्य च । शास्त्रस्य ज्ञापकं चाशु विदधेऽध्यापकं तदा ॥ ११३ ॥ प्रतिमासं स च ज्ञानपञ्चम्यां पृच्छनां दधौ । राजा च तत्र निर्व्यूढान् कङ्कणैः समभूषयत् ॥ ११४ ॥ निष्पन्ना अत्र शास्त्रे च दुकूलस्वर्णभूषणैः । सुखासनातपत्रैश्च ते भूपालेन योजिताः ॥ ११५ ॥
६६.
अन्यदा सत्प्रभोस्तस्य सभायां स्वः पतेरिव । विबुधत्रात रोचिन्यामेकचारण आययौ ॥ ११६ ॥ अवज्ञया न कोऽप्यत्र संमुखं तस्य वीक्षते । रत्नेषु वीक्ष्यमाणेषु जरत्तृणमणेरिव ॥ ११७ ॥ अथ चासावपभ्रंशादपाठीद् दोहकं वरम् । तत्पुण्यदोहदं ब्राह्मीप्रसादं प्रकटं ननु ॥ ११८ ॥
1 N मूलराजप्रभृतिभीराज । 2 N विहिता विहितै । 3 N वर्षत्रयं । 4 N मुरंडके । 5 D कस्मीरेषु । 6 A सर्वा । 7 N निर्वाहयेत्तेना° । 8 N नियोजिताः । 9 N विशुद्धवात ।