________________
15
२२. हेमचन्द्रसूरिचरितम् ।
१८५ प्रवर्तिनीप्रतिष्ठां च दापयामास नम्रगीः । तदैवाभिनवाचार्यों गुरुभ्यः सभ्यसाक्षिकम् ।। ६२ ॥
सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ।। ६३ ॥ ६४. श्रीहेमचन्द्रसूरिः श्रीसङ्घसागरकौस्तुभः । विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ॥ ६४ ॥
श्रीसिद्धभूभृदन्येा राजपाटिकया चरन् । हेमचन्द्रं प्रभुं वीक्ष्य तटस्थविपणौ स्थितम् ॥ ६५ ॥ निरुध्य टिंबकासन्ने गजप्रसरमङ्कुशात् । किंचिद् भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ॥ ६६ ॥ 5
कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः॥ ६७॥ श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः । मध्याह्ने मे प्रमोदायागन्तव्यं भवता सदा ॥ ६८॥ तत्पूर्व दर्शनं तस्य जज्ञे कुत्रापि सत्क्षणे । आनन्दमन्दिरे राज्ञा यत्राजर्यमभत प्रभोः ॥ ६९ ॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमण्डलम् । समाजगाम तस्मै चाशिषं दर्शनिनो ददुः ।।७०॥10 तत्र श्रीहेमचन्द्रोऽपि सूरिभूरिकलानिधिः । उवाच काव्यमव्यग्रमतिश्रव्यनिदर्शनम् ॥ ७१ ॥
तथा हिभूमि कामगवि ! खगोमयरसैरासिश्च रत्नाकरा !
मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भो भव । धृत्वा कल्पतरोदलानि सरलैर्दिवारणास्तोरणा
न्याधत्त खकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥७२॥ व्याख्याविभूषिते वृत्ते वृत्ते इव विभोस्ततः । आजुहावावनीपालः सूरिं सौधे पुनः पुनः ॥ ७३ ॥ ६५. अन्यदाऽवन्तिकोशीयपुस्तकेषु नियुक्तकैः । दर्यमानेषु भूपेन प्रैक्षि लक्षणपुस्तकम् ॥ ७४ ॥
किमेतदिति पप्रच्छ स्वामी 'तेऽपि व्यजिज्ञपन् । भोज व्या करणं ह्येतच्छब्दशास्त्रं प्रवर्त्तते ॥ ७५ ॥ असौ हि मालवाधीशो विद्वञ्चक्रशिरोमणिः । शब्दालङ्कारदैवज्ञतर्कशास्त्राणि निर्ममे ॥ ७६ ॥ 20 चिकित्सा-राजसिद्धान्त-रस-वास्तूदयानि च । अङ्क-शाकुनकाध्यात्म-स्वप्न-सामुद्रिकान्यपि ॥ ७७ ॥ ग्रन्थान् निमित्तव्याख्यान-प्रश्नचूडामणीनिह । विवृतिं चायसद्भावेऽर्घकाण्डं मेघमालया ॥ ७८ ॥ भूपालोऽप्यवदत् किं नास्मत्कोशे शास्त्रपद्धतिः । विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे ॥७९॥ सर्वे सम्भूय विद्वांसो हेमचन्द्रं व्यलोकयन् । महाभक्क्या च राज्ञाऽसावभ्यर्च्य प्रार्थितः प्रभुः॥८॥ शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयस्व महर्षे ! त्वं विना त्वामत्र कः प्रभुः ॥ ८१ ॥ 25 संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन् क लापकः । लक्षणं तत्र निष्पत्तिः शब्दानां नास्ति तादृशी ॥ ८२ ॥ पाणिनिर्लक्षणं वेदस्याङ्गमित्यत्र च द्विजाः । अवलेपादसूयन्ति कोऽर्थस्तैरुन्मनायितैः ॥ ८३ ॥ यशो मम तव ख्यातिः पुण्यं च मुनिनायक ! । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ।। ८४ ॥ इत्याकर्णाभ्यधात् सूरिहेमचन्द्रः सुधीनिधिः । कार्येषु नः किलोक्तिर्वः स्मारणायैव केवलम् ॥ ८५ ॥ परं व्याकरणान्यष्टौ वर्तन्ते पुस्तकानि च । तेषां श्रीभारतीदेवीकोश एवास्तिता ध्रुवम् ॥ ८६॥ 30 आनाययतु काश्मीरदेशात् तानि स्वमानुषैः । महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ॥ ८७ ॥ इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद् वाग्देवीदेशमध्यतः ॥ ८८ ॥ प्रवराख्यपुरे तत्र प्राप्तास्ते देवतां गिरम् । वन्दनादिभिरभ्यर्च्य तुष्टुवुः पाठनस्तवैः ॥ ८९ ॥
10 खाम्यपीति। 2N तस्वास्तू। 3 N ऽर्थशास्त्रं; Bऽर्घशास्त्रं । 4 BD नायकः। 50 °वास्ति ते ध्रुवम् ।
प्र०२४