Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
९८४
प्रभावकचरिते
10
15
अलंध्यत्वाद् गुरोर्वाचामाचारस्थितया तया । दूनयापि सुतः स्नेहादाlत स्वप्नसंस्मृतेः ॥ ३१ ॥ तमादाय स्तम्भतीर्थे जग्मुः श्रीपार्श्वमन्दिरे । माघे सितचतुर्दश्यां ब्राह्मे धिष्ण्ये शनेर्दिने ॥ ३२ ॥ धिष्ण्ये तथाष्टमे धर्मस्थिते चन्द्रे वृषोपगे । लग्ने बृहस्पतौ शत्रुस्थितयोः सूर्यभौमयोः ॥ ३३ ॥ श्रीमानुदयनस्तस्य दीक्षोत्सवमकारयत् । सोमचंद्र इति ख्यातं नामास्य गुरवो दधुः ॥ ३४ ॥ संचस्करुः परिस्कारान् प्रजाप्य परमाक्षरैः । आतैस्तेऽहमर्हाणां तमेकप्रणिधानतः ॥ ३५ ॥ अथैत्य' मिलिते कोपकलिते कटुभाषिणि । चाचे प्राचेतसाभस्तमयं प्राशमयत् स्वयम् ॥ ३६॥
सोमचन्द्रस्ततश्चन्द्रोज्वलप्रज्ञाबलादसौ । तर्क-लक्षण-साहित्यविद्याः पर्यच्छिनद् द्रुतम् ॥ ३७ ।। ६३. अन्यदाऽचिन्तयत् पूर्वं परो लक्षपदानुगः । आसीदेकपदात् तस्माद्धिगस्मानल्पमेधसः ॥ ३८ ॥
तत आराधयिष्यामि देवीं काश्मीरवासिनीम् । चकोरद्विजरोचिष्णुं ज्योत्स्नामिव कलावतः ॥ ३९ ॥ इति व्यज्ञपयत् प्रातः प्रभुं विनयनम्रवाक् । संमुखीनागमं देव्या ध्यात्वा सोऽप्यन्वमन्यत ॥ ४०॥ गीतार्थः साधुभिः सार्धं धाम विद्याब्रजस्य च । प्रस्थानं तामलियाः स ब्राह्मीदेशोपरि व्यधात् ॥४१॥ श्रीरैवतावतारे* च तीर्थे श्रीनेमिनामतः । सार्थे 'माधुमते तत्रावात्सीदवहितस्थितिः ॥ ४२ ॥ निशीथेऽस्य विनिद्रस्य नासाग्रन्यस्तचक्षुषः । आराधनात् समक्षाऽभूद् ब्राह्मी ब्रह्ममहोनिधेः॥४३॥ वत्स स्वच्छमते! यासीन् मा स्म देशान्तरं भवान् । तुष्टा त्वद्भक्तिपुष्ट्याऽहं सेत्स्यतीहितमत्र ते॥४४॥ इत्युक्त्वा सा तिरोधत्त देवी वाचामधीश्वरी । स्तुत्या तस्या निशां नीत्वा पश्चादागादुपाश्रयम् ॥-युग्मम् । सिद्धसारस्वतोऽक्लेशात् सोमः सीमा विपश्चिताम् । अभूदभूमिरुन्निद्रान्तरवैरिकृतद्रुहः ॥ ४६॥ प्रभावकधुराधुर्यममुं सूरिपदोचितम् । विज्ञाय सङ्घमामय गुरवोऽमत्रयन्निति ॥ ४७॥ योग्यं शिष्यं पदे न्यस्य खकार्य कर्तुमौचिती । अस्मत्पूर्वेऽमुमाचारं सदा विहितपूर्विणः ॥४८॥ तदैव विज्ञदैवज्ञव्रजाल्लग्नं व्यचारयत् । विमृश्य तेऽथ व्याचक्रुः सर्वोत्तमगुणं क्षणम् ॥४९॥ जीवः कर्के तनौ सूर्यो मेषे व्योम्नि बुधान्वितः । चन्द्रो वृषे च लाभस्थो भौमो धनुषि षष्ठगः ॥५०॥ धर्मस्थाने झषे शुक्रः शनिरेकादशो वृषे । राहुस्तृतीयः कन्यायां विश्वविघ्नविनाशकः ॥५१॥ इति सर्वग्रहबलोपेतं लग्नं समृद्धिकृत् । होरा चान्द्री ततः पूर्वा द्रेष्काणः प्रथमस्तथा ॥ ५२ ॥ वर्गोत्तमः शशांकांशो नवमो द्वादशस्तथा । त्रिंशांशो वाक्पतेः षष्ठो लग्नेऽस्मिन् गुणमण्डिते ॥ ५३ ॥ प्रतिष्ठा यस्य जायेत पुरुषस्य सुरस्य च । राज्ञां ज्ञातो जगत्पूज्यः स भवेद् विश्वशेखरः ॥ ५४॥
-पंचभिः कुलकम् । अथ वैशाखमासस्य तृतीयामध्यमेऽहनि । श्रीसङ्घनगराधीशविहितोत्सवपूर्वकम् ॥ ५५ ॥ मुहूर्ते पूर्वनिर्णीते कृतनन्दीविधिक्रमाः । ध्वनत्तूर्यरवोन्मुद्रमङ्गलाचारबन्धुरम् ॥ ५६ ॥ शब्दाद्वैतेऽथ विनान्ते समये घोपिते सति । पूरकापूरितश्वासकुम्भकोद्भेदमेदुराः ॥ ५७ ।। श्रवणेऽगरुकर्पूरचन्दनद्रवचर्चिते । कृतिनः सोमचन्द्रस्य निष्ठानिष्टान्तरात्मनः ॥ ५८ ॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् । श्रीदेवचन्द्रगुरवः सूरिमत्रमचीकथन् ॥ ५९॥
-पंचभिः कुलकम् । तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः । हेमचन्द्रप्रभुः श्रीमान्नाम्ना विख्यातिमाप सः ॥ ६० ॥ तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ।। ६१ ॥
20
25
80
1N अत्य। 2N प्रोचे। 38 साधुमते। * 'उज्जयंततीर्थे' इति D टिप्पणी।'सारखते' इति D टि.1 4 N व्याचख्युः A B व्याचक्षुः। 5N षष्ठमः। 6N वैश्वविघ्नविनाशनः। 7 N मस्ततः।
Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252