Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
१८२
प्रभावकचरिते शिखिवेदशिवे (११४३) जन्म दीक्षा युग्मशरेश्वरे (११५२)।
वेदाश्वशंकरे वर्षे (११७४) सूरित्वमभवत् प्रभोः ॥ २८६ ॥ नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ।।
इत्थं श्रीदेवसूरेश्चरितमधरितक्षुद्रवादिप्रवादं
नादं वर्द्धिष्णु जैनप्रवचनभविनां सत्त्वमुक्तैरसेव्यम् । श्रेष्ठश्रेयाप्रदं तद् भवतु भवभृतामद्य काले भवानां
नन्द्यादाचन्द्रकालं विवुधजनशतैर्नित्यमभ्यस्यमानम् ॥ २८८॥ श्रीचन्द्रप्रभसूरिपद्दसरसीहंसप्रभः श्रीप्रभा__चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीदेवसूरेः कथा
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः कुयुग्मक्रमः ॥ २८९ ॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम __ कल्पद्रुव्रजचिन्तिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूदू यन्नाममन्त्रस्मृतेः॥ २९० ॥
॥ इति श्रीदेवसूरिप्रबन्धः॥
॥ ग्रं० ३२५, उभयं ४८७९ ॥
16
Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252