Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 194
________________ २१. वादिदेवसूरिचरितम् । २१. श्रीवादिदेवसूरिचरितम् । पातु य आक्रम्य दिगम्बरम् । कीर्तेरपि स्त्रियः सिद्धमूलधिष्ण्य'मतिष्ठिपत ॥१॥ देवाचार्यः श्रिये' भूयात् केवलज्ञानशालिनाम् । विमोच्याभोजनं येनाव्युच्छित्तिः शासने कृता ॥२॥ जीवितानादिराजीवममध्यमहितोदयम् । अनन्तविधुरद्रोहं वदनं तस्य संस्तुमः ॥ ३॥ भ्रान्तिसंवर्तकभ्रान्तिदुर्वृत्तरजसः शमे । अवारवारिवाहश्रि तद्वृत्तं परिकीर्यते ॥ ४॥ ६१. अस्ति गूर्जरदेशस्य नवनीतमिवोद्धृतम् । अष्टादशशतीनाम मण्डलं स्वर्गखण्डलम् ॥ ५॥ तत्र मड्डाहृतं नाम नगरं नगराजिभिः । ध्वान्तस्येव महादुर्गमगम्यं सूर्यरोचिषाम् ॥ ६॥ सद्वृत्तोज्जीवनच्छायो राजमानः स्वतेजसा । प्राग्वाटवंशमुक्तासीद् वीरनागाभिधो गृही ॥ ७ ॥ तत्प्रिया सक्रियाधारा प्रियंकरगुणावनिः । जिनदेवीति देवीव मेना हिमवतो बभौ ॥ ८॥ अन्यदा सा निशि स्वप्ने पीयूषरुचिमैक्षत । प्रविशन्तं मुखे पृथ्व्यामवतारेच्छया किल ॥ ९॥ 10 अन्वये गुरवस्तस्य श्रीमुनिचन्द्रसूरयः । सन्ति शान्तिकमत्रान्ते येषां नामाक्षराण्यपि ॥ १० ॥ प्रातः सा तत्पुरो गत्वा नत्वा सत्त्वमहालया । अपृच्छन्मुदिताचार्य(०थं ?) स्वप्नस्यातिशयस्पृशः ॥११॥ देवश्चन्द्रनिभः कोऽप्यवततार तवोदरे । आनन्दयिष्यते विश्वं येन ते चेत्थमादिशन् ॥ १२ ॥ अथ सा समयेऽसूत सुतं वज्रोपमद्युतिम् । यत्तेजसा कलिः शैलश्चकम्पे भेदभीतितः॥ १३ ॥ हृदयानन्दने तत्र वर्धमाने च नन्दने । चन्द्रस्वप्नात् पूर्णचन्द्र इत्याख्यां तत्पिता व्यधात् ॥ १४ ॥ 15 कदाचिन्नगरे तत्राशिवं जज्ञे जनान्तकृत् । सहसैव यतो लोकः प्रेक्ष्याप्रेक्ष्यत्वमादधौ ॥ १५ ॥ वीरनागो विचिन्त्यैतद् दक्षिणां दिशमाश्रयत् । भृगुकच्छपुरं प्राप लाटदेशविभूषणम् ॥ १६ ॥ विहारं जंगम तीर्थ श्रीमुनिचन्द्रसूरयः । चक्रुस्तत्र तदादेशात् स्थापितोऽसौ सधर्मिभिः ॥ १७ ॥ वर्षाष्टकवयाः पूर्णचन्द्र इत्यस्य नन्दनः । चक्रे 'सुखासिकादीनां वाणिज्यं शैशवोचितम् ॥ १८ ॥ वित्त नौवित्तहर्येषु विकाशिचणकैः समाः । द्राक्षा अवापदर्भत्वेऽपि हि पुण्यानि जाग्रति ॥ १९॥ 20 कस्मिंश्चित्सदनेऽन्येचुर्गतो व्यञ्जनविक्रये । द्रम्मान हेम च गेहेशं पिटैरुज्झन्तमैक्षत ॥ २० ॥ "भवाभाग्याद् घटश्लक्ष्णकर्कराङ्गाररूपतः । पश्यति स्म ततः पूर्णचन्द्रः प्राहातिविस्मितः ॥ २१ ॥ किमुज्झसि महाद्रव्यं नरसञ्जीवनौषधम् । इत्युक्ते स गृही ध्यौ चित्तेऽहो पुण्यवानसौ ॥ २२ ॥ वत्स ! द्रव्यमिदं वंशपात्रे क्षिप्त्वा ममार्पय । इत्युक्तः पूरयित्वाऽसौ पात्राण्यस्यार्पयत् तदा ॥ २३ ॥ तत्करस्पर्शमाहात्म्यात् तद् द्रव्यं पश्यति स्म सः । अपुण्य-पुण्ययोः साक्षादीदृशं दृश्यतेऽन्तरम् ॥ २४ ॥25 सोऽन्तर्गेहं क्षिपत्येवं सर्व निहितमन्तरा । एका सुखादिकाहेतोः प्रमृतिस्तेन चायेत ॥ २५ ॥ हृष्टश्च पितुराख्याय' ददौ तद् द्रविणं मुदा । वीरनागः प्रभूणां च यथावृत्तमदोऽवदत् ॥ २६ ॥ व्यमृशंस्तेऽप्यवातात्"ि किमेष पुरुषोत्तमः । दर्शयन्ती स्वरूपाणि लक्ष्मीर्यस्याभिलाषुका ॥ २७ ॥ रङ्गत्कुमुदचन्द्रांशुप्रसराच्छादकोदयः । विरोचनो विनेयश्चेदेषानन्तोन्नतिस्तदा ॥ २८ ॥ ततस्तेऽप्यवदन् वाचं शृणु नस्तव यद्वरम् । वस्तु सम्पद्यते कस्य भक्त्या तत् प्रतिपद्यते ॥ २९॥ 30 स प्राह नाथ ! पूज्यानां कुले नो गुरुताभृताम् । अहं त्वेकसुतो जीर्णस्तदास्था मेऽत्र जीवितुम् ॥ ३०॥ . 1N मूलविद्या । 20 प्रियो। 3N तत्पुरे। 4 B सुखादिका। 5 D चित्त; N चिंतनौचित्यह। 6N D तवा । 7N इत्युक्खा। 8 N चार्थिता। 9 D विधेह्याख्याय । 10A Sप्याथाता।


Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252