Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 198
________________ ___10 २१. वादिदेवसूरिचरितम् । १७५ ततस्त्यज मदं कुरु प्रशमसंयतान् खान् गुणान् दमो हि मुनिभूषणं स च भवेन्मदव्यत्यये ॥ ९९ ॥ इत्येवं कथिते बन्दिवरेणास्य पुरो मुनेः । वादिनः सोऽवदन्मूर्खसाधूनां शम उत्तरम् ॥ १०॥ उत्तेजनं किमप्येष क्रियते चित्तपीडनम् । अस्य विद्याकलामध्यं ज्ञायते येन तत्त्वतः ॥ १०१॥ विमृश्येति निजैः साधुवृन्दं रथ्यान्तरागतम् । वैरानुबन्धचेष्टाभिरुपासर्जयदद्भुतम् ॥ १०२ ॥ इत्येवमुपस्पृष्टेऽत्र निःप्रकम्पे सुमेरुवत् । दिग्वासा निजरूपाभमविशिष्टं प्रचक्रमे ॥ १०३ ॥ निजचैत्याग्रतो यान्ती वृद्धां गोचरचर्यया । उपसर्गयितुं साध्वीमारेभेऽन्येारुद्यतः ॥ १०४ ॥ अथ पल्लवकान् पल्लवकानिव 'तमस्तरोः । प्रेष्य तां कुण्डके क्षिप्त्वा नर्त्तयामास साहसी ॥ १०५ ॥ अहो साध्वीमसौ वृद्धां दर्शनिव्याजबुक्कसः । विडम्बयति पापीति तस्यावर्णो जनेऽभवत् ॥ १०६ ॥ अथ सा मोचिता कैश्चिदनुकम्पापरैनरैः । सूरेरुपाश्रयं प्रायादतिगद्गदशब्दभूः ॥ १०७॥ किंकृतस्तेऽपमानोऽयमिति पृष्टा च सूरिभिः । जरामन्युभराव्यक्तस्वरं प्राह तद्ग्रतः ॥ १०८॥ वर्द्धितोऽध्यापितः सूरिपदे मद्गुरुभिर्भवान् । स्थापितोऽस्मादृशामीविडम्बनकृते ध्रुवम् ॥ १०९ ॥ दिगम्बरोऽयं बीभत्सदर्शनः स्वविटवजैः । राजाध्वनि प्रयान्तीं मामनाथवदुपाद्रवत् ॥ ११० ॥ विद्वत्तया प्रभुत्वेन किं फलं तेऽवकेशिना । किं करस्थेन शस्त्रेण यदि शत्रुर्न हन्यते ॥ १११ ॥ शमशैत्यमहावळ्याः फलं परिभवो दृढः । अस्यते मुच्यते वापि राहुणा स्वेच्छया शशी ॥ ११२ ॥ 15 अद्य ते विक्रमः कालः पठितस्य फलं ह्यदः । धान्ये शुष्के धने चास्ते वर्षन् मेघः करोतु किम् ॥११॥ देवसूरिरथो वाचमुवाच क्रोधदुर्द्धराम् । मा विषादं कुरुष्वार्ये ! दुर्विनीतः पतिष्यति ॥ ११४ ॥ आर्याह दुर्विनीतोऽयं पतिष्यति नवा पुनः । त्वयि न्यस्तभरः सङ्घः पतिष्यत्येव वेत्रवत् ॥ ११५ ॥ प्रभुराह स्थिरीभूय चेद् विलोकयसे ततः । मुक्तानामिह वेधो नः संभवी गुणयुक्तये ॥ ११६ ॥ अथ चोवाच माणिक्य ! विज्ञप्तिं लिख मामिकाम् । श्रीमत्पत्तनसवाय विनयातिशयस्पृशम् ॥११७॥20 आदेशानन्तरं सोऽथ लिखति स्म स्फुटाक्षरम् । अदर्शयत् प्रभोः पश्चादथासौ प्रत्यवाचयत् ॥ ११८॥ 'स्वस्ति नत्वा जिनं श्रीमदणहिल्लपुरे प्रभुम् । संघ कर्णावतीपुर्याः श्रीमंतो देवसूरयः ॥ ११९ ॥ भक्त्या विज्ञपयन्त्यत्राशाम्बरेण विवादिना। शीघ्रमेवागमिष्यामः कृतवादाश्रवा इति ॥ १२० ॥ अचिराध्वन्यपुंसश्च हस्ते साऽथ समर्पिता । गूर्जराणां राजधानी स प्राप प्रहरत्रयात् ॥ १२१॥ दृष्ट्वा सङ्घन मोऽसौ भोजनाच्छादनादिभिः । सम्मान्य प्रहितः शीघ्रं प्रतिलेखं समर्प्य च ॥ १२२ ॥ आयाद् देवगुरोः पार्श्वे सङ्घादेशं ददौ मुदा । एनं ललाटे विन्यस्य विवृत्यावाचयञ्च सः ॥ १२३ ॥ 'खस्ति श्रीतीर्थनेतारं नत्वा श्री पत्त नात् प्रभुः। सङ्घः कर्णा व ती पु यो परवादिजयोर्जितम् ॥ १२४ ॥ 30 श्री देवोपपदं सूरि समादिशति सम्मदात् । आगन्तव्यं झटित्येव भवता वादिपुङ्गव ! ॥ १२५ ॥ 1N नभस्तरोः। 2N विक्रमे। 8 A BN °युक्तयोः। 25

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252