Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 182
________________ १८. सूराचार्यचरितम् । १५९ बहिः कथं तु निर्यासि मध्ये गच्छ सिताम्बर ! । अर्पिते गूर्जरे सर्वे सर्वतो मुत्कला ध्रुवम् ॥ २०६॥ स च श्रुत्वा करालोक्तिर्विकरालमुखोऽवदत् । मध्ये सिंहासनासीनं भूपालमिव गर्वतः ॥ २०७॥ कर्णे धृत्वा प्रभोरले नयतास्माकवैरिणम् । जयपत्रमथाप्नोति यमपत्रमथापि वा ॥ २०८ ॥ तृषाक्रान्ता वयं युष्मत्पुरवास्तव्यतां गताः । भवद्धर्मेण नीराय गच्छामो मुञ्चत द्रुतम् ॥ २०९॥ एकेन चाश्ववारेण कृपया मोचितोऽथ सः । मनीषिमौलिरत्नस्य गृहं प्रापापभीः प्रभुः ॥ २१०॥ 5 स चाह वाक्पथातीताच्छेकताने यतीश्वरः । यमदृष्टिपथादन्तर्धाय मे दृक्पथे स्थितः ॥ २११॥ अद्य ते जन्म मन्येऽहं गच्छस्तेऽद्य सपुण्यकः' । यद्भवानागतो जैनशासनव्योमभास्करः ॥ २१२ ॥ कथमागा इदं पृष्टः सूराचायों यथातथम् । अभ्यधादिति च श्रुत्वा परमानन्दमाप्तवान् ॥ २१३ ॥ भूमीगृहे सावकाशेऽवस्थाप्यादरपूर्वकम् । शुद्धाहारेण तं भक्त्या प्रत्यलाभयदुद्यतः ॥ २१४ ॥ ततस्ताम्बूलिकस्तोमं तत्र यान्तं निरीक्ष्य सः । अत्यादरेण संमान्य भोजनाच्छादनादिना ।। २१५॥ 10 ततश्चाभ्यर्थयामास तान् मम भ्रातरं स्वकम् । अणहिल्लपुरं यावत् परानयत निश्चितम् ॥ २१६ ॥ तेऽप्यूचुर्ब्राह्मणः पूज्यो राज्ञां ज्ञातो बुधाग्रणीः । तदादेशः प्रमाणं नः कार्यमावश्यकं ह्यदः ॥ २१७ ।। नावानिवृतिराधेया नयामः सपरिच्छदम् । यानारोहे वरे' मुक्तौ निश्चिन्तो वर्ततामसौ ॥ २१८ ॥ श्रीमता धनपालेन दीनाराणां शतं ददे । अङ्गीकरणतोऽमीषां रङ्गसङ्गतरङ्गिणा ॥ २१९॥ गुरचोल्लकमध्ये च गुप्तं कृत्वा गुरुं तदा । पर्याण्य वृषभान शीघ्रं ते चेलुगूजरावनौ ॥ २२० ॥ 15 महीतटागतेन श्रीसूराचार्येण सद्गुरोः । विज्ञापितं नरैरात्मागमनं कोशलोत्तरम् ॥ २२१ ॥ ६९. इतश्च विविशुश्चैत्यमपराह्ने भटाः स्वयम् । साधुं स्थूलोदरं दृष्ट्वा सिंहासन्युपवेशितम् ॥ २२२ ॥ प्रधानवस्त्रसंवीतमुद्यन्मदकलाकृतिम् । एवमूचुनपादेशानिर्गच्छत जिनालयात् ॥ २२३॥-युग्मम । मध्ये योऽत्र विलम्बः सोदूखले घातवञ्चना । उत्थाय सोऽप्रतो भूत्वाऽश्ववारैः सह जग्मिवान् ॥ २२४॥ पार्थिवस्य पुरो भूत्वाऽवतस्थे मौनमास्थितः । विलक्षण ततो राज्ञाऽऽह्वायका' जल्पितास्तदा ॥ २२५ ॥ 20 कोऽयं भवद्भिरानीतो बठरः स्थूलदेहभृत् । गतोऽसौ गूर्जरश्छेको भवतामग्रतो ननु ॥ २२६ ॥ अक्षिण रेणुं हि निक्षिप्य केनाप्यन्धाः कृताः कथम् । भवतां सदृशः कश्चिञ्चेतनारहितो नहि ॥ २२७ ॥ तेऽप्यूचुर्नाथ ! नीरस्य वाहकं दुर्गतं मुनिम् । एकं मुक्त्वा न कस्यापि निर्गमोऽस्मत्पुरः प्रभो! २२८ ॥ भूप आह परावृत्य वेषं वः पश्यतां ययौ । विजित्य नः" सभां नान्यस्तं विनोत्पन्नबुद्धिमान् ॥ २२९ ॥ पुरस्थं प्राह राजा स्वमावासं गच्छ पुण्यतः । मूर्खत्वं हि वरं श्लाघ्यं येनास्मत्तोऽपि जीवितः ॥ २३० ॥ 25 इत्यसौ प्रहितो राज्ञा मठे व्यावृत्य चाययौ । मूर्ध्न एव भ्रुवो वाक्षतवर्द्धन-मुण्डने ॥ २३१ ॥ १०. इतः श्रीभीमभूपालः प्रजिघाय नरान् निजान् । आह्वायकान् निजभ्रातुर्मातुलो ब्रतिभिः" सह॥२३२॥ स्वदेशे प्रकटो भूत्वा राजधानीमथाययुः । गुरवः" सङ्घसंवीतास्तस्याभिमुखमागमन ।। २३३ ॥ राजा च सर्वसामग्र्या प्रतिपन्थीव कः शुभे । आचार्यः स्वगुरोः पादौ प्रेक्ष्य ह्रीमानिवानमत् ॥ २३४ ॥ प्रत्यासन्नश्च तेषां स सर्वाभिगमपूर्वकम् । योगीवाष्टाङ्गयोगेन प्रह्वोऽभिहितवान् वचः ॥ २३५॥ 30 सफलाऽद्य गुरोराशा सफला मातुराशिषः । प्रसन्ना दृक् च मादृक्षे श्रीसङ्घस्य फलेग्रहिः ॥ २३६ ॥ अविमृश्य विधायी च गतो मालवके तदा । अक्षतोऽहमिहागच्छं यज्जित्वा भोजपर्षदम् ।। २३७ ॥-युग्मम् । 1N सुपुण्यकः । 2 N यथा तथा। 3 N अभ्ययादिति । 4 A D N यानारोहेतरे । 5 N भक्तौ। 6 N गुरवोऽल्लक । 7N हायिका। 8N ततो। 9 N प्यन्धः कृतः। 10D N न सतां । 11 N वृत्तिभिः। 12 A सभूपः संघ संवीतः खस्या : D स संघः संवीतः स्वस्या ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252