Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 187
________________ १६४ प्रभावकचरिते 10 15 श्रेष्ठी 'महाधरस्तत्र पुरुषार्थत्रयोन्नतः । मुक्त्वैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥ ९२ ॥ तस्याभयकुमाराख्यो धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि यद्गुणोक्तौ नहि प्रभुः ॥ ९३ ॥ सपुत्रः सोऽन्यदा सूरि प्रणन्तुं सुकृती ययौ । संसारासारतामूलः श्रुतो धर्मश्चतुर्विधः ॥ ९४ ॥ अथाभयकुमारोऽसौ वैराग्येण तरङ्गितः । आपपृच्छे निजं तातं तपःश्रीसङ्गमोत्सुकः ॥ ९५ ॥ अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः । ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ॥ ९६॥ स चावगाढसिद्धान्त तत्त्वप्रेक्षानुमानतः । बभौ महाक्रियानिष्ठः श्रीसङ्घाम्भोजभास्करः॥ ९७॥ श्रीवर्द्धमानसूरीणामादेशात् सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः॥ ९८॥ श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः । यशोभिर्विहरन प्राप पल्यपद्रपुरं शनैः ॥ ९९ ॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलंचक्रुर्वद्धमानसूरयो भूरयः क्रमात् ॥ १०॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः । सिद्धान्तस्युटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १०१ ॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ खिलं जज्ञे ततश्च तत् ॥ १०२॥ निशीथेऽथ प्रभुं धर्मस्थानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवं मुनीश्वरम् ॥ १०३ ॥ श्रीशीलाङ्क: पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाझ्याः स विदधे धौतकल्मषः॥१०४॥ अङ्गद्वयं विनाऽन्येषां कालादुच्छेदमाययुः । वृत्तयस्तत्र संघानुग्रहायाद्य कुरूद्यमम ॥ १०५॥ सूरिः प्राह ततो मातः ! कोऽहमल्पमतिर्जडः । श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥ १०६॥ अज्ञत्वात् क्वचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभृद् दर्शितं महत् ॥ १०७॥ अनुल्लंघ्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो 'लेभे न किञ्चिदुत्तरम् ॥ १०८॥ देवी प्राह मनीषीश ! सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं कथयामि विचिन्तय ।। १०९॥ यत्र सन्दिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमन्धरस्वामी तत्र गत्वा धृतिं कुरु ॥ ११०॥ आरभस्व ततो ह्येतत् माऽत्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥ १११ ॥ श्रुत्वेत्यङ्गीचकाराथ कार्य दुष्करमप्यदः । आचामाम्लानि चारब्ध ग्रन्थसंपूर्णतावधिः ॥ ११२॥ अक्लेशेनैव संपूर्णा नवाझ्या वृत्तयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता 'पुरा ॥ ११३ ॥ महाश्रुतधरैः शोधितासु तासु चिरन्तनैः । ऊरीचके तदा श्राद्धैः पुस्तकानां च लेखनम् ॥ ११४ ॥ ततः शासनदेवी च विजने तान् व्यजिज्ञपत् । प्रभो! मदीयद्रव्येण विधाप्या प्रथमा प्रतिः ॥ ११५ ॥ इत्युक्त्वा सा च समवसरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचिं दधौ ॥ ११६ ॥ तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिम्बवत् तद्विभूषणम् ॥ ११७ ॥ चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून मुदा । ते चाचख्युरुदन्तं तं श्राद्धानाह्वाययंस्तथा ॥ ११८ ॥ आयातानां ततस्तेषां गुरवः प्रेक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥ ११९ ॥ अदर्शि तैश्च सा तत्र स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्ये मत्रं विदधुरीदृशम् ॥ १२० ॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तदत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते तु 'न ॥ १२१ ॥ समुदायेन ते सर्वे पुरो राज्ञस्तद्भुतम् । मुमुचुः किल शक्रेण प्रणयात् प्राभृतं कृतम् ॥ १२२ ॥ तदुदन्ते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः । तपस्विनां विना मूल्यं न गृहामि प्रतिग्रहम् ॥ १२३॥ ते प्रोचुः श्रीमुखेनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः॥ १२४ ॥ 20 25 30 1N महीधर 12 B°सिद्धान्तः तखकावनुमानतः; D सिद्धान्ततत्त्वः प्रेक्षानु। 3Nऽत्र। 4 N लभते। 5N मन्ताहं। 6 D पुरा कृता। 7 N ननु ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252