Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 184
________________ १९. अभयदेवसूरिचरितम् । १९. श्रीअभयदेवसूरिचरितम् । 10 श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात् सौमनसोद्भेदभास्वरः सर्वमौलिभूः ॥१॥ आदृत्याष्टाङ्गयोगं यः स्वाङ्गमुद्धृत्य च प्रभुः। श्रुतस्य च नवाङ्गानां प्रकाशी स श्रिये द्विधा ॥२॥ वदन् बालो यथाऽव्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३ ॥ ६१. अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकन्दफलं सद्वर्णवृत्तसूः ॥४॥ 5 तत्रास्ति नगरी धारा मण्डलायोदितस्थितिः । मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद् भूपालः पालितावनिः । शेषस्येवापरे मूर्ती विश्वोद्धाराय यद्भुजौ ॥ ६ ॥ तत्र लक्ष्मीपति म व्यवहारी महाधनः । यस्य श्रिया जितः श्रीदः कैलासाद्रिमशिश्रयत्' ॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ । प्रहप्रज्ञाबलाक्रान्तवेदविद्याविशारदौ ॥ ८॥ अधीतपूर्विणौ सर्वान् विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां कुलकेतनतां गतौ ॥ ९॥ श्रीधरः श्रीपतिश्चेति नामानौ यौवनोद्यमात् । देशान्तरदिदृक्षायै निर्गतौ तत्र चागतौ ॥ १० ॥-त्रिभिर्विशेषकम् । तौ पवित्रयतः स्मात्र लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षां ददौ भक्त्या तदाकृतिवशीकृतः ॥ ११ ॥ गेहाभिमुखभित्तौ च लिख्यते स्मास्य लेखकम् । टंकविंशतिलक्षाणां नित्यं दद्दशतुश्च तौ ॥ १२॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसङ्कुलम् । तत्परिस्फुरितं सम्यक् सदाभ्यस्तमिवानयोः ॥ १३ ॥ 15 जनो मत्पार्वतः सूपकारवत्सूपकारवान् । वर्त्तते निष्ठुरः किं तु मम किञ्चिन्न यच्छति ॥ १४ ॥ ब्राह्मणा अपि गीर्वाणान् मन्मुखादाहुतिप्रदाः । तर्पयन्तु फलं तु स्यात् तत्कर्मकरतैव मे ॥ १५ ॥ इतीव कुपितो वह्निरद्वैकेनापि भस्मसात् । विद्धे तां पुरीमूरीकृतप्रतिकृतक्रियः ॥१६॥-त्रिभिर्विशेषकम् । लक्ष्मीपतिर्द्वितीयेऽह्नि न्यस्तहस्तः कपोलयोः । सर्वस्वनाशतः खिन्नो लेख्यदाहाद् विशेषतः ॥ १७॥ प्राप्ते काले गतौ भिक्षाकृते तस्य गृहाङ्गणे । प्राप्तौ प्लुष्टं च तदृष्ट्या विषण्णाविदमूचतुः॥१८॥ यजमान ! तवोन्निद्रकष्टेनावां सुदुःखितौ । किं कुर्वहे क्षुधा किं तु सर्वदुःखातिशायिनी ॥ १९॥ पुनरीहकुशुचाक्रान्तसत्त्ववृत्तिभेवान् किमु । धीराः सत्त्वं न मुञ्चन्ति व्यसनेषु भवादृशाः॥२०॥ इत्याकर्ण्य तयोर्वाक्यमाह श्रेष्ठी निशम्यताम् । न मे धनान्नवस्त्रादिदाहाद् दुःखं हि तादृशम् ॥ २१ ॥ यादृग्लेख्यकनाशेन निर्धर्मेण जनेन यत् । कलहः संभवी धर्महानिकृत् क्रियते हि किम् ॥२२॥-युग्मम् । जजल्पतुश्च तावावां भिक्षावृत्ती "तवापरम् । शक्नुवो नोपकर्तुं हि व्याख्यावो लेख्यकं पुनः ॥ २३ ॥ 25 श्रुत्वातिहर्षभूः श्रेष्ठी स्वपुरस्तौ वरासने । न्यवेशयजनः स्वार्थपूरकं ध्रुवमर्हति ॥ २४ ॥ तौ चादितः समारभ्यतिथिवाररूसङ्गतम् । व्यक्तवत्सरमासाङ्कसहितं खटिनीदलैः ॥ २५ ॥ वर्णजात्यभिधामूलद्रव्यसंख्यानवृद्धिभृत् । आख्यातं लेख्यकं स्वाख्याख्यानवद्धिषणाबलात् ॥ २६॥ पत्रकेषु लिखित्वा तत् श्रेष्ठी दध्यावहो इमौ । मम गोत्रसुरौ कौचित् प्राप्तौ मदनुकम्पया ॥२७॥ यद्विशोपकमात्रेण वदन्तौ ताव विस्मृतम् । दस्तरी-संपुटी'-पत्रनिरपेक्षं हि लेख्यकम् ॥ २८ ॥-युग्मम् । 30 ततः सन्मान्य सद्भोज्य वस्त्राद्यैर्बहुमानतः । स्वगेहचिन्तकौ तेन विहितौ हितवेदिना ॥ २९ ॥ जितेन्द्रियौ स तौ शान्तौ दृष्ट्वेति व्यमृशद् धनी । शिष्यौ मद्गुरुपाद्येऽमू स्तां चेत् तत्संघभूषणौ ॥ ३०॥ 1 A D शिश्रियत् । 20 व्यसनेन । 3 N °लेखक। 4 N नचापरं । 5N दुस्तरीसंपुटे । 6 B °चित्रको। प्र०२१

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252