Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 179
________________ 10 प्रभावकचरिते .. तूष्णीकेष्विति विश्रुत्य तेषु भूपो निजैनरैः । समपिण्डयदेकत्र वाटके तान् पशूनिव ॥ ११६ ॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तं नादाच सर्वेषामैकमत्यचिकीर्षया ॥ ११७॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैनिजैः । मतिरेका' कथं तेषां धान्येष्वेको यथा रसः ।। ११८ ॥ क्षुधा बाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष्य इति चिन्तामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सान्त्वनापूर्वकं तदा ॥ १२० ॥ भूपालः काल एवायं य एवं दर्शनबजे । ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवन्तो गूर्जराश्छेका वाक्प्रपञ्चेन केनचित् । निवर्त्तयध्वमेनं कुविकल्पादमुतो दृढात् ।। १२२ ॥ परं सहस्रलोकानां भवन्तः प्राणदानतः । उपार्जयध्वमत्युग्रं पुण्यं यद्गणनातिगम् ॥ १२३ ॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतौ । कार्य भवेन्महीशोऽपि न नः' प्रतिवदेत् किमु ॥ १२४ ॥ परन्तु दर्शनश्रेणिराराध्याऽनादिपद्धतिः । तदुक्तोपक्रमं किञ्चित् करिष्यामो विमोचकम् ॥ १२५॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद् गुरुः । आयातयातमस्माकं नृपेण सह नाग्रतः ॥ १२६ ।। परं दर्शनिलोकानां बहूनामनुकम्पया । किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः ॥ १२७ ॥ राजापि शीघ्रमायातु गूर्जरः कविकुञ्जरः । इत्युक्ते मत्रिभिः सार्धं स ययौ राजमन्दिरम् ॥ १२८ ॥ अवदद् भूपते ! अभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् तप एव तपस्विनाम् ॥ १२९ ॥ परं न नः स्वकं' कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३०॥ तत्रापि हि गताः किं नु स्वरूपं कथयेमहि । धारापुरश्च संस्थानं पृच्छामो भवदन्तिके ॥ १३१ ॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२ ।। स्वरूपं मत्पुरो यूयं शृणुताव्यप्रचेतसः । चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिता ॥ १३३ ॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विंशतिरट्टानामेवं पुरि च सूत्रणा ॥ १३४ ॥ सूरिः प्राहैकमेकाटुं कुरु किं बहुभिः कृतैः । एकत्र सर्वं लभ्येत लोको भ्रमति नो यथा ॥ १३५ ॥ राजाऽवदत् पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबाधा ततश्चक्रे पृथग हद्रावली मया ॥१३६॥ इत्याकावदत् सूरि रिर्वक्तृत्वकेलिषु । विद्वानपि महाराज! विचारयसि किं नहि ॥ १३७ ॥ स्वकृतान्यपि हट्टानि भक्तुं न क्षमसे यदि । अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ १३८ ॥ दयार्थी जैनमास्थेयाद् रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुक्त्यर्थी च निरञ्जनम् ॥ १३९ ।। चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत् तस्मान्महीपाल ! विचिंतय ॥ १४०॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचद् धृतेः ॥ १४१ ।। अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतोऽगच्छन् निजं सूरिरुपाश्रयम् ॥ १४२ ॥ ६६. तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहर्निशं भृशम् ॥ १४३ ।। मिलन्ति सुधियः सर्वे तत्राकारणमागमत् । ततः प्रचलितः सूरिः श्रीमान् "बूटसरखती" ॥१४४॥ सहैष्यामो वयमपि सूराचार्येण जल्पिते । गूर्जरावनिविद्वत्ताशया च न्यषेधि तैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोद्यतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मादृशविद्वनिरीक्षणे । कुतूहलाद् विहारो नः समागच्छाम एव तत् ॥ १४७ ।। अथ तेऽप्यनुमन्तारोऽप्रतिषेधेन तान् सह । नीतवन्तस्तदा पाठशालायां शङ्कितास्तदा ॥ १४८॥ 20 25 30 1 N गतिरेकः। 2 A D क्षुदा। 3D महेशोऽपि। 4 A B न न प्रति। 5 N सहसाग्रतः। 6N भूष । 7 N पर ततः कथं । 8 N कथयामहो। 9 A B भूरिवत्कृवकेलिषु। 10 N तत्र । 11 N चूडसर । 12 A सरस्वतीं।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252