Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
१७. महेन्द्रसूरिचरितम् । द्वापंचाशत्पले 'फाले 'शुध्येञ्चेन्मम मानुषम् । अत्रेदृशाक्षराण्येवावश्यमीहक् प्रतिभवे ॥ १८३ ।। कौतुकादथ भूपालस्तत्तथैव व्यधापयत् । राजमित्रं ततः फाले शुद्धः शुद्धयशोनिधिः ॥ १८४ ॥ प्रतीत एव राजात्र सत्ये को नाम मत्सरी । अथान्येारपृच्छत् तं सुधीशं भोजभूपतिः ॥ १८५ ॥ जैना जलाश्रयद्वारं सुकृतं किं न मन्वते । ततोऽवदत् स तत्रापि सूनृतं सूतव्रतः ॥ १८६ ॥
तथा हिसत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा यथेच्छं
विच्छिन्नाशेषतृष्णाः प्रहसितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं
तेनोदासीनभावं भजति यतिजनः कूपवमादिकार्ये ॥ १८७॥ राजाह सत्यमेवेदं धर्मः सत्यो जिनाश्रयः । व्यवहारस्थितानां तु रुच्यो नैव कथंचन ॥ १८८॥ 10 ततो राजसखा प्राह पित्राहमपि पाठितः । किंचिज्ज्ञात्वा मयाश्रायि का कथा त्वबुधे जने ॥ १८९॥
यतःत्याज्या हिंसा नरकपदवी नानृतं भाषणीयं
स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्कावृतेभ्य
स्तत्किं न्यूनो घृतमवमतं किं प्रमेह्यत्ति नो चेत्* ॥ १९०॥ ६५. धनपालस्ततः सप्तक्षेत्र्यां वित्तं व्ययेत् सुधीः । आदौ तेषां पुनश्चैत्यं संसारोत्तारकारणम् ॥ १९१ ॥
विमृश्येति प्रभो भिसूनोः प्रासादमातनोत् । बिम्बस्यात्र प्रतिष्ठां च श्रीमहेन्द्रप्रभुर्दधौ ॥ १९२ ।। सर्वज्ञपुरतस्तत्रोपविश्य स्तुतिमादधे । 'ज य जं तु क प्पे त्यादि गाथापंचशता मिताम् ॥ १९३ ॥ एकदा नृपतिः स्मार्त्तकथाविस्तरनिस्तुषः । वयस्यमवदजैनकथां श्रावय कामपि ॥ १९४ ॥ 20 द्वादशाथ सहस्राणि ग्रन्थमानेन तां ततः। परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥ १९५ ॥ यथार्थी काचदोषस्योद्धारात् तिलकमञ्जरीम् । रसेन कवितारूपचक्षुनैर्मल्यदायिनीम् ॥ १९६ ॥ विद्वजनास्यकर्पूरपूराभां वर्णसम्भृताम् । सुधीविरचयांचक्रे कथां नवरसप्रथाम् ॥ १९७॥-त्रिभिर्विशेषकम्। रसा नव परां कोटिं प्रापिताः कविचक्रिणा । कथायां तत्समाप्तौ च तद्ध्याने परिवर्तते ॥ १९८॥ स्वयूथ्यानामिवामीषां प्रस्तावं ते धुर्बुवम् । रसानां स ततः षण्णामास्वादमबुधद् बुधः ॥ १९९ ॥ 25 दुहित्रा च ततः पृष्टं तात! ग्रन्थः समापि किम् । अहो पर्दा पितृध्याने सुताज्ञाने च चित्रकृत् ॥२०॥ अथासौ गूर्जराधीश कोविदेशशिरोमणिः । वा दि वे ताल विशदं श्रीशान्त्याचार्यमाह्वयत् ॥ २०१॥ अशोधयदिमां चासावुत्सूत्रादिप्ररूपणात् । शब्दसाहित्यदोषास्तु सिद्धसारस्वतेषु किम् ॥ २०२॥ ६. तस्यां व्याख्यायमानायां स्थालं हैमममोचयत् । भूपालः पुस्तकस्याधो रससङ्ग्रहहेतवे ॥ २०३॥ तत्र तद्रसपीयूषं पूर्वमाहृतवान् नृपः । आधिव्याधिसमुच्छेदहेतुमक्षयतृप्तिदम् ॥ २०४॥ 30 सम्पूर्णायां च तस्यां स प्राह पृच्छामि किंचन । तथा त्वामर्थये किञ्चिच्चेन्न धारयसे" रुषम् ॥ २०५॥
15
__1A स्फाले। 2 A शुद्धत मम; N B शुद्ध चेन्मम । 3 A मानसम् । 4 D N राजा मित्रं। 5 N A मन्यते । 6A Dजनाश्रयः। * 'सपिर्दुष्टं तत् किमियता यत् प्रमेही न भुक्ते।' इति B आदर्श पृष्ठपार्श्वभागे पाठभेदो लिखितो लभ्यते। 7 N °मिमाम् । 8 A गूर्जराधीशः। 90 °सूत्राणां । 10 N °माहूतवान् । 11 N किंच तेन धारय मे ।
प्र० १९
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252