Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रभावकचरिते
15
यः कोऽपि पण्डितंमन्यः पृथिव्यां दर्शनेष्वपि । तर्क-लक्षण-साहित्योपनिषत्सु वदत्वसौ ॥ २५७ ॥ अथ श्रीभोजभूपालपुरः संगत्य पर्पदम् । तृणाय मन्यमानोऽसौ साहंकारां गिरं जगौ ॥ २५८ ॥
गलत्विदानि चिरकालसञ्चितो मनीषिणामप्रतिमल्लतामदः । उपस्थिता सेयमपूर्वरूपिणी तपोधनाकारधरा सरखती ॥ २५९ ॥ क्षितिप तव समक्षं बाहुरूर्वीकृतो मे
वदतु वदतु वादी विद्यते यस्य शक्तिः। मयि वदति वितण्डावादजल्पप्रवीणे
जलधिवलयमध्ये नास्ति कश्चिद् विपश्चित् ॥ २६०॥ हेमाद्रेबलवत्प्रमाणपटुता ताय॑स्य पक्षो दृढः
शैलानां प्रतिवादिता दिविषदां पात्रावलम्बग्रहः । देशस्यैव सरखतीविलसितं किंवा बहु ब्रूमहे
धर्मे सञ्चरति क्षितौ कविबुधख्यातिप्रंहाणां यदि ॥ २६१॥ बृहस्पतिस्तिष्ठतु मन्दबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ २६२ ॥ आचार्योऽहं कविरहमहं वादिराट् पण्डितोऽहं
दैवज्ञोऽहं भिषगहमहं मात्रिकस्तात्रिकोऽहम् । राजन्नस्यां जलधिपरिखामेखलायामिलाया
माज्ञासिद्धः किमिह बहुना सिद्धसारखतोऽहम् ॥ २६३ ॥ इत्याडम्बरकाव्यानि तस्य श्रुत्वा महाधियः । अर्वाग्दृशोऽभवन् सर्वे भूपालो व्यमृशत् ततः ॥ २६४ ॥ पुंसा तेन विना पर्षच्छून्येव प्रतिभासते । स कथं पुनरागन्ता य एवमपमानितः ॥ २६५॥ पुनः प्राप्यः कथंचित् स्यात् तदा प्रतिविधास्यते । एवं विचिन्त्य सर्वत्राप्रैषीद् विश्वास्यपूरुषान् ॥ २६६ ॥ शोधितः सर्वदेशेषु तेषामेके तमाप्नुवन् । मरुमण्डलमध्यस्थे पुरे सत्यपुराभिधे ॥ २६७ ॥ तैश्च वैनयिकीभिः स वाणीभिस्तत्र सान्त्वितः । औदासीन्ये स्थितः प्राह नायास्ये तीर्थसेव्यहम् ॥२६८॥ तैर्विज्ञप्ते यथावृत्ते भूपः पुनरचीकथत् । ततो(?वो)दासीनताभासं वचोऽसावखरप्रियम् ॥ २६९॥ श्रीमुञ्जस्य महीभर्तुः प्रतिपन्नसुतो भवान् । ज्येष्ठोऽहं तु कनिष्ठोऽस्मि तत्किं गण्यं लघोर्वचः ॥ २७० ॥ पुरा ज्यायान्महाराजस्त्वामुत्सङ्गोपवेशितम् । प्राहेति बिरुदं तेऽस्तु श्री कूर्चा ल स र स्व ती ॥ २७१ ॥ त्यता वयं त्वया वृद्धा राज्यमाप्ताश्च भाग्यतः । जये पराजये वाप्यवन्तिदेशः स्थलं तव ॥ २७२ ॥ ततो मत्प्रियहेतोस्त्वमा गच्छागच्छ माऽथवा । जित्वा धारां त्वयं कौलः परदेशी प्रयास्यति ॥ २७३ ।। तत्ते रूपं विरूपं वा जानासि स्वयमेव तत् । अतःपरं प्रवक्तुं न सांप्रतं नहि बुद्ध्यते ॥ २७४ ॥ प्राकृतोऽपि स्वयं ज्ञातं कुरुते नेतरत् पुनः । किं पुनस्त्वं महाविद्वांस्तद् वाथारुचितं कुरु ॥ २७५ ॥ धनपाल इति श्रुत्वा स्वभूमेः पक्षपाततः । तरसाऽगात् ततो ज्ञात्वा राजाभिमुखमागमत् ॥ २७६ ॥
दृष्टे च पादचारेण भूपः संगम्य धीनिधिम् । दृष्टमाश्लिष्य चावादीत् क्षमस्वाविनयं मम ॥ २७७ ॥ 1N °सेवितो। 2 N त्यक्ला। 3 AD स्वयं। 4 AD °देशस्थलं। 5 B तद्यथा; N तद्यथा ।
20
25
30
Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252