Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 167
________________ 5 15 प्रभावकचरिते अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥१६२ ॥ अन्यदा नृपतिः प्राह तव सूनृतभाषणे । अभिज्ञानं किमप्यस्ति सत्यं कथय तन्मम ॥ १६३ ॥ चतारोपविष्टानां केन द्वारेण निर्गमः । स्यादस्माकमिदानीमित्याख्याहि कविवासव!॥ १६४॥ ततोऽसौ पत्रकेऽलेखीदक्षराणि महामतिः । ततः स मुद्रयित्वा च स्थगीवित्तस्य चार्पयत् ॥ १६५ ॥ ध्यायन्निति नृपो द्वारचतुष्कस्येह मध्यतः । एकेन केनचिद् द्वारा गतिर्ज्ञाता भविष्यति ॥ १६६ ॥ ज्ञानिनोऽप्यस्य वचनमत्र मिथ्या करिष्यते । ततो गते गृहं मित्रे भुक्त्याह्वानं समागमत् ॥ १६७ ॥ मण्डपोपरिभागे च छिद्रं 'प्रापातयन्नरैः । तेन च्छिद्रेण निर्गत्य राजा स्वरुचितो ययौ ॥ १६८॥ तन्मध्याह्न कवीशं तमाकार्यापृच्छदद्भुतम् । पत्रकं कर्षयित्वा स स्थगीमध्याददर्शयत् ॥ १६९ ।। तत्र चोपरिभागेन निर्यास्यति नृपो ध्रुवम् । इति तथ्यं वचस्तस्य ज्ञात्वा राजा चमत्कृतः॥ १७॥ अन्येयुः सेतुबन्धेन प्राहिणोन्नृपतिर्नरान् । प्रशस्तिर्विद्यते यत्र विहिता श्रीहनूमता ॥ १७१॥ तत्काव्यानयनार्थं ते मधूच्छिष्टस्य पट्टिकाः । निधायाम्भोनिधौ मत्स्यवसाञ्जितविलोचनाः ॥ १७२ ॥ प्रशस्त्युपरि ता बाढं विन्यस्याथ पुनस्ततः । उत्पाट्यापरतैलाक्त पट्टिकासु च मीलिताः ॥ १७३ ॥ ततोऽप्युद्धृत्य पत्राल्यामक्षराण्यलिखन्नराः। तानि "रक्षःकुलानीव खण्डवृत्तान्यतोऽभवन् ॥ १७४ ॥-त्रिभिर्विशेषकम् ॥ राज्ञालोक्यन्त तान्यत्राविशदर्थानि किं पुनः । हट्टे शाकफलानीव खण्डितान्यरसान्यभुः ॥ १७५ ॥ परयन्ति निजैः प्रज्ञाविशेषैस्ते महाधियः । परं राज्ञश्चमत्कारकरी कस्यापि नैव वाक ॥ १७६॥ द्विपदी त्रिपदी चैका तन्मध्यादर्पिता ततः । श्रीमतो धनपालस्य बालस्य कविताविधौ ॥ १७७ ।। तथा हि(क) 'हरशिरसि शिरांसि यानि रेजुर्हरि हरि तानि लुठन्ति गृध्रपादैः।' तथा(ख) 'लाता तिष्ठति कुन्तलेश्वरसुता वारोगराजखसु द्यतेनाद्य जिता निशा कमलया देवी प्रसाद्याद्य च । इत्यन्तःपुरचारिवारवनिताविज्ञापनानन्तरं' वचनानन्तरं विद्वान् ते समस्ये अपूरयत् । तथा हि(क) 'अयि खलु विषमः पुराकृतानां विलसति जन्तुषु कर्मणां विपाकः ॥ १७८ ॥ तथा(ख) 'स्मृत्वा पूर्वसुरं विधाय बहुशो रूपाणि भूपोऽभजत् ॥ १७९॥' कीरविद्वान् हसन्नाह जैनोचितमिदं वचः ॥ १८० ।। एषां' मते परीपाकः कर्मणां हि प्रकथ्यते । समस्यापूरणं ह्येतत् सौवीरामोदमेदुरम् ॥ १८१ ॥ कवीन्द्रः प्राह कीरस्य रागः स्याद् वदने धुवः । मलिनाङ्गस्य सत्यं तु सूर्यः प्रकटयिष्यति ।। १८२ ।। 20 25 30 1 N प्राप्यत यन्नरैः। 2N उपरितो। 30 तैलाक्ष। 4 A रक्तकू। 5 N तेषां। 6 A D प्रकट्यते ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252