________________
5
15
प्रभावकचरिते अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः॥१६२ ॥ अन्यदा नृपतिः प्राह तव सूनृतभाषणे । अभिज्ञानं किमप्यस्ति सत्यं कथय तन्मम ॥ १६३ ॥ चतारोपविष्टानां केन द्वारेण निर्गमः । स्यादस्माकमिदानीमित्याख्याहि कविवासव!॥ १६४॥ ततोऽसौ पत्रकेऽलेखीदक्षराणि महामतिः । ततः स मुद्रयित्वा च स्थगीवित्तस्य चार्पयत् ॥ १६५ ॥ ध्यायन्निति नृपो द्वारचतुष्कस्येह मध्यतः । एकेन केनचिद् द्वारा गतिर्ज्ञाता भविष्यति ॥ १६६ ॥ ज्ञानिनोऽप्यस्य वचनमत्र मिथ्या करिष्यते । ततो गते गृहं मित्रे भुक्त्याह्वानं समागमत् ॥ १६७ ॥ मण्डपोपरिभागे च छिद्रं 'प्रापातयन्नरैः । तेन च्छिद्रेण निर्गत्य राजा स्वरुचितो ययौ ॥ १६८॥ तन्मध्याह्न कवीशं तमाकार्यापृच्छदद्भुतम् । पत्रकं कर्षयित्वा स स्थगीमध्याददर्शयत् ॥ १६९ ।। तत्र चोपरिभागेन निर्यास्यति नृपो ध्रुवम् । इति तथ्यं वचस्तस्य ज्ञात्वा राजा चमत्कृतः॥ १७॥ अन्येयुः सेतुबन्धेन प्राहिणोन्नृपतिर्नरान् । प्रशस्तिर्विद्यते यत्र विहिता श्रीहनूमता ॥ १७१॥ तत्काव्यानयनार्थं ते मधूच्छिष्टस्य पट्टिकाः । निधायाम्भोनिधौ मत्स्यवसाञ्जितविलोचनाः ॥ १७२ ॥ प्रशस्त्युपरि ता बाढं विन्यस्याथ पुनस्ततः । उत्पाट्यापरतैलाक्त पट्टिकासु च मीलिताः ॥ १७३ ॥ ततोऽप्युद्धृत्य पत्राल्यामक्षराण्यलिखन्नराः।
तानि "रक्षःकुलानीव खण्डवृत्तान्यतोऽभवन् ॥ १७४ ॥-त्रिभिर्विशेषकम् ॥ राज्ञालोक्यन्त तान्यत्राविशदर्थानि किं पुनः । हट्टे शाकफलानीव खण्डितान्यरसान्यभुः ॥ १७५ ॥ परयन्ति निजैः प्रज्ञाविशेषैस्ते महाधियः । परं राज्ञश्चमत्कारकरी कस्यापि नैव वाक ॥ १७६॥ द्विपदी त्रिपदी चैका तन्मध्यादर्पिता ततः । श्रीमतो धनपालस्य बालस्य कविताविधौ ॥ १७७ ।।
तथा हि(क) 'हरशिरसि शिरांसि यानि रेजुर्हरि हरि तानि लुठन्ति गृध्रपादैः।'
तथा(ख) 'लाता तिष्ठति कुन्तलेश्वरसुता वारोगराजखसु
द्यतेनाद्य जिता निशा कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरचारिवारवनिताविज्ञापनानन्तरं' वचनानन्तरं विद्वान् ते समस्ये अपूरयत् ।
तथा हि(क) 'अयि खलु विषमः पुराकृतानां विलसति जन्तुषु कर्मणां विपाकः ॥ १७८ ॥
तथा(ख) 'स्मृत्वा पूर्वसुरं विधाय बहुशो रूपाणि भूपोऽभजत् ॥ १७९॥'
कीरविद्वान् हसन्नाह जैनोचितमिदं वचः ॥ १८० ।। एषां' मते परीपाकः कर्मणां हि प्रकथ्यते । समस्यापूरणं ह्येतत् सौवीरामोदमेदुरम् ॥ १८१ ॥ कवीन्द्रः प्राह कीरस्य रागः स्याद् वदने धुवः । मलिनाङ्गस्य सत्यं तु सूर्यः प्रकटयिष्यति ।। १८२ ।।
20
25
30
1 N प्राप्यत यन्नरैः। 2N उपरितो। 30 तैलाक्ष। 4 A रक्तकू। 5 N तेषां। 6 A D प्रकट्यते ।