________________
१६. वादिवेतालशान्तिसूरिचरितम् ।
१३५ हु५. अग्रे च तत्र वास्तव्यजिनदेवस्य धीमतः । श्रेष्ठिनस्तनयः पद्मनामा दष्टो महाहिना ॥ ६१ ॥
मात्रिकैः सर्वपक्षीयैर्मत्रौषधविजृम्भितैः । अत्यर्थं प्रतिकारेषु कृतेष्वपि न सज्जितः ।। ६२ ॥ तत उत्पाट्य गर्तायां निक्षिप्तः स्वजनैः सह । सर्पदष्टव्यवस्थेयं पुनरुज्जीवनाशयां ॥ ६३ ॥ इति विज्ञापिते शिष्यैर्जिनदेवगृहेऽगमन् । सम्बोधनार्थमाचख्युरथ ते प्रभवस्तदा ॥ ६४ ॥ दष्टं दर्शयतास्माकं प्रकाश्य क्षितिमध्यतः । जिनदेवस्तदाकर्ण्य श्मशाने तैः समं ययौ ॥६५॥ भुवमुत्खाय तस्मिंश्च दर्शिते गुरवोऽमृतम् । तत्त्वं स्मृत्वाऽस्पृशन् देहं दष्टश्चासौ समुत्थितः ॥६६॥ गुरुपादौ नमस्कृत्य पद्मः पद्मनिभाननः । प्राहाहं गुरवः सखजनाः कथमिहागमन् ॥ ६७ ॥ प्राग्वृत्ते कथिते सद्यो जिनदेवेन हर्षतः । उत्सवाद् गुरुभिः सार्धं स खं निलयमागमत् ॥ ६८ ॥
तत्पित्राभ्यर्चिताः पूज्या निजमाश्रममाययुः । गुरुर्वेश्मागतश्चोपकर्ता प्राप्येत केन सः ॥ ६९॥ ६६. अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा । अध्यापयन्ति श्रीशान्तिसुरयश्चैत्य संस्थिताः॥७०॥10
सूरिः श्रीमुनिचन्द्राख्यः श्रीनड्डलपुरादगात् । अणहिल्लपुरे चैत्यपरिपाटीविधित्सया ॥ ७१ ॥ संपत्संपत्तिरम्यश्रीश्रीसंपकजिनालये । नत्वा श्रीवृषभं सूरिवृषभं प्राणमत् ततः ॥ ७२ ॥ प्रमेया दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः । तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ अपुस्तकः स ऊर्ध्वस्थो दिनान् 'पञ्चदशाऽशृणोत् । तत्रागत्य तदध्यायध्यानधीरमनास्तदा ॥ ७४ ॥ बहुशः कथ्यमानेऽपि प्रमेये दुर्घटेऽन्यदा । छात्रेष्वनधिगच्छत्सु पूज्या निवेदमागमन् ॥ ७५ ॥ 15 भसिते हुतमित्युक्त्वा गुरवोऽत्र निःशश्वसुः । तदा श्रीमुनिचन्द्राख्यः सूरिः पूज्यान व्यजिज्ञपत् ॥७६॥ सपुस्तकाः पाठका ये प्रष्ठप्रज्ञाबलोन्नताः' । किं वदन्ति त एवात्र पुरा गुरुपुरस्कृताः ॥ ७७ ॥ अपरो बहिरायातः सर्वथानुपलक्षितः । सोऽपि किं लभते वक्तुं नवेत्यादिशत प्रभो!॥ ७८॥ श्रुत्वेति हृचमत्कारि तद्वचः प्रभवोऽवदन् । प्रज्ञायां पक्षपातो नः शिष्याणां नान्यहेतुषु ॥ ७९ ॥ इतोऽह्नि षोडशेऽतीते यद् व्याख्यातं सुदुर्घटम् । अस्माभिस्तदभिप्रायादद्योक्तं सुविवेचनम् ॥ ८०॥ 20 निशमय्येत्यसौ प्राज्ञस्तदधीतदिनावधिः । सर्वेष्वहस्सु यच्चोक्तं तद्वक्तव्यं यथातथम् ॥ ८१ ॥ सद्यश्च तैर्यदाख्यातं परप्राज्ञैः सुदुःश्रवम् । सर्वानुवादसंवादमवादीद् विशदं ततः॥ ८२॥ श्रीशा भिस्तोषपोषतः परिषस्वजे । प्रोचे च संनिवेश्याङ्के रत्नं रेणुवृतं भवान् ॥८३ ॥ वत्स ! प्रमाणशास्त्राणि पठाशठमतिर्मम । पार्श्वे नश्वरदेहस्य लाभमत्र गृहाण भोः ! ॥ ८४ ॥ पुनर्व्यज्ञपयत्" सूरिमुनिचन्द्रः" प्रभो ! कथम् । अध्येयं स्थानकाभावे दुष्प्रापं स्थानमत्र यत् ॥ ८५ ॥25 ततस्ते टंकशालायाः पश्चाद्भागे समार्पयन् । आश्रयार्थं गृहं चारु श्राद्धपाद् विदूषणम् ॥८६॥ षड्दर्शनप्रमाणानां शास्त्राण्यक्लेशतोऽथ सः। अध्यैष्ट ज्ञापक-ज्ञात्रोर्योगो दुर्लभ ईदृशः ॥ ८७ ॥ ततः सुविहितानां हि साधूनामाश्रयाः पुरे । बभूवुरत्र संवित्त्या सर्वसङ्घचरित्रिणाम् ॥ ८८॥ उत्तराध्य य न ग्रंथ टी का श्रीशांतिसूरिभिः । विदधे वादिनागेन्द्रसन्नागदमनीसमा" ॥ ८९॥ शिष्येण मुनिचन्द्रस्य सूरेः श्रीदेवसूरिणा । तन्मध्यत उपन्यस्तस्त्रीनिर्वाणबलादिह ॥ ९० ॥ 30 पुरः श्रीसिद्धराजस्य जितो वादे दिगंबरः । तदीयवचसां निश्रा" विद्वदुःसाधसाधिका" ॥ ९१ ॥
1N °व्यवस्थायां। 20 °जीवनाशयः। 3 N हर्षितः। 4 N भ्यर्थिताः। 5N दिनानां च दशा। 6N भस्मनि । 7 N प्रज्ञावतोन्नताः। 8 N तदनूद्य । 9 N रत्नरेणु। 10 व्यजिज्ञपत् ; A विज्ञपयत्। 11 N °चन्द्रप्रभो। 12 N 'विभूषणम् । 13 N B संवृत्या । 14 N°दमनी हि सा। 15 N मिश्रा । 16 A °साधका ।