________________
5
10
15
20
25
30
प्रभावकचरिते
इदं व्याख्याहि चेद् वेत्सि लघु' पण्डितमण्डनः । इत्याकर्ण्य स च व्याख्यादिदं वृत्तमकृच्छ्रतः ॥ २९॥ श्रुत्वेति 'स कविस्वामी प्राह हृष्ट इदं कियत् । श्रीशान्त्याचार्यहस्तस्य प्रभावो बहुरीक्ष्यते ॥ ३० ॥ उपन्यासं प्रतिष्ठायास्तत्र सर्वज्ञ- जीवयोः । ऊर्जस्विगर्जिपर्जन्यध्वनिना विदधेऽथ सः ॥ ३१ ॥ सिंहासनमलंचक्रे गुरुभिस्तावदाशु तैः । अपरो मातृकापाठोचितशिष्यस्तथौच्यत ॥ ३२ ॥ इदानीं किं कृतं वत्स ! स्तम्भावष्टम्भिना त्वया । स प्राहानेन यत्प्रोक्तं तत्सर्वमवधारितम् ॥ ३३ ॥ वदेति प्रभुभिः प्रोक्ते निखानध्वानधीरगीः । उज्जग्राहातिकुग्राह व्यूहसंहरणामहः ॥ ३४ ॥ श्रुत्वेति धनपालोऽपि चमत्कारातिपूरितः । उवाच भारती किं नु प्राप्ता बालर्षिरूपतः ॥ ३५ ॥ प्रेषयध्वं मया सार्धममुमेव धियां निधिम् । गुरुसन्देह सन्दोहरौलदम्भोलिविभ्रमम् ॥ ३६ ॥ अथ ते सूरयः प्रोचुः कालोऽस्य पठितुं ततः । क्लिष्टप्रमाणशास्त्राणि परग्रन्थेष्वधीतिनः ॥ ३७ ॥ पात्रं चेच्छास्त्रपाथोधे 'र्वादिकल्लोलितं भवेत् । इत्याशा नस्ततो नायमध्यायाद् व्यतिरिच्यते ॥ ३८ ॥ सिद्धसारस्वतो विद्वानथोचे प्रभुभिर्ध्रुवम् । देशः शृङ्गारणीयोऽयं मालवः स्वक्रमाम्बुजैः ॥ ३९ ॥ इत्याकर्ण्य प्रभुः प्रोचे चेन्निर्बन्धोऽयमत्र वः । आप्रष्टव्यस्तदा सङ्घः प्रधानाचार्यसङ्गतः ॥ ४० ॥ ४. ततस्तदनुमत्या तेऽवन्तिदेशे व्यजीहरन् । वृताः श्री भीमभूपालप्रधानैः सपरिच्छदैः ॥ ४१ ॥ पथि सञ्चरतां तेषां निशि सङ्गत्य भारती । आदेशं प्रददे वाचा प्रसादातिशयस्पृशा ॥ ४२ ॥ स्व-स्वदर्शननिष्णाता ऊर्ध्वे हस्ते त्वया कृते । चतुरङ्गसभाध्यक्षं विद्रविष्यन्ति वादिनः ॥ ४३ ॥ सक्रोशं योजनं धारानगरीतः समागमत् । तस्य तत्र गतस्य श्री भोजो हर्षेण संमुखः ॥ ४४ ॥ एकैकवादिविजये पणं संविदधे तदा । मदीया वादिनः केन जय्या इत्यभिसन्धितः ॥ ४५ ॥ लक्षं लक्षं प्रदास्यामि विजये वादिनं प्रति । गूर्जरस्य बलं वीक्ष्यं श्वेतभिक्षोर्मया ध्रुवम् ॥ ४६ ॥ युग्मम् । विश्वदर्शनवादीन्द्रान् स राज्ञः पर्षदि स्थितः । जिग्ये चतुरशीतिं च स्वस्वाभ्युपगमस्थितान् ॥ ४७ ॥ अजैषीदूर्ध्वहस्तेन प्रत्येकं प्रतिवासरम् । अनायासादसौ सारवक्ता न्यायैकनिष्ठधीः ॥ ४८ ॥ लक्षांस्तत्संख्यया दत्त्वा द्रव्यस्याथ महीपतिः । तत आह्वास्त तत्कालं सिद्धसारस्वतं कविम् ।। ४९॥ ततोऽनुययुस्ते तं स भीतो द्रव्यव्ययादतः । पंचकोटिव्ययप्राप्तो वादिपंचशतीजये ॥ ५० ॥ किं नामामुष्य जैनर्षेर्धनपालस्ततोऽब्रवीत् । शान्तिरित्यभिधा सूरेरस्य श्रुत्वेति' भूपतिः ॥ ५१ ॥ शान्तिनाम्ना प्रसिद्धोऽस्ति वे तालो वा दिनां पुनः । ततो वादं निषेध्यासौ सम्मान्यातः प्रहीयते ॥ ५२ ॥ तत्व ?) त्कथाशोधकत्वेन नामुमत्र विसूत्रये । अन्यथा मत्सभां जित्वा को यात्यक्षतविग्रहः ॥ ५३ ॥ पञ्चदश लक्षण सहस्रा गुर्जरावनेः । एवमङ्केऽथ तज्जज्ञे लक्षद्वादशकं ततः ॥ ५४ ॥ तथा षष्टिसहस्राश्च मया दत्तास्ततोऽधुना । कथा शोधयितव्याऽऽशु धनपालधियांनिधेः ॥ ५५ ॥ पर्यालोच्येति तेनाथ स्थापिताः शान्तिसूरयः । लक्षैर्द्वादशभिस्तत्र देशे चैत्यान्यचीकरत् ॥ ५६ ॥ अवशिष्टास्तथाषष्टिः' सहस्रा भूपदत्ततः । थारापद्राभिधद्रङ्गे प्रहिताः प्रभुभिस्तदा ॥ ५७ ॥ तत्रस्थादिप्रभो मूलनायकवामतः । तैर्देवकुलिकाऽकारि सशालश्च रथो महान् ॥ ५८ ॥ कथा च धनपालस्य तैरशोध्यत निस्तुषम् । वा दि वेताल विरुदं तदैषां प्रददे नृपः " ।। ५९॥ कवीश्वरानुयाताश्च गूर्जरेशधरावधिः । प्रत्यावृत्याथ ते प्रापुः पत्तनं श्रीनिकेतनम् ॥ ६० ॥
१३४
1 N तत्तु । 2 N श्रुतेति । 8 N देवो । 9 N°चतुःषष्टिः।
3 N च । 4 N पाथोधिः । 5 N पृष्टव्यः सदा । 6 N हृताः । 7 N शुद्धेति । 10 B N वादिवेतालबिरुदं सूरीणां प्रददे नृपः ।