Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 164
________________ 15 १७. महेन्द्रसूरिचरितम् । १४१ इत्युक्त्वा जग्मतुस्तौ च निजं स्थानं महामुनी । सुस्नातो 'भुक्तिपूर्वं च सुधीः प्रायादुपाश्रये ॥ ९६ ॥ अथ श्रीशोभनो विज्ञोऽभ्युत्तस्थौ गुरुवान्धवम् । आलिलिङ्गे च तेनासौ सोदरस्नेहमोहतः ॥ ९७ ॥ तेन चार्डासने दत्तेऽग्रजे नोपाविशत् तदा । ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः ॥ ९८ ॥ जिनेन्द्रदर्शनं धर्ममूलं भोजनृपाज्ञया । यन्निस्य मयोपार्जि नान्तस्तस्य महांहसः ॥ ९९ ॥ सर्वदेवः पिता त्वं चानुज एतौ महामती । यावेनं सुगुरुं धर्ममाद्रियेथां भवच्छिदे ॥ १०॥ वयमत्र पुनर्धर्माभासे धर्मतया भिते । स्थिता गतिं न जानीमः कामपि प्रेत्य संश्रयाम् ॥ १०१ ॥ तदाख्याहि मदाम्नायोदधिरत्नानुज स्फुटम् । धर्मं शर्मकरं कर्ममर्मोच्छेदविधायिनम् ॥ १०२ ॥ अथ श्रीशोभनो विद्वान् बन्धौ स्नेहभरं वहन् । उवाच त्वं कुलाधार ! शृणु धर्म कृपैव यत् ॥१०३॥ देव-धर्म-गुरूणां च तत्त्वान्यवहितः शृणु । देवो जिनो महामोहस्मरमुख्यारिजित्वरः ॥ १०४॥ स्वयं मुक्तः परान्मोचयितुं सामर्थ्यभूभृशम् । प्रदाता परमानन्दपदस्य भगवान् ध्रुवम् ॥ १०५ ॥ 10 शापानुग्रहकर्तारो मग्ना विषयकर्दमे । स्त्रीशस्त्राक्षस्रगाधारास्ते देवाः स्युनूपा इव ॥ १०६॥ गुरुः शमदमश्रद्धासंयमश्रेयसां निधिः । कर्मनिर्जरणासक्तः सदा संचरिसंवरः ॥ १० ॥ परिग्रहमहारम्भो जीवहिंसाकृतोद्यमः। सर्वाभिलाषसम्पन्नो ब्रह्महीनः कथं गुरुः॥ १०८॥ सत्यास्तेयदयाशौचक्षमाब्रह्मतपःक्रियाः । मृदुत्वार्जवसन्तोषा धर्मोऽयं जिनभाषितः ॥ १०९॥ अवद्यवस्तुदानेन भवेच्च पशुहिंसया । अधर्मो धर्मवत्ख्यातो नाहः कृत्रिमवस्तुवत् ॥ ११० ॥ समुवाच ततः श्रीमान् धनपालः श्रियां निधिः । प्रतिपन्नो मया जैनो धर्मः सद्गतिहेतवे ॥ १११॥ ततः श्रीमन्महावीरचैत्यं गत्वा ननाम च । वीतरागनमस्कारं श्लोकयुग्मेन सोऽब्रवीत् ॥ ११२ ॥ तथा हिबलं 'जगद्ध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । इतीव सञ्चिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ॥ ११३ ॥ 20 कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनासौ पुरानुसृतो मया। त्रिभुवनविभुर्बुद्ध्याऽऽराध्योऽधुना खपदप्रदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ११४ ॥ अन्यदा पूर्णिमासन्ध्यासमये नृपमब्रवीत् । जैनदर्शनसंचारहेतवे देशमध्यतः॥ ११५ ॥ राजंस्तव यशोज्योत्स्नाधवलाम्बरविस्तरः । प्रकटस्तमसो हन्ता भूयादर्थप्रकाशकः ॥ ११६ ॥ राजाऽवदन्मया ज्ञातोऽभिसन्धिर्मत्रि(०मित्र !)ते ततः। श्वेताम्बराश्चरन्त्वत्र देशे को दर्शनं द्विषन्॥११७॥ ततो" धारापुरीसङ्घः संगत्याज्ञापयत् प्रभोः । श्रीमन्महेन्द्रसूरेस्तत् तत्रायान्मंक्षु सोऽप्यथ ॥ ११८ ॥ क्रमेण धनपालश्च धर्मतत्त्वविचक्षणः । दृढसम्यक्त्वनिष्ठाभिर्ध्वस्त मिथ्यामतिर्बभौ ॥ ११९ ।। ६४. राज्ञा सह महाकालभवने सोऽन्यदा ययौ । तन्मण्डपगवाक्षे चोपाविशन्न शिवाग्रतः ॥ १२०॥ 30 राज्ञाहूतः स च द्वाराग्रतः स्थित्वा झटित्यपि । व्यावृत्य त्रिस्ततो भूपः पप्रच्छनं सविस्मयः॥ १२१॥ सखे ! किमिदमित्यत्र पृष्टे स प्राह संगभृत् । देवोऽस्ति शक्तिसम्बद्धो बीडया न विलोक्यते ॥ १२२ ॥ 25 1N भक्ति°1 2 N बन्धोः । 3 N देवताः। 4 N सदा चरितसंवरः। 5 N°वस्त्रवत् । 6 N जैनधर्मों। 7 N जग. द्धिंसन18 N क्रमं । 9 N सुपद । 10D मंत्र ते। 11 A यतो; D धाता ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252