________________
15
१७. महेन्द्रसूरिचरितम् ।
१४१ इत्युक्त्वा जग्मतुस्तौ च निजं स्थानं महामुनी । सुस्नातो 'भुक्तिपूर्वं च सुधीः प्रायादुपाश्रये ॥ ९६ ॥ अथ श्रीशोभनो विज्ञोऽभ्युत्तस्थौ गुरुवान्धवम् । आलिलिङ्गे च तेनासौ सोदरस्नेहमोहतः ॥ ९७ ॥ तेन चार्डासने दत्तेऽग्रजे नोपाविशत् तदा । ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः ॥ ९८ ॥ जिनेन्द्रदर्शनं धर्ममूलं भोजनृपाज्ञया । यन्निस्य मयोपार्जि नान्तस्तस्य महांहसः ॥ ९९ ॥ सर्वदेवः पिता त्वं चानुज एतौ महामती । यावेनं सुगुरुं धर्ममाद्रियेथां भवच्छिदे ॥ १०॥ वयमत्र पुनर्धर्माभासे धर्मतया भिते । स्थिता गतिं न जानीमः कामपि प्रेत्य संश्रयाम् ॥ १०१ ॥ तदाख्याहि मदाम्नायोदधिरत्नानुज स्फुटम् । धर्मं शर्मकरं कर्ममर्मोच्छेदविधायिनम् ॥ १०२ ॥ अथ श्रीशोभनो विद्वान् बन्धौ स्नेहभरं वहन् । उवाच त्वं कुलाधार ! शृणु धर्म कृपैव यत् ॥१०३॥ देव-धर्म-गुरूणां च तत्त्वान्यवहितः शृणु । देवो जिनो महामोहस्मरमुख्यारिजित्वरः ॥ १०४॥ स्वयं मुक्तः परान्मोचयितुं सामर्थ्यभूभृशम् । प्रदाता परमानन्दपदस्य भगवान् ध्रुवम् ॥ १०५ ॥ 10 शापानुग्रहकर्तारो मग्ना विषयकर्दमे । स्त्रीशस्त्राक्षस्रगाधारास्ते देवाः स्युनूपा इव ॥ १०६॥ गुरुः शमदमश्रद्धासंयमश्रेयसां निधिः । कर्मनिर्जरणासक्तः सदा संचरिसंवरः ॥ १० ॥ परिग्रहमहारम्भो जीवहिंसाकृतोद्यमः। सर्वाभिलाषसम्पन्नो ब्रह्महीनः कथं गुरुः॥ १०८॥ सत्यास्तेयदयाशौचक्षमाब्रह्मतपःक्रियाः । मृदुत्वार्जवसन्तोषा धर्मोऽयं जिनभाषितः ॥ १०९॥ अवद्यवस्तुदानेन भवेच्च पशुहिंसया । अधर्मो धर्मवत्ख्यातो नाहः कृत्रिमवस्तुवत् ॥ ११० ॥ समुवाच ततः श्रीमान् धनपालः श्रियां निधिः । प्रतिपन्नो मया जैनो धर्मः सद्गतिहेतवे ॥ १११॥ ततः श्रीमन्महावीरचैत्यं गत्वा ननाम च । वीतरागनमस्कारं श्लोकयुग्मेन सोऽब्रवीत् ॥ ११२ ॥
तथा हिबलं 'जगद्ध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । इतीव सञ्चिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ॥ ११३ ॥ 20 कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो,
मितवितरिता मोहेनासौ पुरानुसृतो मया। त्रिभुवनविभुर्बुद्ध्याऽऽराध्योऽधुना खपदप्रदः,
प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ११४ ॥ अन्यदा पूर्णिमासन्ध्यासमये नृपमब्रवीत् । जैनदर्शनसंचारहेतवे देशमध्यतः॥ ११५ ॥ राजंस्तव यशोज्योत्स्नाधवलाम्बरविस्तरः । प्रकटस्तमसो हन्ता भूयादर्थप्रकाशकः ॥ ११६ ॥ राजाऽवदन्मया ज्ञातोऽभिसन्धिर्मत्रि(०मित्र !)ते ततः। श्वेताम्बराश्चरन्त्वत्र देशे को दर्शनं द्विषन्॥११७॥ ततो" धारापुरीसङ्घः संगत्याज्ञापयत् प्रभोः । श्रीमन्महेन्द्रसूरेस्तत् तत्रायान्मंक्षु सोऽप्यथ ॥ ११८ ॥
क्रमेण धनपालश्च धर्मतत्त्वविचक्षणः । दृढसम्यक्त्वनिष्ठाभिर्ध्वस्त मिथ्यामतिर्बभौ ॥ ११९ ।। ६४. राज्ञा सह महाकालभवने सोऽन्यदा ययौ । तन्मण्डपगवाक्षे चोपाविशन्न शिवाग्रतः ॥ १२०॥ 30
राज्ञाहूतः स च द्वाराग्रतः स्थित्वा झटित्यपि । व्यावृत्य त्रिस्ततो भूपः पप्रच्छनं सविस्मयः॥ १२१॥ सखे ! किमिदमित्यत्र पृष्टे स प्राह संगभृत् । देवोऽस्ति शक्तिसम्बद्धो बीडया न विलोक्यते ॥ १२२ ॥
25
1N भक्ति°1 2 N बन्धोः । 3 N देवताः। 4 N सदा चरितसंवरः। 5 N°वस्त्रवत् । 6 N जैनधर्मों। 7 N जग. द्धिंसन18 N क्रमं । 9 N सुपद । 10D मंत्र ते। 11 A यतो; D धाता ।