________________
5
10
15
20
25
30
१४२
प्रभावकचरिते
राजाह दिवसेष्वेतावत्सु किं त्वीदृशोऽर्चितः । भवता प्राह सोऽहं च बालत्वाल्लज्जितो नहि ॥ १२३ ॥ दिनानीयन्ति लोकश्च भवन्तोऽपीदृशा यतः । शुद्धान्तान्तर्वधूसक्ते त्वय्यपीक्षितुमक्षणः ॥ १२४ ॥ कामसेवापरैः प्राच्यैरपि भूपैर्भवादृशैः । बलित्वादचनं त्वस्य प्रवर्तितमिहेदृशः ॥ १२५ ॥
यतः
अवरहं देवहं सिरु पुज्जिअइ महएवह पुणु लिंगु ।
बलिआ जं जि प्रतिष्टइं तं जणु मन्नइ चंगु ॥ १२६ ॥
॥ १२८ ॥
स्मित्वा दध्यौ च भूपालो हास्यं सत्यसमं ह्यदः । पृच्छाम्यपरमप्यस्मिन्नेतदुत्तरसंस्पृहः ॥ १२७ ॥ बहिर्भृङ्गिरिटेर्मूर्तिं दृष्ट्वा प्राह च कौतुकात् । एष किं दुर्बलो जल्प' ! सिद्धसारस्वतोऽसि भोः ! अथाह धनपालोऽपि सत्योक्तौ भवति क्षणः । अस्तु वा सत्यकथने को दोषो नस्ततः शृणु ॥ तथा हि
१२९ ॥
दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माप्यस्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् । इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजखामिनं
भृङ्गी शुष्क शिरावनद्धमधिकं धत्तेऽस्थिशेषं वपुः ॥ १३० ॥ याज्ञवल्क्यस्मृतिं व्यासो बहि: पार्षदमण्डले । तारं व्याख्याति भूपश्च तत्र शुश्रूषुरासिवान् ॥ १३१ ॥ व्यावृत्य स्थितमद्राक्षीद् वयस्यं च ततोऽवदत् । श्रुतिस्मृतिषु तेऽवज्ञाऽवहितो न शृणोषि यत् ॥ १३२ ॥ सोऽजल्पन्नावगच्छामि तदर्थं व्यस्तलक्षणम् । प्रत्यक्षेण विरुद्धं हि शृणुयात् को मतिभ्रमी ॥ १३३ ॥
कथम् -
स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसञ्ज्ञा द्रुमाः स्वर्गच्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आताइछद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥ अथ निष्पद्यमाने च यज्ञे तत्र महापशोः । बद्धस्य हन्तुमश्रौषीद् दीनारावं महीपतिः ।।
१३४ ॥ १३५ ॥
एष किं जल्पतीत्युक्ते कविचक्री ततोऽवदत् । भाषामेषां विजानामि तत्सत्यं शृणु तद्वचः ॥ १३६ ॥ तथा हि
अर्का हितदलोच्छेदी सत्त्वोल्लासतनुस्थितिः । नाना गुणैश्च विष्णुर्यः स कथं वध्यतामजः ॥ १३७ ॥ नाहं खर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो
यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ १३८ ॥ श्रीभोजः कुपितस्तस्यापसव्यवचनक्रमैः । दध्यावसुं हनिष्यामि विब्रुवन्तं द्विजब्रुवम् ॥ १३९ ॥ साक्षादस्य हतौ किं चापवादः परमो भवेत् । रहः कुत्रापि वेलायां वध्योऽसावेष संश्रवः ॥ १४० ॥
I
1 N क्षमः। 2 N जल्पि । 3 N श्रुतिगिरा । 4 N अथ । 5 N मद्वचः । 6 N संश्रयः ।