________________
5
10
15
20
25
30
प्रभावकचरिते
६५ ॥
इत्याकर्ण्य तदा विप्र आनन्दाश्रुपरिप्लुतः । उत्तस्थौ 'बाढमाश्लिष्य मूर्ध्नि चुम्बितवान् सुतम् ॥ ततः सर्वाः क्रियाः कृत्वा भोजनानन्तरं द्विजः । प्रायात् शोभनदेवेन सहाचार्यप्रतिश्रये ॥ ६६ ॥ अङ्कमारोपयामास स तेषां वल्लभं सुतम् । यावान्' भाति विधातव्यः पूज्यैस्तावानयं सुतः ॥ ६७ ॥ सूरयस्तमनुज्ञाप्यादीक्षयंस्तं सुतं मुदा । तद्दिनान्तः शुभे लग्ने शुभग्रह निरीक्षिते ॥ ६८ ॥ ते विजहुः प्रभाते चापभ्राजनविशङ्किताः । अणहिल्लपुरं प्रापुर्विहरन्तो भुवं शनैः ॥ ६९ ॥ ९३. इतश्च धनपालेन सर्वदेवः पृथक्कृतः । विकर्मकृन्निधिद्रव्यात् पुत्रं विक्रीतवानिति ॥ ७० ॥ अदृष्टव्यमुखास्ते च दीक्षापतितशूद्रकाः । कौतस्कुताः शमव्याजात् स्त्रीबालादिप्रलम्भकाः ॥ ७१ ॥ निर्वास्यते ततो देशादेषां पाषण्डमद्भुतम् । ध्यात्वा विज्ञप्य राजानं तच्चक्रे तेन रोषतः ॥ ७२ ॥ युग्मम् | एवं द्वादशवर्षाणि श्रीभोजस्याज्ञया तदा । न मालवे विजहे तच्छ्रीश्वेताम्बरदर्शनम् ॥ ७३ ॥ स्थितानां गूर्जरे देशे धारासको व्यजिज्ञपत् । श्रीमन्महेन्द्रसूरीणां यथावृत्तं यथातथम् ॥ ७४ ॥ इतः शोभनदेवश्चाध्यापितः सूरिभिस्तदा । विदधे वाचनाचार्यः शक्रेणापि स्तुतो गुणैः ॥ ७५ ॥ अवन्तिसङ्घविज्ञप्तिं श्रुत्वाख्यात् शोभनो विभुः । यास्याम्यहं निजभ्रातुः प्रतिबोधाय सत्वरम् ॥ ७६ ॥ दौर्मनस्यमिदं सङ्के मन्निमित्तं समाययौ । अहमेव प्रतीकारं तत्र सन्धातुमुत्सहे ॥ ७७ ॥ गीतार्थैर्मुनिभिः सार्द्धं प्रभुभिः प्रेष्यताथ सः । धारापुरमथायातः प्रयातः प्रौढिमद्भुताम् ॥ ७८ ॥ प्राप्ते काले च साधून् स प्रैषीद् गोचरचर्यया । श्रीमतो धनपालस्य गृहे परिचिते चिरम् ॥ ७९ ॥ तत्र तावगतौ साधू विद्वदीशस्तदा च सः । स्नानायोपविवेशाथ स्नेहाभ्यक्त' वपुर्दृढम् ॥ ८० ॥ व्याहृत्य धर्मलाभं तो तस्थतुः 'स्वस्थचेतसौ । सरत्यस्तीति विदधे धनपालप्रियोत्तरम् ॥ ८१ ॥ प्राह श्रीधनपालश्च किंचिद्देह्यनयोर्ध्रुवम् । गृहाद् यान्त्यर्थिनो रिक्ता अधर्मोऽयं यतो महान् ॥ ८२ ॥ उषितान्नं तयाऽऽनीतं गृहीतेऽत्र ततो दधि । द्वितीयमाहृतं पृष्टुं तैरेतत् किमहर्भवम् ॥ ८३ ॥
I
किं दध्नि पूतराः सन्ति नवा यूयं दयाभृतः । एतत्र्यहस्थितं लात नोचेद् गच्छत शीघ्रतः ॥ ८४ ॥ तावूचतुरियं रीतिरस्माकं किमसूयसि । असूयया महान् दोषः प्रियवाक्यं हि सुन्दरम् ॥ ८५ ॥ अथ चेत् पृच्छसि भ्रान्ति विना जीवस्थितिं ध्रुवम् । गोरसेऽहर्द्वयातीते नासत्यं ज्ञानिनां वचः ॥ ८६ ॥ सुधीनाथस्ततोsवादीत् तदानादीनवं वचः । दर्शयतं प्रतीत्यै नो दनि जीवनमूहशि ॥ ८७ ॥ पूलिकालक्तकस्याथ ताभ्यां तत्र व्यमोच्यत । जीवा दनस्ततस्तस्यां द्रागेवारुरुहुस्तदा ॥ ८८ ॥ चलन्तस्ते हि चक्षुष्या अचक्षुष्याः स्थिताः पुनः । तद्वर्णास्तद्रसा जीवास्तदा तेनेक्षिताः स्फुटाः ॥ ८९ ॥ मिथ्यात्वस्यावलेपोऽथ तद्वाक्येन विनिर्ययौ । तदा कृतीश्वरस्याहिनाथम त्रैर्विषं यथा ॥ ९० ॥ अचिन्तयदसौ धर्म एषां जीवयोज्ज्वलः । य एष पशुहिंसादिरसौ मिध्येव लक्ष्यते ॥ ९१ ॥
1
उक्तं च तेन
१४०
सव्वत्थ अत्थि धम्मो जा मुणियं ण जिण सासणं तुम्हं । कणगाउरण कणगं ससियपयं अलभमाणाणं ।। ९२ ॥
विद्वन्नाथस्ततोऽवादीत् को गुरुः कुत आगमः । भवतां कुत्र वा स्थाने शुद्धे यूयमवस्थिताः ॥ ९३ ॥ श्रुत्वेति वदतस्तौ च श्रूयतामवधानतः । गुर्जराद् देशतः श्रीमन्नायाता वयमत्र भोः ॥ ९४ ॥ श्रीमन्महेन्द्रसूरीणां शिष्यः श्रीशोभनो गुरुः । नाभेयभुवनाभ्यर्णे स्थितोऽस्ति प्राकाश्रये ॥ ९५ ॥
1 N गाढ° | 2 A यावद् | 3ABN विभातव्यः । 4D विसंकितः । 5N स्नेहासक्त° । 6 BD सुस्थ° ।