Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
१३६
प्रभावकचरिते ६७. अथान्येद्युर्जिते धर्मे धनपालेन मालवे । एक एव महीपीठे कविस्त्वमिति मानिते ॥ ९२ ।।
प्रोक्ते च धनपालेन बुधोऽणहिल्लपत्तने । अस्ति श्वेताम्बराचार्यः शान्तिसूरिः परो न हि ॥१३॥ दिनैः कियद्भिरभ्यागात् तं द्रष्टुं धर्मकोविदः । स्वर्गश्रीगर्वसर्वस्वहरं श्रीपत्तनं पुरम् ॥ ९४ ॥ थारापद्रमहाचैत्यप्रत्यासन्नमठं ततः । श्रुत्वागादपराह्वेऽसौ बुधदर्शनकौतुकी' ॥ ९५ ॥ तदानीं स प्रभुदेहे कण्डूपीडित औषधम् । विमृज्य पिहितद्वाराररिस्तदुचितांशुकः ॥ ९६॥ संवीक्ष्य कुश्चिकाछिद्राज्ज्ञापितं यतिभिर्गुरुम् । पृच्छयैव विजेष्येऽमुं धर्मो ध्यात्वेति तं जगौ ॥१७॥ 'कस्त्व'मत्रोत्तरं सूरिः प्रादाद् 'देव' इति स्फुटम् । 'देवः क' इति तत्प्रश्ने त्व'हमि'त्युत्तरं ददौ ॥९८॥ 'अहं क' इति पृच्छायां 'श्वे'ति वाचमवोचत । 'श्वा क' एतादृशि प्रश्ने 'त्वमि'त्युत्तरमातनोत् ॥ ९९ ॥
पुनः त्वं क' इति प्रश्ने वितीर्ण प्राग्वदुत्तरम् । तयोश्चक्रकमेतद्धि जज्ञेऽनन्तमनन्तवत् ॥ १०॥ 10 ततश्चमत्कृतः सोऽभूदु द्वार उद्घटिते सति । स तत्त्वोपप्लवग्रन्थाभ्यासोपन्यासमातनोत् ॥ १०१ ॥
वितण्डाविरते चात्र श्रीशान्त्याचार्य उजगौ । 'कृतसर्वानुवादोऽत्र प्रतिज्ञस्तं विवादिनम् ॥ १०२ ।। ममार्पय निजं वेषं योगपद्रादिकं तथा । अनचेष्टाः समस्तास्ते विधीयन्ते तथा 'तथा ॥१०॥ तथा कृते च सर्वत्र धर्मोऽवाद्यतिविस्मितः । पादावस्य प्रणम्याह नाहमीशो' भवजये ॥ १०४॥
बधस्त्वमेव च श्रीमन् ! धनपालोदितं वचः। प्रतीतमेव मच्चित्ते ताहक्किमनृतं वदेत् ॥ १०५॥ 15 इत्युक्त्वा प्रययौ स्थानं निजं स निरहंकृतिः । अहंकारश्रियां नामाभिचारपरमौषधिः ॥ १०६ ॥ ६८. अथ द्रविडदेशीयोऽन्यदा वादी समागमत् । अव्यक्तं भैरवाशब्दानुकारं किमपि ब्रुवन् ॥१०॥
प्रभवस्तस्य भाषायामभिज्ञा अपि कौतुकात् । भित्तिस्थे घोटके हस्तं दत्त्वाभिदधिरे स्फुटम् ॥ १०८ ॥ वद त्वमन्यदेशीयवादिना सह सङ्गतम् । अव्यक्तवादी पशुवद् योग्योऽयं तिर्यगाकृतेः ॥ १०९॥
वदतीत्थं प्रभो सांक्रामिकसारस्वतोत्तरे। तुरङ्गमप्रतिकृतिस्तरलं साऽवदद् भृशम् ॥ ११०॥ 20 विकल्पैर्गहनैः कष्टादप्यशक्यानुवादिभिः । तथा निरुत्तरः पश्वाकारं खं तेन लम्भितः ॥ १११॥
गते निर्विद्यतेऽस्मिंश्च कांदिशीके जनोऽवदत् । अस्मिंस्तपति नास्त्यन्यो वादी वाग्देवतावरात् ॥ ११२ ॥ ६९. विहारं कुर्वतां तेषां थारापद्रपुरेऽन्यदा । देवी श्रीनागिनी व्याख्याक्षणे नित्यं समृच्छति ॥११३॥
तत्पट्टे वासनिक्षेपमासनायाथ ते व्यधुः । देव्या सह गुरोस्तस्य समयोऽयं प्रवर्तते ॥ ११४ ॥
अन्यदा वासनिक्षेपं वैचित्त्यात् ते विसस्मरुः । आसने प्रेषणे चात ऊर्ध्वस्था सा चिरं स्थिता ॥ ११५॥ 25 ध्यानस्थानां निशामध्ये सद्यो देवीखरूपिणी । मध्येमठमुपालम्भप्रदानायाययौ तदा ॥ ११६ ॥
उद्योतं सूरयो दृष्ट्वा स्त्रियं चातिरतिस्थितिम् । प्रवर्तकं मुनिं प्रोचुर्नारी प्राप्ताऽत्र किं मुने! ॥ ११७ ॥ वेद्यहं नेति तेनोक्तेऽवदद् देवी स्वयं तथा । वासालाभान्ममाद्यांही सव्यथावूर्वसंस्थितेः ॥ ११८॥ श्रुतज्ञानमयाङ्गानां भूयाचेद् वोऽपि विस्मृतिः । आयुः षण्मासशेषं तदभिज्ञानादतः प्रभोः ॥ ११९ ॥ स्वगच्छसंस्थितिं कृत्वा प्रेत्य पथ्यं विधत्त तत् । ज्ञाते ममोचितं ह्येतत् "कालविज्ञापनं प्रभोः ॥ १२० ॥ इत्युक्त्वाऽन्तर्हितायां च देव्यां प्रातर्निजं गणम् । सङ्घ च मत्रयित्वा द्वात्रिंशत्सत्पात्रमध्यतः ॥ १२१ ।। सुधीश्वरास्त्रयः सूरिपदे तेन निवेशिताः । श्रीवीरसूरिः श्रीशालिभद्रः" सूरिस्तथापरः ॥ १२२ ॥ श्रीसर्वदेवसूरिश्च मूर्ता रत्नत्रयीव सा । सद्वृत्तालङ्कृता दीप्यमाना सत्तेजसा बभौ ॥ १२३ ॥ नाभूत् श्रीवीरसूरीणां कथंचित् सूरिसन्ततिः । तेषां राजपुरिनामे श्रीनेमिः शाश्वतं वपुः ॥ १२४ ॥
1N कौतुकः । 2 N संमृद्य । 3N कृतः सर्वा14 N यथा तथा। 50 मीशे। 6 BN °शब्दान् हाकार; A शब्दान् कारं किमपि न ब्रुवम् । 7D खयं; A खियं । 8 N स्थिताम् । 9N वेमीदं। 10 N कालं विज्ञापितं । 11D शीलभद्रः।
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252