________________
२५
४. कालकसूरिचरितम् । ६५. शकानां वंशमुच्छेद्य कालेन कियताऽपि' हि । राजा श्रीविक्रमादित्यः सार्वभौमोपमोऽभवत् ॥९॥
स चोन्नतमहासिद्धिः सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाऽचीकरद् वत्सरं निजम् ॥ ९१ ॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः । तस्य राज्ञोऽन्वयं हत्वा वत्सरः स्थापितः शकैः ॥ ९२ ॥
इति प्रसङ्गतोऽजल्पि; प्रस्तुतं प्रोच्यते ह्यदः । श्रीकालक प्रभुदेशे विजढे राजपूजितः ॥ ९३ ॥ ६६. इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छं नृपस्तत्र बलमित्रोऽभिधानतः ॥ ९४ ॥ 5 भानुमित्राग्रजन्मासीत् स्वस्रीयः कालकप्रभोः।।
स्वसा तयोश्च भानुश्रीः, बलभानुश्च तत्सुतः ॥ ९५ ॥-युग्मम् । अन्यदा कालकाचार्यवृत्तं तैर्लोकतः श्रुतम् । तोषादाहूतये मत्री तैर्निजः प्रैष्यत प्रभोः ॥ ९६ ॥ विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये । आययुर्नगरे तत्र बहिश्च समवासरन् ॥ ९७ ॥ राजा श्रीबलमित्रोऽपि ज्ञात्वाभिमुखमभ्यगात् । उत्सवातिशयात् सूरि प्रवेशं विदधे मुदा ॥ ९८॥ 10 उपदेशामृतस्तत्र सिञ्चन् भव्यानसौ प्रभुः । पुष्करावर्तवत्तेषां विश्वं तापमनीनशत् ॥ ९९ ॥ श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तच्चरित्राख्यादिभिर्नृपमबोधयत् ॥ १० ॥ अन्येास्तत्पुरोधाश्च मिथ्यात्वग्रहसद्हः । कुविकल्पवितण्डाभिर्वदन् वादे जितः स तैः ॥ १०१॥ ततोऽनुकूलवृत्त्याथ तं सूरिमुपसर्गयन् । उवाच दम्भभक्त्या स राजानमृजुचेतसम् ॥ १०२॥ नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुका' पुण्या जनैर्धार्या स्वमूर्धनि ॥ १०३ ॥ 15 किश्चिद् विज्ञप्यते लोकभूपालानां हितं मया । अवधारय तच्चित्ते भक्तिश्चेत् मातुले" गुरौ ॥ १०४ ॥ विशतां नगरान्तर्यञ्चरणा बिम्बिताः पथि । उल्लङ्घयन्ते जनैरन्यैः सामान्यैस्तदधं बहु ॥ १०५॥ धर्मार्जनं *तनीयोऽत्रापरं" कुरु महामते ! । प्रतीत आर्जवाद् राजा प्राहास्ते संकटं महत् ॥ १०६ ॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वार्चिता इमे । तथा वर्षा अवस्थाप्य पार्यन्ते प्रेषितुं किमु ॥ १०७॥ द्विजः प्राह महीनाथ ! मत्रये ते हितं सुखम् । तव धर्मो यशस्ते च प्रयास्यन्ति स्वयं सुखात् ॥ १०८ ॥20 नगरे डिण्डिमो वाद्यः सर्वत्र स्वामिपूजिताः । प्रतिलाभ्या वराहारैर्गुरवो राजशासनात् ॥ १०९॥ आहारमाधाकर्मादि दृष्ट्वानेषणयान्वितम्" । स्वयं ते निर्गमिष्यन्ति काप्यश्लाघा न ते पुनः ॥ ११०॥ अस्त्वेवमिति राज्ञोक्ते स तथेति व्यधात् पुरे । अनेषणां च ते दृष्ट्वा यतयो गुरुमभ्यधुः ॥ १११॥ प्रभो!" सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसर्गोऽयं प्रत्यनीकादुपस्थितः ॥ ११२ ॥
गन्तव्यं तत् प्रतिष्ठानपुरे संयमयात्रया । श्रीसातवाहनो राजा तत्र जैनो दृढव्रतः ॥ ११३ ।। 25 ६७. ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणं ध्रुवम् ॥ ११४ ॥
तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने तेनैतत् परया मुदा ॥ ११५ ॥ श्रीकालकप्रभुः" प्राप शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६ ॥ उपपर्युषणं तत्र राजा "व्यज्ञपयद् गुरुम् । अत्र देशे प्रभो! भावी शक्रध्वजमहोत्सवः॥ ११७ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठ्यां विधीयताम् । स्वं पर्व नैकचित्तत्त्वं धर्मे नो लोकपर्वणि ॥ ११८ ।। 30 प्रभुराह प्रजापाल ! पुरार्हद्गणभृद्गणः । पञ्चमी नात्यगादेतत् पर्वास्मद्गुरुगीरिति ।। ११९ ॥ कम्पते मेरुचूलापि रवि, पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनी ध्रुवम् ॥ १२०॥
1A कियतामपि । 2N कालकः । 3 A सूरिः। 4 A वृत्त्यर्थ15 BN °मुपसर्पयन् । 6 A B जगत्पतिः। 7 CN पादुकाः। 8A पुण्याज°। 9A चित्तेन; C चित्तः। 10A भक्तिस्ते। 11 N मानुजे। * 'स्वल्पं' इति B टि.। 12N उत्रपरं । 13 A B °णयाश्रितं । 14 B N प्रभोः। 15 A °कालकगुरुः । 16 B विज्ञप।
प्र०४