________________
२४
प्रभावकचरिते
10
15
निर्गमय्यासनादुनमुपसर्गमुपस्थितम् । प्रापुर्घनात्ययं *मित्रमिवाब्जास्यविकाशकम् ॥ ६०॥ परिपक्रिमवाकशालिः प्रसीदत्सर्वतोमुखः । अभूच्छरहतुस्तेषामानन्दाय सुधीरिव ॥ ६१ ॥ सूरिणाथ सुहृद्राजा प्रयाणेऽजल्प्यत स्फुटम् । स प्राह शंबलं नास्ति येन नो भावि शं बलम ॥२॥ श्रुत्वेति कुम्भकारस्य गृह एकत्र जग्मिवान् । वह्निना पच्यमानं चेष्टकापाकं ददर्श च ॥६३॥ कनिष्ठिकानखं पूर्ण चूर्णयोगस्य कस्यचित् । आक्षेपात् तत्र चिक्षेपाक्षेप्यशक्तिस्तदा गुरुः॥ ६४ ॥ विध्यातेऽत्र ययावने राज्ञः प्रोवाच यत्सखे!। विभज्य हेम गृहीत यात्रासंवाहहेतवे ॥६५॥ तथेत्यादेशमाधाय तेऽकुर्वन् पर्व सर्वतः । प्रास्थानिक' गजाश्वादिसैन्यपूजनपूर्वकम् ॥६६॥ पञ्चाल-लाटराष्ट्रेश भूपान् जित्वाऽथ सर्वतः । शका मालवसन्धि ते प्रापुराकान्तविद्विषः ।। ६७ ।। श्रुत्वाऽपि बलमागच्छद् विद्यासामर्थ्यगर्वितः । गर्दभिल्लनरेन्द्रो न पुरीदुर्गमसज्जयत् ॥ ६८॥ अथाप' शाखिसैन्यं च विशालातलमेदिनीम् । पतङ्गसैन्यवत् सर्व प्राणिवर्गभयंकरम् ॥ ६९ ॥ मध्यस्थो भूपतिः सोऽथ गर्दभीविद्यया बले' । नादर्युन्मादरीतिस्थः सैन्यं सज्जयति स्म न ॥ ७० ॥ कपिशीर्षेषु नो ढिंबा कोट्टकोणेषु न ध्रसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥ ७१ ॥ न वा भटकपाटानि पू:प्रतोलीष्व सज्जयत् । इति चारैः परिज्ञाय सुहृद्भूपं जगौ गुरुः ॥ ७२ ॥ अनावृतं समीक्ष्येदं दुर्ग मा भूरनुद्यमः । यदष्टमी-चतुर्दश्योरर्चयत्येष गर्दभीम् ॥ ७३ ॥ अष्टोत्तरसहस्रं च जपत्येकानमानसः । शब्दं करोति जापान्ते विद्या सा रासभीनिभम् ॥ ७४ ॥ तं बूत्कारस्वरं घोरं द्विपदो वा चतुष्पदः । यः शृणोति स वक्रेण फेनं मुञ्चन् विपद्यते ॥ ७५ ॥ अर्द्धतृतीयगव्यूतमध्ये स्थेयं न केनचित् । आवासान् विरलान् दत्वा स्थातव्यं सबलैनूपैः ॥ ७६ ॥ इत्याकर्ण्य कृते तत्र देशे कालकसद्गुरुः । सुभटानां शतं साष्टं प्रार्थयच्छब्दवेधिनाम् ॥ ७७ ॥ स्थापिताः स्वसमीपे ते लब्धलक्षाः सुशिक्षिताः" । स्वरकाले मुखं तस्या बभ्रुर्बाणैर्निषङ्गवत् ॥ ७८ ॥ सा मूर्ध्नि गईभिल्लस्य कृत्वा विण्मूत्रमीjया। हत्वा च पादघातेन रोषेणान्तर्दधे खरी ॥ ७९ ॥ अबलोऽयमिति ख्यापयित्वा तेषां पुरो गुरुः । समग्रसैन्यमानीय मानी तं दुर्गमाविशत् ।। ८० ॥ पातयित्वा धृतो बद्धा प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः प्राह तं कालकप्रभुः ॥ ८१ ।। साध्वी साध्वी त्वया पाप ! श्येनेन चटकेव" यत् । नीता गुरुविनीताऽपि तत्कर्मकुसुमं ह्यदः॥ ८२ ।। फलं तु नरकः प्रेत्य तद् विबुध्याधुनापि हि । उपशान्तः समादत्स्व प्रायश्चित्तं शुभावहम् ॥ ८३ ॥ आराधकः परं लोकं भविता रुचितं निजम् । विधेहीति श्रुतेर्दूनस्त्यक्तोऽरण्ये ततोऽभ्रमत् ।। ८४ ॥ व्याघेण भक्षितो भ्राम्यन् दुर्गतो दुर्गतिं गतः । तादृक्साधुट्ठहामीहक गतिर"त्यल्पकं फलम् ॥ ८५ ।। सूरेरादेशतो मित्रं भूपः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि तस्थुः शाखिनराधिपाः ॥ ८६ ॥ आरोपिता व्रते साध्वी गुरुणाऽथ सरस्वती । आलोचितप्रतिक्रान्ता गुणश्रेणिमवाप च ॥ ८७ ॥ विद्यादेव्यो यतः" सर्वा अनिच्छुस्त्रीव्रतच्छिदः । कुप्यन्ति रावणोऽपीढग् सीतायां न दधौ" हठम् ॥८८॥ एतादृक् शासनोन्नत्या जैनतीथं प्रभावयन् । बोधयन् शाखिराजांश्च कालकः सूरिराद बभौ ॥ ८९ ।।
25
30
* 'चंद्र' इति B टि। 1 B नखः। 2 0 प्रस्थानकं; C प्रस्थानिकं । 3 NC °देशेश°1 4 BC गच्छन् । 5 B अवाप । 6 N सर्व । 7 N बलैः। 8A रीतिस्था। 9 A प्रतोलीच; B प्रतोलीषु । 10 B निभान्; C निभात् । 11 N सुरक्षिताः। + 'भाथानी परिं' इति B टि.। 12 C N कालको गुरुः । सींचाणा हाथि चटकीनी परिई' इति B टि। 13 C चटिकेव ।
'जे अन्याई धन मिलइ ते धन सुथिर न होइ । घोर पाप जेह कुलि हुइ तस कुलि उदय म जोइ ॥' इति B टिप्पणी । 14 B भाराधय। 15 गतिरित्य। 16 BC जितः। 17 A ददौ ।