________________
४. कालकसूरिचरितम् । कर्मसंयोगतस्तत्र व्रजन्तीमैक्षत स्वयम् । जामि कालकसूरीणां काको दधिघटीमिव ॥ २९ ॥-युग्मम् । हा रक्ष रक्ष सोदर्य ! 'क्रन्दन्तीं करुणस्वरम् । अपाजीहरदत्युग्रकर्मभिः पुरुषैः स ताम् ॥ ३० ।।। साध्वीभ्यस्तत् परिज्ञाय कालकप्रभुरप्यथ । स्वयं राजसमज्यायां गत्वावादीत् तदग्रतः ॥ ३१ ।। वृत्तिर्विधीयते कच्छे रक्षायै फलसंपदः । फलानि भक्षयेत् सैवाख्येयं कस्याग्रतस्तदा ॥ ३२ ॥ राजन् ! समग्रवर्णानां दर्शनानां च रक्षकः । त्वमेव तन्न ते युक्तं दर्शनि व्रतलोपनम् ॥ ३३ ॥ 5 उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य म्लेच्छवद् ध्वंसते तथा ॥ ३४ ॥ संघेन मत्रिभिः पौरैरपि विज्ञापितो दृढम् । अवाजीगणदारूढो मिथ्यामोहे गलन्मतिः ॥ ३५॥ . प्राकक्षात्रतेज आचार्य उन्निद्रमभजत् ततः । प्रतिज्ञां विदधे घोरां तदा कातरतापनीम् ॥ ३६ ॥ जैनापभ्राजिनां ब्रह्मबालप्रमुखघातिनाम् । अर्हद्विम्बविहन्तॄणां लिप्येऽहं पाप्मना स्फुटम् ।। ३७ ॥ न चेदुच्छेदये शीघ्रं सपुत्रपशुबान्धवम् । अन्यायकर्दमकोडं विब्रुवन्तं नृपब्रुवम् ॥ ३८ ॥-युग्मम् । 10 असंभाव्यमिदं तत्र सामान्यजनदुष्करम् । उक्त्वा निष्क्रम्य दम्भेनोन्मत्तवेषं चकार सः ॥ ३९ ॥ एकाकी भ्रमति स्मायं चतुष्के चत्वरे त्रिके । असम्बद्धं वदन् द्वित्रिश्चेतनाशून्यवत् तदा ॥ ४० ॥ गर्दभिल्लो नरेन्द्रश्चेत् ततस्तु किमतः परम् । यदि देशः समृद्धोऽस्ति ततस्तु किमतः परम् ॥ ४१ ॥ वदन्तमिति तं श्रुत्वा जनाः प्राहुः कृपाभरात् । स्वसुविरहितः सूरिस्तादृगूग्रहिलतां गतः॥४२॥-युग्मम् ।
दिनैः कतिपयैस्तस्मान्निर्ययावेक एव सः । पश्चिमां दिशमाश्रित्य सिन्धुतीरमगाच्छनैः ॥ ४३ ॥ 15 ६३. शाखिदेशश्च तत्रास्ति राजानस्तत्र शाखयः । शकापराभिधाः सन्ति नवतिः षभिरर्गला ॥ ४४ ॥
तेषामेकोऽधिराजोऽस्ति सप्तलक्षतुरङ्गमः। *तुरङ्गायुतमानाश्चापरेऽपि स्युनरेश्वराः ॥ ४५ ॥ एको माण्डलिकस्तेषां प्रैक्षि कालकसूरिणा । अनेककौतुकप्रेक्षाहृतचित्तः कृतोऽथ सः ॥ ४६॥ असौ विश्वासतस्तस्य वयस्यति तथा नृपः । तं विना न रतिस्तस्य तं बहूक्तैर्यथा क्षणम् ।। ४७॥ सभायामुपविष्टस्य मण्डलेशस्य सूरिणा । सुखेन तिष्ठतो गोष्ठयां राजदूतः समाययौ ॥४८॥ 20 प्रवेशितश्च विज्ञप्ते' प्रतीहारेण सोऽवदत् । प्राचीनरूढितो भक्त्या गृह्यतां राजशासनम् ॥ ४९॥ असिधेनुं च भूपोऽथ तद्गृहीत्वाशु मस्तके । उीभूयाथ संयोज्य वाचयामास च स्वयम् ॥ ५० ॥ इति कृत्वा विवर्णास्यो वक्तुमप्यक्षमो नृपः । विलीनचित्तः श्यामाङ्गो निःशब्दाषाढमेघवत् ॥ ५१ ।। पृष्टश्चित्रान्मुनीन्द्रेण" प्रसादे स्वामिनः स्फुटे । आयाते प्राभृते हर्षस्थाने किं विपरीतता ॥ ५२ ॥ तेनोचे मित्र! कोपोऽयं न प्रसादः प्रभोर्ननु । प्रेण्यं मया शिरश्छित्वा स्वीयं शस्त्रिकयानया ॥५३॥ 25 एवं कृते च वंशे नः" प्रभुत्वमवतिष्ठते । नो चेद् राज्यस्य राष्ट्रस्य विनाशः समुपस्थितः ॥ ५४ ॥
शस्त्रिकायामथैतस्यां षण्णवत्यङ्कदर्शनात् । मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः ॥ ५५ ॥ ६४. सर्वेऽपि गुप्तमाह्वाय्य सूरिभिस्तत्र मेलिताः । तरीभिः सिन्धुमुत्तीर्य सुराष्ट्रां ते समाययुः ॥ ५६ ॥
धनागमे समायाते तेषां गतिविलम्बके । विभज्य षण्णवत्यशैस्तं देशं तेऽवतस्थिरे ॥ ५७ ॥ राजानस्ते तथा सूरा वाहिनीव्यूहवृद्धिना । राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥ ५८ ॥ बलभिद्धनुरुल्लासवता चाशुगभीभृता । समारुध्यन्त मेघेन बलिष्ठेनेव शत्रुणा ॥ ५९॥
1 BC क्रन्दन्ती। 2N करुण। 3 N भक्षये शैवा। 4 N तथा । 5 B दयनि । 6 N 'तापिनीं। 7Aध्रुवं । * 'दस सहस्र' इति B टि.। 8 A °श्व परेऽपि । 9 N विज्ञप्तः। 10 B श्यामाको। 11C नरेन्द्रेण। 12 N मे। 13 N राष्ट्रस्य राज्यस्य । एतत्पूर्वार्द्धस्थाने मुद्रितपुस्तके-'साध्वी साध्वी बया पाप श्येनेन चटकेव यत्' एतादृशः पाठो लभ्यते। 'बाण' इति B टि।