Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
10
११. बप्पभट्टिसूरिचरितम् ।
तथा हिरामो नाम बभूव हुँ तदबला सीतेति हुं तां पितु
वाचा पंचवटीवने विचरतस्तस्याहरद् रावणः । निद्रार्थ जननीकथामिति हरेहुंकारिणः शृण्वतः ___ *पूर्वस्मर्तुरवन्तु कोपकुटिलभ्रूभंगुरा दृष्टयः ॥५७२॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः। आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ ५७३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः। सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिंग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥५७४ ॥ सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिांचते
धत्से यत्त्वपरां विलज शिरसा तचापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरेः कस्माद् विषं भक्षितम् मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥ ५७५ ॥ 15 यदमोघमपामन्तरुतं बीजमज त्वया।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे॥५७६॥ कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती त्वयैव ।
अबाह्यसंवित्सुख सिन्धुमनं लग्नं परे ब्रह्मणि यस्य चित्तम् ॥ ५७७॥ स कर्णकटुकं तच्च श्रुत्वा शीर्ष व्यधूनयत् । आकूण्य नासिकां वाचं प्राहाथो दुर्मनायितः ॥ ५७८ ॥ 20 अमीषां रसकाव्यानां प्रशंसायाश्च किं सखे ! । अ(इ)यं वेला कथं नाम सौहार्द तव चेदृशम् ॥ ५७९ ॥ इदं च श्रीवप्पभहिसदृशं भवतीह किम् । पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ५८० ॥ ततः प्राह गुरुः साधु साधु ते चेतना स्तुमः । प्रष्टव्यमस्ति किंचित्तु भवत्पार्धे सुहृत्तम ! ॥ ५८१ ॥ देवानां यन्मयाऽऽख्यायि स्वरूपं भवदग्रतः । तत्तथ्यं वितथं वास्ते 'तथ्यं चेदुर्मनाः कथम् ॥ ५८२ ॥ वितथं च कथं तत्स्यात् प्रत्यक्षे संदीहीत' कः । अत्र कार्ये प्रवृत्तिस्ते राज्यादीच्छावशादिह ॥ ५८३ ॥ 25 परमार्थोपलम्भे वा?, विकल्पः प्रथमो यदि । संमतं नस्तदाऽऽराद्धा देवा भूपतयोऽपि च ॥ ५८४ ॥ . इष्टं प्रणयिनां दद्युः सामर्थ्यात् संशयोऽपि न । परमार्थे तु चेदिच्छा तत् त्वं तत्त्वं विचारय ॥ ५८५॥ संसारोपाधिमग्नैश्चेत् सुरैर्मुक्तिः प्रदीयते । तन्नात्र मत्सरोऽस्माकं स्वयं निखिलवेद्यसि ॥ ५८६ ॥
-पंचभिः कुलकम् । श्रुत्वेति सद्गुरोर्वाचं पंकापनयवारिभाम् । अवलेपो ययौ तस्य हिक्काऽकस्माद्भयादिव ॥ ५८७ ॥ 80 अहो पुण्यपरीपाको मम यत् सूनृतः सुहृत् । संगतोऽवसरेऽमुत्र तत् तत्त्वोपकृतिं कुरु ॥ ५८८ ॥ इत्युक्त्वा विरते दत्तावधाने वाक्पती प्रभुः । धर्म-देव-गुरूणां च तत्त्वान्याख्यात् तदंग्रतः ।।-युग्मम् ।
* A आदर्शे-'सौमित्रेयधनुर्धनुर्धनुरिति व्यक्ता गिरः पान्तु वः। एतादृशोऽयं चतुर्थः पादः। । + A आदर्श नास्त्यसौ श्लोकः। 1N B नास्ति । 2N संदिहानकः। 3N तत्र चोप। ।.
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252