Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 128
________________ 15 ११. बप्पभट्टिसूरिचरितम् । चिरं परिचयः पूज्यैस्त्वादृशैरपि मे ऽफलः । एतावन्ति दिनान्यासीद् धर्माख्यानविनाकृतः ॥ ६०४ ॥ उक्तं च तेनमयनाहिकलुसि एणं इमिणा किं किर फलं निडालेण.। इच्छामि अहं जिणवरपणामकिणकलुसियं काउं॥ ६०५॥ मुमुक्षोर्मम यत्प्राय औचित्यं न विलंघयेत् । तदादिश यथादिष्टं विदधे कर्मनाशकम् ।। ६०६॥ 5 श्रीवप्पभट्टिराहाथ शङ्का चेत् कर्मणां तव । मनःशुद्धिस्ततः कार्या व्यवहारोऽपि तादृशः ॥ ६०७ ।। ततः संन्यस्त एव त्वं जैनमार्ग समाश्रय । श्रुत्वेति तैः सहैवा'साबुदस्थाद् भवनात् ततः॥ ६०८ ॥ आजगामाथ पार्श्वस्य' स्तूपे श्रीपार्श्वमन्दिरे । मिथ्यादर्शनवेषं च विमुञ्चत् स्वीकृतं पुरा ॥ ६०९ ॥ जैनर्षिवेषमास्थाय संयमाचारशिक्षकः । संसारचरमप्रत्याख्यानी ध्यानैकतानभृत् ॥ ६१० ॥ अष्टादश तदा पापस्थानान्युत्सृज्य सर्वतः । चतुःशरणमादध्यौ निर्दूतान्तरकल्मषः ॥ ६११ ॥-युग्मम् । 10 प्रशंसागर्हणे प्राच्यसुकृतासुकृते व्यधात् । परमेष्टिपदाधीनमानसो मानशोषभूः ॥ ६१२ ॥ दिनान्यष्टादश प्रायमुपायं दुष्कृतार्दने । एकावतारान्तरितो महानन्दपदस्तदा ॥ ६१३ ॥ सम्यगाराधनोपात्तपाण्डित्यमृतिरीतितः । देहमुक्त्यां गतः साम्यं प्राप प्राचीनबर्हिषा ॥ ६१४॥-युग्मम् । ततः किंचित्सखिस्नेहगद्गदः शमिनायकः । उवाच विश्वसामन्तविद्वद्वन्दस्य शृण्वतः ॥ ६१५ ॥ तथा हिपइं सग्गगए सामंतराय अवरत्तउ न फिहिहह। पढम चिय वरिय पुरंदराइ सग्गस्स लच्छीए ॥ ६१६॥ तत्र गोकुलवासेऽस्ति पुरा नन्दनिवेशिते । श्रीशान्तिः शान्तिदेवी च हेतुर्विश्वस्य शान्तिके ॥ ६१७ ॥ तत्र श्रीबप्पभहिः श्रीतीर्थेश्वरनमस्कृतौ । गत्वा च तुष्टुवे शान्तिदेवतासहितं जिनम् ॥ ६१८ ॥ 'जयति जगद्रक्षाकर' इत्याचं शान्तिदेवतास्तवनम् । अद्यापि वर्त्तते तच्छान्तिकरं सर्वभयहरणम् ॥६१९120 ततः सामाजिकस्तोमस्तुतो व्यावृत्य संययौ । कन्यकुलपुरं बप्पभट्टिः कतिपयैर्दिनैः ॥ ६२० ॥ पुरापि ज्ञातवृत्तान्तो नृपतिगूढपूरुषैः । संमुखीनः पुरोपान्तं गत्वा प्रावेशयद् द्रुतम् ॥ ६२१ ॥ गुरुं सभोपविष्टं च प्राह भूपश्चमत्कृतः । अहो वो वाच सामर्थ्य सोऽपि यत् प्रतिबोधितः ॥ ६२२ ॥ प्रभुः प्राहाथ का शक्तिर्मम यत् त्वं न बुध्यसे । राजाह सम्यग् बुद्धोऽस्मि त्वद्धर्मोऽस्तीति निश्चितम् ॥६२३॥ माहेश्वरं पुनर्द्धम मुञ्चतो मे महाव्यथा । तत्प्राच्यभवसंबद्ध इवायं किं करोम्यतः ॥ ६२४ ॥ 25 श्रुतज्ञाननिमित्तेन ज्ञात्वा प्रभुरुवाच च । तव' प्राकृतकष्टस्य राज्यमल्पतरं फलम् ॥ ६२५ ॥ सविस्मयैस्तदा पर्षत्प्रधानरौच्यत प्रभुः । प्रसह्य कथ्यतां राज्ञः प्राग्भवोऽस्मत्प्रबुद्धये ॥ ६२६ ॥ प्रभुराह ततः सम्यग् विमृश्येति यथातथम् । प्रश्नचूडामणेः शास्त्रादस्ताघज्ञानशेवधिः ॥ ६२७ ॥ शृणु भूमिपते ! कालिंजराख्यस्य गिरेरधः । शालिशालट्ठमोर्द्धस्थशाखाबद्धपदद्वयः ॥ ६२८॥ अधोमुखो जटाकोटिसंस्पृष्टपृथिवीतलः । ब्यन्हे ध्यन्हे मिताहारो हारी" क्रोधादिविद्विषाम् ॥ ६२९॥ 30 इति वर्षशतं सायं तपस्तत्त्वातिदुष्करम् । आयुःप्रान्ते तनुं त्यक्त्वाऽभवस्त्वं भूपनायकः ॥ ६३०॥ यदि न प्रत्ययो राजन्! प्रेषय प्रवरान् नरान् । जटा अद्यापि तत्रस्था आनायय तरोस्तलात् ।। ६३१ ॥ 1N सहैवाप्त उद। 2N पार्श्वेऽस्य । 3 N व्यमुंचत् । 4 N संयमावारशिष्यकः। 5 N अहो चोवाच । 6N प्राह च । 7N तत्र। 8N विमृशेति। 9A हाराहारी। प्र०१४

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252