Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 132
________________ AF ११. बप्पभट्टिसूरिचरितम् । युक्तमेतद् व्रतस्थानां नात्मपाणापरोपणम् । तथातः पञ्चवर्षाणि ममाद्याप्यायुरस्ति च ।। ७१८ ॥ विक्रमतो वर्षाणां शताष्टके सनवतौ च भाद्रपदे ।। शुक्रे सितपञ्चम्यां चन्द्रे चित्राख्यऋक्षस्थे ॥ ७१९ ॥ तुलाराशौ तथा चन्द्रस्थिते'ऽर्के प्रहरेऽन्तिमे । श्राव्यमाणो भृशं पञ्चपरमेष्ठिनमस्क्रियाम् ।। ७२० ॥ दृढं जिनेशसन्मित्रगुरुपादस्मृतिस्थितः। श्रीमान् नागावल्लोकाख्यो राजा प्राप दिवं तदा ॥ ७२१ ॥-विशेषकम् । अथ किंचित्सुहृन्मोहात् तत्र स्थित्वौद्धदेहिकम् । कारयामास पार्श्वस्थः प्रधानैस्तत्सनाभिभिः ॥ ७२२ ॥ किंचिच्छोकोर्मिसन्तप्त उवाच करुणं तथा । सोद्वेगं च तदीयानां गुणानां संस्मरन् भृशम् ॥ ७२३ ।। मा भूत संवत्सरोऽसौ वसुशतवतेर्मा च ऋक्षेषु चित्रा धिग्मासं तं नमस्यं क्षयमपि स खलः शुक्लपक्षोऽपि यातु । 10 संक्रान्तिर्या च सिंहे विशतु हुतभुजं पञ्चमी या तु शुक्र गंगातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ॥ ७२४ ॥ ६२४. अथ श्रीबप्पभट्टिश्च कन्यकुब्जे मुनीश्वरः । प्राप दुन्दुकभूपालाधिष्ठितं तन्निरुद्यमः ॥ ७२५ ॥ सक्तः कंट्याख्यवेश्यायां भूपो भोजं निजं सुतम् । भाग्योदयकलाकेलिविलासमपि पापभूः ।। ७२६॥ अभिद्राति मढस्तद्वाग्भिर्विगतचेतनः। अविवेकधराधुर्य धिग् वेश्याजनसंगमम् ॥ ७२७॥ युग्मम् । 15 तन्माता निजबन्धूनां ज्ञापयामास दुःखिता । संकटे हि कुलस्त्रीणां शरणं शरणं पितुः ॥ ७२८ ॥ समागत्याह्वयंस्ते च पुत्रजन्मोत्सवच्छलात् । आपृच्छायै पुनर्भोजः संचचार नृपालये ॥ ७२९ ।। ज्ञापितो गुरुभिः सौधद्वारे विज्ञाय शत्रिणः । निवृत्तो मातुलैः साकं प्रययौ पाटलीपुरम् ॥ ७३० ॥ आचार्यमन्यदा राजा दुन्दुकः प्राह मत्सरी । मयि प्रसादमाधायानीयतां नन्दनोत्तमः ॥ ७३१ ॥ ततः स ध्यानयोगादिप्रारम्भैरुत्तरोत्तरैः । वाहयामास वर्षाणि पंच पंचत्ववासरम् ॥ ७३२ ।। 20 ततोऽन्त समये प्राप्ते राज्ञा दृढतरं गुरुः । उपरोध्य सुताह्वानहेतवे प्रैष्यतादरात् ॥ ७३३ ॥ ययौ तन्नगराभ्यासे विममर्श च चेतसि । चेद् भोजो नीयते यस्मात् तन्नृपेण स हन्यते ।। ७३४॥ नोचेत् कंटिकया बाढं मूर्योऽसाविति संहितः । शिष्याणां विद्रवैः कर्ता शासनस्याप्रभावनाम् ।। ७३५॥ सांप्रतं सांप्रतं मृत्युस्तस्मात् प्रायोपवेशनात्' । तच्च कृत्वातिगीतार्थकारिताराधनादृतः ॥ ७३६ ॥ स्वयमध्यात्मयोगेन दिनानामेकविंशतिः । अतिवाह्य क्षुधा-तृष्णा-निद्रादिद्वेषिविग्रही ॥ ७३७ ॥ 25 आत्मानं दशमद्वारान्निरवासयदुद्यतः । ईशाने नाकितां प्राप बाप्पभहिर्मुनीश्वरः ॥७३८॥-विशेषकम् । विक्रमतः शून्यद्वयवसुवर्षे (८००) भाद्रपदतृतीयायाम् । रविवारे हस्तः जन्माभूद् बप्पभट्टिगुरोः ॥ ७३९ ॥ षड्वर्षस्य व्रतं चैकादशे वर्षे च सूरिता। पंचाधिकनवत्या च प्रभोरायुः समर्थितम् ।। ७४०॥ 30 शर-नंद-सिद्धिवर्षे (८९५) नभःशुद्धाष्टमीदिने । खातिभेऽजनि पंचत्वमामराजगुरोरिह ॥ ७४१ ॥ 1B चन्द्रस्थितो। 2 A द्वारि। 3 निवृत्तो। 4 A पंचापंच। 5 N ततोथ सम°। 6 N राजा। 7 N वेशने । 8A °वर्षेः। 9 N सूरिणा।

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252