________________
AF
११. बप्पभट्टिसूरिचरितम् । युक्तमेतद् व्रतस्थानां नात्मपाणापरोपणम् । तथातः पञ्चवर्षाणि ममाद्याप्यायुरस्ति च ।। ७१८ ॥
विक्रमतो वर्षाणां शताष्टके सनवतौ च भाद्रपदे ।।
शुक्रे सितपञ्चम्यां चन्द्रे चित्राख्यऋक्षस्थे ॥ ७१९ ॥ तुलाराशौ तथा चन्द्रस्थिते'ऽर्के प्रहरेऽन्तिमे । श्राव्यमाणो भृशं पञ्चपरमेष्ठिनमस्क्रियाम् ।। ७२० ॥
दृढं जिनेशसन्मित्रगुरुपादस्मृतिस्थितः।
श्रीमान् नागावल्लोकाख्यो राजा प्राप दिवं तदा ॥ ७२१ ॥-विशेषकम् । अथ किंचित्सुहृन्मोहात् तत्र स्थित्वौद्धदेहिकम् । कारयामास पार्श्वस्थः प्रधानैस्तत्सनाभिभिः ॥ ७२२ ॥ किंचिच्छोकोर्मिसन्तप्त उवाच करुणं तथा । सोद्वेगं च तदीयानां गुणानां संस्मरन् भृशम् ॥ ७२३ ।।
मा भूत संवत्सरोऽसौ वसुशतवतेर्मा च ऋक्षेषु चित्रा धिग्मासं तं नमस्यं क्षयमपि स खलः शुक्लपक्षोऽपि यातु ।
10 संक्रान्तिर्या च सिंहे विशतु हुतभुजं पञ्चमी या तु शुक्र
गंगातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ॥ ७२४ ॥ ६२४. अथ श्रीबप्पभट्टिश्च कन्यकुब्जे मुनीश्वरः । प्राप दुन्दुकभूपालाधिष्ठितं तन्निरुद्यमः ॥ ७२५ ॥
सक्तः कंट्याख्यवेश्यायां भूपो भोजं निजं सुतम् । भाग्योदयकलाकेलिविलासमपि पापभूः ।। ७२६॥ अभिद्राति मढस्तद्वाग्भिर्विगतचेतनः। अविवेकधराधुर्य धिग् वेश्याजनसंगमम् ॥ ७२७॥ युग्मम् । 15 तन्माता निजबन्धूनां ज्ञापयामास दुःखिता । संकटे हि कुलस्त्रीणां शरणं शरणं पितुः ॥ ७२८ ॥ समागत्याह्वयंस्ते च पुत्रजन्मोत्सवच्छलात् । आपृच्छायै पुनर्भोजः संचचार नृपालये ॥ ७२९ ।। ज्ञापितो गुरुभिः सौधद्वारे विज्ञाय शत्रिणः । निवृत्तो मातुलैः साकं प्रययौ पाटलीपुरम् ॥ ७३० ॥ आचार्यमन्यदा राजा दुन्दुकः प्राह मत्सरी । मयि प्रसादमाधायानीयतां नन्दनोत्तमः ॥ ७३१ ॥ ततः स ध्यानयोगादिप्रारम्भैरुत्तरोत्तरैः । वाहयामास वर्षाणि पंच पंचत्ववासरम् ॥ ७३२ ।। 20 ततोऽन्त समये प्राप्ते राज्ञा दृढतरं गुरुः । उपरोध्य सुताह्वानहेतवे प्रैष्यतादरात् ॥ ७३३ ॥ ययौ तन्नगराभ्यासे विममर्श च चेतसि । चेद् भोजो नीयते यस्मात् तन्नृपेण स हन्यते ।। ७३४॥ नोचेत् कंटिकया बाढं मूर्योऽसाविति संहितः । शिष्याणां विद्रवैः कर्ता शासनस्याप्रभावनाम् ।। ७३५॥ सांप्रतं सांप्रतं मृत्युस्तस्मात् प्रायोपवेशनात्' । तच्च कृत्वातिगीतार्थकारिताराधनादृतः ॥ ७३६ ॥ स्वयमध्यात्मयोगेन दिनानामेकविंशतिः । अतिवाह्य क्षुधा-तृष्णा-निद्रादिद्वेषिविग्रही ॥ ७३७ ॥ 25 आत्मानं दशमद्वारान्निरवासयदुद्यतः । ईशाने नाकितां प्राप बाप्पभहिर्मुनीश्वरः ॥७३८॥-विशेषकम् ।
विक्रमतः शून्यद्वयवसुवर्षे (८००) भाद्रपदतृतीयायाम् । रविवारे हस्तः जन्माभूद् बप्पभट्टिगुरोः ॥ ७३९ ॥ षड्वर्षस्य व्रतं चैकादशे वर्षे च सूरिता। पंचाधिकनवत्या च प्रभोरायुः समर्थितम् ।। ७४०॥
30 शर-नंद-सिद्धिवर्षे (८९५) नभःशुद्धाष्टमीदिने ।
खातिभेऽजनि पंचत्वमामराजगुरोरिह ॥ ७४१ ॥ 1B चन्द्रस्थितो। 2 A द्वारि। 3 निवृत्तो। 4 A पंचापंच। 5 N ततोथ सम°। 6 N राजा। 7 N वेशने । 8A °वर्षेः। 9 N सूरिणा।