________________
११०
प्रभावकचरिते इत्याकर्पोमराजस्य पौत्रोऽतिस्फारशोकभूः । भोजः संकुचिताम्भोजवदनं विललाप च ॥ ७४२ ॥ विवेकौघो'ऽविवेकेन जितः सारस्वतं हतम् । अनुत्सेकस्तिरोधत्त ज्ञाने दत्तो जलांजलिः ॥ ७४३ ॥ इति क्षणं विमृश्यासावादिदेश चिताकृते । प्रेष्यानदूष्यचारित्रो गुरुभक्तिपवित्रितः ॥ ७४४ ॥ पितामहवियोगेऽपि वर्द्धितस्तस्य मित्रतः । अनाथ इव लोकेऽत्र तत्रापि त्रिदिवं गते ॥ ७४५ ॥ ततः क्षणमपि स्थातुं न शक्तः पृथिवीतले । 'पितृवप्तसुहृत्सूरेरनुव्रज्याऽधुनोचिता ॥ ७४६ ॥ मातृपक्षप्रधानानां बोधं चावगणय्य सः । गुरुमृत्युमुवं प्राप गन्ता लीलावने यथा ॥ ७४७॥ भुजदण्डे जनन्या च धृत्वाऽथाजल्पि तत्क्षणम् । निर्वीरात्वनिषेधाय राज्यस्य कृपयापि च ॥ ७४८ ॥ स्वसुरद्वयसंहारे जाते ते विद्विषन् पिता । जितंमन्यो महापापी त्वत्प्रजाः पीडयिष्यति ।। ७४९ ॥
हृदयालुः कृपालुश्च तत् त्वं प्रार्थनया मम । कर्मतो विरमामुष्मात् हृदानन्दन नन्दन'! ॥ ७५० ।। 10 इति मातुरलंध्यत्वात् श्रीभोजः साश्रुलोचनः । उत्तरीयं निचिक्षेप चितायां गुरुपृष्ठतः ॥ ७५१॥
अस्तोकशोकसम्भारधारणक्लान्तदेहरुक् । (औ?) देहिकमाधत्त कृत्यं पैतामहं प्रभोः ॥ ७५२ ॥ ६२५. अन्यदा मातुलैः साकमाकस्मिकदवोपमः । तातं शमयितुं प्रायात् कन्यकुब्जमचिन्तितः ॥ ७५३ ।।
प्रविष्टो' गोपुरेणाथ द्राग् राजद्वारसंनिधौ । मालाकारं ददर्शाथ बीजपूरत्रयान्वितम् ॥ ७५४ ॥
तेन ढौकनकं स्वामिपुत्रस्यास्य कृतं तदा । तं गृहीत्वा ययावन्तःसौधं रोधं विशन् विशम्" ।। ७५५ ॥ 15 सह कंटिकया तत्रोपविष्टं प्रवरासने । जघान हृदये घातैत्रिभिस्तै/जपूरकैः ॥ ७५६ ॥
महाप्राणकृताघातादुभौ प्राणैर्वि(व्य)युज्यताम् । प्राग्ध्यातपुत्रहत्यांहोभीतैरिव विनिर्गतैः ॥ ७५७ ।। अपद्वाराद् बहिः कृष्ट्वा" कोष्टारमिव वेश्मनः । दुन्दुकं कन्दुकस्थित्या क्रीडया प्रेरितं नरैः ॥ ७५८ ॥ निखानस्वानपूर्व सोऽविशत् कंठीरवासने । प्रणतः सर्वसामन्तैः "सपोरैर्मत्रिभिस्तथा ॥ ७५९ ॥
श्रीमदामविहाराख्यतीर्थ नन्तुं ययौ नृपः । तत्र शिष्यद्वयं दृष्टं बप्पभट्टेमहामुनेः ॥ ७६० ।। 20
विद्याव्याक्षेपतस्ताभ्यां न चक्रे भूमिपोचितम् । अभ्युत्थानादिसन्मानं श्रीभोजोऽथ व्यचिन्तयत् ॥७६१।। अज्ञातव्यवहारौ हि शिष्यावेतौ प्रभोः पदे । न युज्यते यतो विश्वे व्यवहारो महत्वभूः ॥ ७६२ ॥ श्रीनन्नसूरिराचार्यः श्रीमान गोविन्द इत्यपि । आहूय पूजितौ राज्ञा पट्टे च स्थापितौ प्रभोः ॥७६३ ।। मोढेरे प्रहितो नन्नसूरिः सूरिगुणोन्नतः । पार्श्वे गोविन्दसूरिश्वावस्थाप्यत नृपेण तु ॥ ७६४ ॥ भोजराजस्ततोऽनेकराज्यराष्ट्रग्रहाग्रहः" । आमादभ्यधिको जज्ञे जैनप्रवचनोन्नतौ ॥ ७६५ ॥
बप्प भ हि भद्र की र्ति वा दि कुन र के सरी।
ब्रह्म चारी ग ज व रो रा ज पूजि त इत्यपि ॥ ७६६ ॥ विख्यातो बिरुदैर्जनशासनक्षीरसागरे । कौस्तुभः कृतसंस्थानः पुरुषोत्तमवक्षसि ॥ ७६७ ॥ जयताजगतीपीठे धर्मकल्पद्रुमाङ्कुरः । इदानीमपि यन्नाममत्रो जाड्यविपापहः ॥७६८॥-त्रिभिर्विशेषकम् ।
25
1A विवेकौढ्यौ। 2 A जितसार°। 3 N हितं । 4 A जलांजलिं। 5 N पितृवत्तु । 6 A गुरुभृत्यभुवं । 7 A नन्दनः। 8A कृतं । 90 प्रतिष्ठो। 10 A aौकनके। 11 N दिशखिषाम् । 12 A कृत्वा । 13 N प्रेषितं । 14 A सपूरै। 15A महामतिः, B महामति । 16 N सूरिगणो°। 17 N राज्यभ्रष्टग्रहग्रहः । 18 A B कौस्तुभकृतसंस्थान ।