________________
१०८
प्रभावकचरिते
10
15
तथैकादशभिः फल्गुवाग्डम्बरदिगम्बरैः । राक्षसैरिव शाखोटान् कलिनिष्ठैरधिष्ठितान् ॥६८७॥-युग्मम् । स्वीकुर्वाणान्महातीर्थं शैलारोहनिषेविनः । असंख्यसैन्यसंख्यायतानाह्वयदिलापतिः॥ ६८८ ॥ तान् दृष्ट्वा बप्पभहिः श्रीसुहृद्भूपालमब्रवीत् । धर्मकर्मोद्यमे युद्धात् प्राणिनः को जिघांसति ॥ ६८९ ।। वागाहवेन जेष्यामि विद्वत्पाशानिमान नृप ! । नखच्छेद्येऽब्जिनीखण्डे कुठारं कः प्रयोजयेत् ॥ ६९० ॥ ते जिता वादमुद्रायाममुद्रायासमन्तरा । दीपस्य शलभप्लोषे' स्तुतिः संस्तूयते हि का ॥ ६९१ ॥ ततोऽपि तानभ्यमित्रानवादीद् विशदाम्बरः' । निर्जयादपि चेद् यूयं शमिनो न व्रतादपि ॥ ६९२ ॥ असंख्यव्यन्तराधीशचुम्बितांहिनखावलिः। अम्बा श्रीनेमिपादाब्जकादम्बा शासनामरी ॥ ६९३ ॥ आत्मनोरुभयोः कन्यायुग्मं व्यत्ययतः स्थितम् । देवी तदन्तरा येषामेतां संजल्पयिष्यति ॥ ६९४ ॥ तीर्थं तदीयमेवास्तु यस्याम्बा क्रमतोऽमुतः। समर्पयति तत् िनु वादेरादीनवास्पदैः ॥६९५॥-विशेषकम् । उभयाभिमतो जज्ञे व्यवहारोऽयमेतयोः । पक्षयोरक्षयोदग्रप्रभावाम्बालये ततः ॥ ६९६ ॥ ततः कुमारिकां तेषां बप्पभहिरिहार्पयत् । द्वादशप्रहरान् यावत्तैमत्रैः साधिवासिता ॥ ६९७ ॥ एडमूकेव नाह स्म कथंचिदथ तेऽवदन् । शक्तिश्चेद् यूयमप्यत्र कन्यां जल्पयताद्य नः ॥ ६९८ ॥ तन्मूर्द्धि बप्पभट्टिश्च करं कमलकोमलम् । ददावम्बा च तद्वक्रे स्थिता स्पष्टमुवाच च ॥ ६९९ ॥
उजिंतसेलसिहरे दिक्खा-नाणं निसीहिया जस्स।
तं धम्मचक्कवदि अरिट्टनेमि नमसामि ॥ ७००॥ ततो जयजयध्वानमिश्रो दुन्दुभिरध्वनत् । रोदःकुक्षिभरिः श्वेताम्बरपक्षोन्नतिप्रदः ॥ ७०१ ॥ ततः प्रभृति गाथेयं चैत्यवन्दनमध्यतः । सिद्धस्तवनकृद्राथात्रितया माहता ॥ ७०२॥ शक्रस्तववदाबालाङ्गनापाठ्याऽत्र मानिता । अष्टापदस्तुतिश्चापि श्रुतवृद्धैः पुरातनैः ॥ ७०३ ॥ ततो रैवतकारोहात् समुद्रविजयाङ्गजम् । आनर्चासौ महाभक्त्या मानयन् जन्मनः फलम् ॥ ७०४ ।। दामोदरहरिं तत्राभ्यागात् पिंडतारके । तथा माधवदेवे च शंखोद्धारे च तं स्थितम् ॥७०५॥ द्वारकायां ततः श्रीमान् कृष्णमूर्ति प्रणम्य च । तत्र दानादि दत्त्वा श्रीसोमेश्वरपुरं ययौ ॥ ७०६॥ ततः श्रीसोमनाथस्य हेमपूजापुरस्सरम् । तल्लोकं प्रीणयामास वासवो जीवनैरिव ॥ ७०७ ॥
पुनः' स्वं नगरं प्राप श्रीमानाममहीपतिः । यादृच्छिकं ददौ दानं धर्मस्थानानि च व्यधात् ।। ७०८ ॥ २३. प्राप्ते काले सुतं राज्ये दुन्दुकं स न्यवेशयत् । प्रकृतीः क्षमयामास पूर्वमानन्दिता अपि ॥ ७०९॥
प्रयाणं दत्तवान् गंगासरित्तीरस्थमागधम् । तीर्थ जिगमिषुर्नावमारूढश्च तदन्तरा ॥ ७१० ॥ सूरिणा सह तन्मध्ये दृष्टवान् धूमनिर्गमम् । उपगंगं जनाजज्ञे मगटोडानिवेशनम् ।। ७११ ॥ प्रतीते व्यन्तराख्याते सूरिराहामभूपतिम् । जैनधर्म प्रपद्यस्व प्रान्तेऽपि प्रत्ययोऽस्ति चेत् ॥ ७१२ ॥ राजाह प्रतिपन्नोऽस्मि सर्वज्ञः शरणं मम । देवो गुरुर्ब्रह्मचारी धर्मश्चेत् कृपयोदितः ॥ ७१३ ॥ देवो गुरुश्च धर्मश्च यश्चके व्यावहारिकः । इयदिनानि सोऽत्याजि मया त्रिविधशुद्धितः ॥ ७१४ ॥ मम सौहाईतः पूज्यपादानामपि सांप्रतम् । विधिवद्विग्रहत्याग इह वो नोचिता स्थितिः ॥ ७१५॥ परत्रापि यथा लोके समस्यापूरणादिभिः । कालोऽतिवाह्यते सौख्यान्मिलितैरेव निश्चितम् ॥ ७१६ ॥ श्रुत्वेत्याह प्रभुर्मुग्धवागियं स्वस्वकर्मभिः । कस्कः कां कां गतिं गन्ता बुद्ध्यते को जिनं विना ॥ ७१७ ॥
20
25
1A शलभाप्लोयें। 2N A विशदांवरः। 3 A निर्ययादपि। 4 A येवामेतां। 5A एकमूकेव। 6N महाभक्तो। 7 NA पुरः।