________________
११. बप्पभट्टिसूरिचरितम् । छिनद्मि स्वौ करौ किं वा ललाटं स्फोटये निजम् । कला यातु क्षयं भाग्यहीनस्य मम किं ब्रुवे ॥६५४॥ बप्पभहि समीक्षस्वेत्युक्तः कैश्विद्दयालुभिः । ततोऽसौ गुरवे जैनं विम्बं कृत्वा करे ददौ ॥ ६५५ ।। प्राशंसि च ततोऽसौ तैरेष चित्रकलानिधिः । भूपालाप्रेऽथ' सोऽप्यस्य टंकलक्षं ददौ मुदा ॥ ६५६ ॥ श्रीवर्द्धमानबिम्बेन भास्वत्पटचतुष्टयम् । व्यधापयद्धाच्चैकं कन्यकुञ्जपुरीन्तरा ॥ ६५७ ॥ मथुरायां तथैकं चाणहिल्लपुर एककम् । सतारकपुरे चैकं प्रतिष्ठाप्य न्यधापयत् ॥ ६५८ ॥ 5 श्रीपत्तनान्तरा मोढचैत्यान्तर्लेच्छभङ्गतः । पूर्वमासीत् तमैक्षन्त तदानीं तत्र धार्मिकाः ॥ ६५९ ॥
द्वापंचाशत् प्रबन्धाश्च कृतास्ता रा ग णा दयः । श्रीबप्पमहिना शैक्षकविसारस्वतोपमाः ॥ ६६० ॥ ६२१. अथ राजगिरि दुर्गमन्यदा रुरुधे नृपः । समुद्रसेनभूपालाधिष्ठितं निष्ठितद्विषत् ॥ ६६१ ॥
गजाश्वरथपादातपाद पातादिसादितः । शब्दाद्वैतमिव व्योग्नि प्रतितिष्ठत् समुन्नतम् ॥ ६६२ ॥ समग्रतामसामग्रीजाग्रव्यग्रपरिग्रहम् । अपि प्रपंचलक्षाभिर्दुग्रहं विग्रहिद्विषाम् ॥ ६६३ ।। 10 भैरवादिमहायत्रयष्टिमुक्ताश्मगोलकैः । बाह्यकुट्टिमकुट्टाकैः कुट्टितादृघटातटम् ॥६६४॥ अभ्रंलिहदृषद्भित्तिशिरस्थकपिशीर्षकैः । सढिंबैः क्लेशसंचारं रवेस्तारापतेरपि ॥ ६६५ ॥ सुरंगा'शूकरीमुख्यप्रपंचैरपि विद्विषाम् । पतत्युष्णतैलौघप्लुष्टैविफलविक्रमम् ॥ ६६६ ॥ षड्भिः कुलकम् । पप्रच्छ बप्पभटिं च निर्वेदादामभूपतिः । कथं कदा वा ग्राह्योऽयं प्राकारः क्ष्माधरोपमः ॥ ६६७ ।। प्रश्नचूडामणेः शास्त्रात् सुविचार्याब्रवीदिति । पौत्रस्ते भोजनामाऽमुं ग्रहीष्यति न संशयः ॥ ६६८ ॥ 15 अभिमानादसोढेदं राजा तत्रैव तस्थिवान् । वादशभिर्दुन्दुकस्य सूनोः सुतोऽजनि ॥ ६६९ ॥ स च पर्यकिकान्यस्तः प्रधानैर्जातमात्रकः । आनिन्ये तस्य दम्भोलिरिव शैलच्छिदाविधौ ॥ ६७० ॥ तदृष्टिर्दुर्गशृङ्गाने मुखं बालस्य तन्मुखम् । विधायापात्यतापित्ततैलज्वालाविलासिरुक् ॥६७१ ॥ स कोट्टः कुट्टिताधस्थरणमण्डपमण्डलः । स्फुटदट्टालकस्तोमप्रभ्रस्यद्गोपुरादपि ॥ ६७२ ॥ मृद्यमानमनुष्यत्रीगजाश्वमहिषीगवाम् । आर्ताक्रन्दरवैः शब्दाद्वैतं सर्वत्र पोषयन् ॥ ६७३ ॥ 20 निर्घातक्षुण्णसामान्यपर्वतो महतामपि । गिरीणां प्रददद्भीति न्यपतन्नाकिलोकिनः॥६७४॥-त्रिभिर्विशेषकम् । समुद्रसेनभूपोऽपि धर्मद्वाराद् ययौ बहिः । आमनामाथ भूपालः श्रीराजगिरिमाविशत् ॥६७५॥ अधिष्ठाता तु दुर्गस्य यक्षोऽङ्गीकृतवैरतः । आमाधिष्ठायिकैः कृष्टः प्रतोलीस्थो" हि तजनम् ॥ ६७६ ॥ इति लोकात् परिज्ञाय राजा तत्रागमत् तदा । तमाह प्राकृतं लोकं मुक्त्वा मामेव घातय ॥६७७ ॥ इति साहसवाचा स तुष्टो हिंसाग्रहात् ततः । न्यवर्तत प्रशान्तात्मा सत्संग उपकारकः ।। ६७८॥ 25 मैत्री च प्रतिपेदे स यथादिष्टकरः प्रभोः। कियन्मे जीवितं मित्र ! ज्ञानादृष्ट्वा निवेदय ॥ ६७९ ॥ षण्मास्यामवशेषायां कथयिष्यामि तत्र च । इति जल्पन तिरोधत्तावसरे च तब्रवीत् ॥ ६८० ॥ गंगान्तर्मागधे तीर्थे नावाऽवतरतः सतः । मकाराद्यक्षरग्रामोपकण्ठे मृत्युरस्ति ते ॥ ६८१ ॥ निर्यद्भूमं जलादृष्ट्वाभिज्ञानं भवता दृढम् । विज्ञेयमुचितं यत्ते तत्प्रेत्यार्थं समाचर ॥ ६८२ ॥ २२. तीर्थयात्रामसौ मित्रोपदेशादुपचक्रमे । अलसः को हिते स्वस्य नेच्छेत् सद्गतिमात्मनः ॥ ६८३ ॥ 30
प्रयाणैः प्रवणैः पुण्डरीकादि प्राप भूपतिः । युगादिनाथमभ्यर्च्य कृतार्थं स्वममन्यत ॥ ६८४ ॥ ययौ रैवतकाद्रिं च श्रीनेमि हृदि धारयन् । उपत्यकामुवं प्राप प्राप्तरेखः सुधीषु यः ॥ ६८५ ॥ तीर्थ प्रणन्तुमानेकानेकादश नरेश्वरान् । अपश्यन्नश्यदातको यायुतपरिच्छदान् ॥ ६८६ ।।
1A भूपाला ग्रेपि । 2N B द्विषन् । 3 A °पादापातादि। 4 A प्रतितिष्टन् । 5 N°प्राज्य। 6A विग्रहद्विषां । 7 A सूकरी 1 8 A स विचा। 9 A °मावसत् । 10 N कृष्टप्रतोलीस्थायिनं जनम् ।