________________
प्रभावकचरिते ... इत्याचार्यकथास्मेरो नृपतिः प्रेष्य मानुषान् । जटा आनाययत् , तत्र गत्वाऽऽनीताश्च तास्ततः ॥ ६३२ ॥
मुनीन्द्रोऽयं महाज्ञानी कलावपि कलानिधिः । भूपालः कृतपुण्योऽसौ यस्येदृग्गुरुरद्भुतः ॥ ६३३ ॥
पार्षद्या धूतमूर्द्धनस्तद्वृत्तोल्लाससंशिनः । पर्युपास्तिं दधुः सूरिपादान्तभ्रान्तमौलयः ॥ ६३४ ॥ ६१९. अन्यदा सौधमूर्द्धस्थो नृपः कुत्रापि वेश्मनि । कलहान्तरितां रामा भिक्षायै गृहमागतम् ॥ ६३५ ॥
जैनभिक्षु परब्रह्मध्यानैकाग्रहसंग्रहम् । वृषस्यन्तीमवज्ञातां तेन निर्गच्छता गृहात् ॥ ६३६ ॥ बाढं कपाटमाश्लिष्य प्रहारेउंढेः समुद्यते । नूपुरं यतिपादाब्जप्रविष्टं' कौतुकादिव ॥ ६३७ ॥ पश्यन्तीमथ सोत्प्रासां निर्लज्जा कामदामनीम् । गणयत्येष नेत्येवं वदन्तीं च तदैक्षत ॥ ६३८ ॥
-चतुर्भिः कलापकम् । प्राकृतस्याथ' वृत्तस्य पादमेकमुवाच सः । गुरोरने ततोऽवादीत् ‘स्रागेव पदत्रयम् ॥ ६३९ ॥ 10
तच्चकवाडमासज्ज वरंगणाए अन्भत्थिओ जुव्वणमत्तियाए।
अमन्निए मुक्कपयप्पहारे सनेउरो पव्वइयस्स पाओ॥ ६४०॥ युवा भिक्षाचरोऽन्येद्युः 'प्रोषितप्रेयसीगृहे । दृष्टः प्रविष्टो भिक्षायै राज्ञा सौधाप्रचारिणा ॥ ६४१॥ आनीयान्नभृतां दर्वीमूर्द्धाऽस्थात् सा तदास्यदृक् । सोऽपि तन्नाभिसौन्दर्यासक्तनेत्रस्तथा स्थितः ॥ ६४२॥ एकचित्ततया दानग्रहणा' स्मरणात् तदा । *नृपस्तयोरेकदृशोर्ध्यानं पश्यन् जगौ स्मितः ॥ ६४३ ॥
तद्यथाभिक्खयरो पिच्छइ नाहिमंडलं सा वि तस्स मुहकमलं । श्रीबप्पभहिराकर्ण्य नृपाये वाक्यमब्रवीत् । किं गण्यानीदृशान्यस्य पयोधेरिव बुबुदाः ॥ ६४४ ॥
दुण्हं पि कवालं चट्ठयं च काया विलुपंति ॥ ६४५॥ 20
श्रुत्वेति भूपतिस्तुष्टः प्राह कल्याणधीनिधिम् । विना मन्मित्रमेते कः पूरयेन्मन्मथेक्षितम् ॥ ६४६ ॥ इत्येवं सत्यसौहार्दमार्दवाईनभीतिभूः । गुरुवाम्बुजे नित्यं भृशं भृङ्गीतुलां व्यधात् ॥ ६४७ ॥ ___ एकदा समगादेकच्छेको विश्वकलाश्रयः । चित्रकृच्चित्रकृच्चित्रकर्मकर्मणि कर्मठः ॥ ६४८॥ पूर्वमालिखितं सम्यक् ततः कर्पटवारितम् । रेखितं रङ्गिवर्णौघपूर्णक्षणमथ स्फुटम् ॥ ६४९ ॥ अलक्ष्यमपि मा चित्रभङ्गे जीववधो" ध्रुवः । इति सत्यापयन्" वाचं सजीवकलया स्वया (?)॥६५०॥ स त्रयोदशभिर्भागैर्भूपरूपं विधाय तत् । चित्रचूडामणि राज्ञो दर्शयन् विकटे पटे ॥-त्रिभिर्विशेषकम् । राजा सुहृद्गुणग्रामरामणीयकलम्पटः । अनास्थया समीक्ष्यास्य ददौ नोत्तरमप्यसौ ॥ ६५२ ॥ एवं त्रिर्विहिते रूपे यदा नोत्तरमाप सः । अवोचत् प्रेक्षकानन्यान् निर्वेदादतिदीनगीः ॥ ६५३ ॥
15
25
1N प्रतिष्ठं । 2A तदैक्ष्यते; B तदैक्ष्यत । 3N प्राकृतस्याद्य । 4 A च। 5N प्रागेव। 6 N प्रेषितः। 7 A ग्रहण स्मरणा। *N पुस्तके "नृपस्तयोरेकदृशोर्ध्याने दृष्टेऽथवायसैः॥
विकीर्णे सकलेऽप्यन्ने विस्मयस्मेरलोचनः। गाथार्द्धमूचिवांस्तत्र यथा दृष्टार्थवाचकम् ॥
ध्यानं पश्यन् जगौ स्मिता:-" एतादृशः पाठविशेषोऽत्र दृश्यते । 8 N सम्यक्तः; A सम्यक् तव। 9 N रेखिनं। 10 A अलक्ष्यमति मां; B अलक्ष्म। 11 N°वधाद्। 12 A सत्यापयखा"।