________________
15
११. बप्पभट्टिसूरिचरितम् । चिरं परिचयः पूज्यैस्त्वादृशैरपि मे ऽफलः । एतावन्ति दिनान्यासीद् धर्माख्यानविनाकृतः ॥ ६०४ ॥
उक्तं च तेनमयनाहिकलुसि एणं इमिणा किं किर फलं निडालेण.।
इच्छामि अहं जिणवरपणामकिणकलुसियं काउं॥ ६०५॥ मुमुक्षोर्मम यत्प्राय औचित्यं न विलंघयेत् । तदादिश यथादिष्टं विदधे कर्मनाशकम् ।। ६०६॥ 5 श्रीवप्पभट्टिराहाथ शङ्का चेत् कर्मणां तव । मनःशुद्धिस्ततः कार्या व्यवहारोऽपि तादृशः ॥ ६०७ ।। ततः संन्यस्त एव त्वं जैनमार्ग समाश्रय । श्रुत्वेति तैः सहैवा'साबुदस्थाद् भवनात् ततः॥ ६०८ ॥ आजगामाथ पार्श्वस्य' स्तूपे श्रीपार्श्वमन्दिरे । मिथ्यादर्शनवेषं च विमुञ्चत् स्वीकृतं पुरा ॥ ६०९ ॥ जैनर्षिवेषमास्थाय संयमाचारशिक्षकः । संसारचरमप्रत्याख्यानी ध्यानैकतानभृत् ॥ ६१० ॥ अष्टादश तदा पापस्थानान्युत्सृज्य सर्वतः । चतुःशरणमादध्यौ निर्दूतान्तरकल्मषः ॥ ६११ ॥-युग्मम् । 10 प्रशंसागर्हणे प्राच्यसुकृतासुकृते व्यधात् । परमेष्टिपदाधीनमानसो मानशोषभूः ॥ ६१२ ॥ दिनान्यष्टादश प्रायमुपायं दुष्कृतार्दने । एकावतारान्तरितो महानन्दपदस्तदा ॥ ६१३ ॥ सम्यगाराधनोपात्तपाण्डित्यमृतिरीतितः । देहमुक्त्यां गतः साम्यं प्राप प्राचीनबर्हिषा ॥ ६१४॥-युग्मम् । ततः किंचित्सखिस्नेहगद्गदः शमिनायकः । उवाच विश्वसामन्तविद्वद्वन्दस्य शृण्वतः ॥ ६१५ ॥
तथा हिपइं सग्गगए सामंतराय अवरत्तउ न फिहिहह।
पढम चिय वरिय पुरंदराइ सग्गस्स लच्छीए ॥ ६१६॥ तत्र गोकुलवासेऽस्ति पुरा नन्दनिवेशिते । श्रीशान्तिः शान्तिदेवी च हेतुर्विश्वस्य शान्तिके ॥ ६१७ ॥ तत्र श्रीबप्पभहिः श्रीतीर्थेश्वरनमस्कृतौ । गत्वा च तुष्टुवे शान्तिदेवतासहितं जिनम् ॥ ६१८ ॥ 'जयति जगद्रक्षाकर' इत्याचं शान्तिदेवतास्तवनम् । अद्यापि वर्त्तते तच्छान्तिकरं सर्वभयहरणम् ॥६१९120 ततः सामाजिकस्तोमस्तुतो व्यावृत्य संययौ । कन्यकुलपुरं बप्पभट्टिः कतिपयैर्दिनैः ॥ ६२० ॥ पुरापि ज्ञातवृत्तान्तो नृपतिगूढपूरुषैः । संमुखीनः पुरोपान्तं गत्वा प्रावेशयद् द्रुतम् ॥ ६२१ ॥ गुरुं सभोपविष्टं च प्राह भूपश्चमत्कृतः । अहो वो वाच सामर्थ्य सोऽपि यत् प्रतिबोधितः ॥ ६२२ ॥ प्रभुः प्राहाथ का शक्तिर्मम यत् त्वं न बुध्यसे । राजाह सम्यग् बुद्धोऽस्मि त्वद्धर्मोऽस्तीति निश्चितम् ॥६२३॥ माहेश्वरं पुनर्द्धम मुञ्चतो मे महाव्यथा । तत्प्राच्यभवसंबद्ध इवायं किं करोम्यतः ॥ ६२४ ॥ 25 श्रुतज्ञाननिमित्तेन ज्ञात्वा प्रभुरुवाच च । तव' प्राकृतकष्टस्य राज्यमल्पतरं फलम् ॥ ६२५ ॥ सविस्मयैस्तदा पर्षत्प्रधानरौच्यत प्रभुः । प्रसह्य कथ्यतां राज्ञः प्राग्भवोऽस्मत्प्रबुद्धये ॥ ६२६ ॥ प्रभुराह ततः सम्यग् विमृश्येति यथातथम् । प्रश्नचूडामणेः शास्त्रादस्ताघज्ञानशेवधिः ॥ ६२७ ॥ शृणु भूमिपते ! कालिंजराख्यस्य गिरेरधः । शालिशालट्ठमोर्द्धस्थशाखाबद्धपदद्वयः ॥ ६२८॥ अधोमुखो जटाकोटिसंस्पृष्टपृथिवीतलः । ब्यन्हे ध्यन्हे मिताहारो हारी" क्रोधादिविद्विषाम् ॥ ६२९॥ 30 इति वर्षशतं सायं तपस्तत्त्वातिदुष्करम् । आयुःप्रान्ते तनुं त्यक्त्वाऽभवस्त्वं भूपनायकः ॥ ६३०॥ यदि न प्रत्ययो राजन्! प्रेषय प्रवरान् नरान् । जटा अद्यापि तत्रस्था आनायय तरोस्तलात् ।। ६३१ ॥
1N सहैवाप्त उद। 2N पार्श्वेऽस्य । 3 N व्यमुंचत् । 4 N संयमावारशिष्यकः। 5 N अहो चोवाच । 6N प्राह च । 7N तत्र। 8N विमृशेति। 9A हाराहारी।
प्र०१४