Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 139
________________ प्रभावकचरिते 15 ताभ्यामभ्युपयाते च व्यवहारेऽथ पण्डितैः । उभौ तत्र प्रतिस्थाते राजमत्त्यैः सहाहितौ ॥ १११ ॥ तावल्पेनापि कालेन प्रयाणैरविखण्डितैः । आसेदाते पुरं ब्राह्मीब्रह्माद्भुतपवित्रितम् ॥ ११२ ॥ आराधयांबभूवाते तपसा दुष्करेण तौ । तुष्टा देवी परीक्षार्थ तौ पृथकृय दूरतः ॥ ११३ ॥ समस्यापदमप्राक्षीत् तूर्णमापूरि तेन च । अपरेणापि संपूर्णा तथैवाक्षरपंक्तिका ॥ ११४ ॥ विलम्बित-द्रुतभेदतया काष्ठार्द्धमानतः । जितं बाणेन शीघ्रत्वाद् विलम्बाच्च जितः परः ॥ ११५ ॥ ___ तथा हिदामोदरकराघातविह्वलीकृतचेतसा। दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ११६॥ इति गीनिर्णयं लब्ध्वा प्रधानैः सहितौ कवी । निजं नगरमायातौ तस्थतुर्भूमिपाग्रतः ॥ ११७ ॥ 10 मयूरश्च निजग्रन्थपुस्तकानि नृपाङ्गणे । आनीयाज्वालयत् खेदात् तानि जातानि भस्मसात् ॥ ११८ ॥ भस्मापि यावदुड्डीनं श्रीसूर्यशतपुस्तकम् । तावत्प्रत्यग्रसूर्यांशुप्रकटाक्षरमस्ति च ॥ ११९ ॥ ततो राज्ञा प्रभावोऽस्य गौरवेण प्रकाशितः । उभयोर्विदुषोर्मानं साम्ये स समभावयत् ॥ १२० ॥ ६५. तो भूपालः स्तुवन्नित्यममात्वं चान्यदा जगौ । प्रत्यक्षोऽतिशयो भूमिदेवानामेव दृश्यते ॥ १२१ ॥ कुत्रापि दर्शनेऽन्यस्मिन् कथमस्ति प्रजल्पत । प्राह मत्री यदि स्वामी शृणोति प्रोच्यते ततः ॥ १२२ ।। जैनः श्वेताम्बराचार्यो मानतुङ्गाभिधः सुधी। महाप्रभावसंपन्नो विद्यते तावके पुरे ॥ १२३ ॥ चेत् कुतूहलमत्रास्ति तदाहूयत तं गुरुम् । चित्ते वो यादृशं कार्य तादृशं पूर्यते तथा ॥ १२४ ॥ इत्याकर्ण्य नृपः प्राह तं सत्पात्रं समानय । सन्मानपूर्वमेतेषां निस्पृहाणां नृपः कियान् ॥ १२५ ॥ तत्र गत्वा पुरो मत्री गुरूनानम्य चावदत् । आह्वाययति वात्सल्याद्भूपः पादोऽवधार्यताम् ॥ १२६ ॥ गुरुराह महामात्य ! राज्ञा नः किं प्रयोजनम् । निरीहाणामियं भूमिर्नहि प्रेत्यभवार्थिनाम् ॥ १२७ ॥ 20 मत्रिणोचे प्रभो ! श्रेष्ठा भावनातः प्रभावना । प्रभाव्यं शासनं पूज्यैस्तद्राज्ञो रङ्गतो भवेत् ॥ १२८ ॥ इति निर्बन्धतस्तस्य श्रीमानतुङ्गसूरयः । राजसौधं समाजग्मुरभ्युत्तस्थौ च भूपतिः ॥ १२९॥ धर्मलाभाशिषं दत्त्वा निविष्टा उचितासने । नृपः प्राह द्विजन्मानः कीदृक् सातिशयाः क्षितौ ।। १३० ॥ एकेन सूर्यमाराध्य स्वाङ्गाद् रोगो वियोजितः । अपरश्चण्डिकासेवावशाल्लेभे करक्रमौ ॥ १३१ ॥ भवतामपि शक्तिश्चेत् काप्यस्ति यतिनायकाः ! । तदा कंचिच्चमत्कारं पूज्या दर्शयताधुना ॥ १३२ ॥ 25 इत्याकाथ ते प्राहुर्न गृहस्था वयं नृप !। धनधान्यगृहक्षेत्रकलत्रापत्यहेतवे ॥ १३३ ॥ राजरञ्जनविद्याप्तिलोकाक्षेपादिकाः क्रियाः। यद् विध्मः परं कार्यः शासनोत्कर्ष एव नः॥१३४ ॥ इत्युक्ते प्राह भूपालो निगडैरेप यश्यताम् । आपादमस्तकं ध्वान्ते निवेश्य प्रावदन्निति ॥ १३५ ॥ ततोऽपवरके राजपुरुषैः परुषैस्तदा । निगडैश्च चतुश्चत्वारिंशत्संख्यैरयोमयैः ॥ १३६॥ नियन्त्रितः समुत्पाट्य' लोयन्त्रसमो गुरुः । न्यवेश्यताथ तद्वाराररी च पिहितौ ततः ।।१३७॥-युग्मम् । अतिजीर्णं सनाराचं तालकं प्रददुस्ततः । सूचिभेद्यतमस्काण्डः स पातालनिभो बभौ ॥ १३८ ॥ वृत्तं भक्ता म र इति प्राच्यं प्राहैकमानसः । त्रादकृत्य निगडं तत्र त्रुटित्वापे(पै)ति तत्क्षणात् ॥१३९॥ प्राक्संख्यया च वृत्तेषु भणितेषु द्रुतं ततः । श्रीमानतुङ्गसूरिश्व मुत्कलो मुत्कलोऽभवत् ॥ १४०॥ खयमुद्घटिते द्वारयन्त्रे संयमसंयतः । सदानुच्छृखलः श्रीमानुच्छृखलवपुर्वभौ ॥ १४१ ॥ अन्तःसंसदमागत्य धर्मलाभं नृपं ददौ । प्रातः पूर्वाचलान्निर्यन्भास्वानिव महाद्युतिः ।। १४२ ॥ ___ 1A सहाहती। 2 A यतः। 3 BD पुस्तकानि च प्रांगणे। 4 A ज्वालयन् । 5 A B D तव। 6 A महाप्राज्ञ । 7A समुद्धाट्य । 8 B नाराचजालकं। 90 प्रख्यं ।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252