________________
प्रभावकचरिते
15
ताभ्यामभ्युपयाते च व्यवहारेऽथ पण्डितैः । उभौ तत्र प्रतिस्थाते राजमत्त्यैः सहाहितौ ॥ १११ ॥ तावल्पेनापि कालेन प्रयाणैरविखण्डितैः । आसेदाते पुरं ब्राह्मीब्रह्माद्भुतपवित्रितम् ॥ ११२ ॥ आराधयांबभूवाते तपसा दुष्करेण तौ । तुष्टा देवी परीक्षार्थ तौ पृथकृय दूरतः ॥ ११३ ॥ समस्यापदमप्राक्षीत् तूर्णमापूरि तेन च । अपरेणापि संपूर्णा तथैवाक्षरपंक्तिका ॥ ११४ ॥ विलम्बित-द्रुतभेदतया काष्ठार्द्धमानतः । जितं बाणेन शीघ्रत्वाद् विलम्बाच्च जितः परः ॥ ११५ ॥
___ तथा हिदामोदरकराघातविह्वलीकृतचेतसा।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ११६॥ इति गीनिर्णयं लब्ध्वा प्रधानैः सहितौ कवी । निजं नगरमायातौ तस्थतुर्भूमिपाग्रतः ॥ ११७ ॥ 10 मयूरश्च निजग्रन्थपुस्तकानि नृपाङ्गणे । आनीयाज्वालयत् खेदात् तानि जातानि भस्मसात् ॥ ११८ ॥
भस्मापि यावदुड्डीनं श्रीसूर्यशतपुस्तकम् । तावत्प्रत्यग्रसूर्यांशुप्रकटाक्षरमस्ति च ॥ ११९ ॥
ततो राज्ञा प्रभावोऽस्य गौरवेण प्रकाशितः । उभयोर्विदुषोर्मानं साम्ये स समभावयत् ॥ १२० ॥ ६५. तो भूपालः स्तुवन्नित्यममात्वं चान्यदा जगौ । प्रत्यक्षोऽतिशयो भूमिदेवानामेव दृश्यते ॥ १२१ ॥
कुत्रापि दर्शनेऽन्यस्मिन् कथमस्ति प्रजल्पत । प्राह मत्री यदि स्वामी शृणोति प्रोच्यते ततः ॥ १२२ ।। जैनः श्वेताम्बराचार्यो मानतुङ्गाभिधः सुधी। महाप्रभावसंपन्नो विद्यते तावके पुरे ॥ १२३ ॥ चेत् कुतूहलमत्रास्ति तदाहूयत तं गुरुम् । चित्ते वो यादृशं कार्य तादृशं पूर्यते तथा ॥ १२४ ॥ इत्याकर्ण्य नृपः प्राह तं सत्पात्रं समानय । सन्मानपूर्वमेतेषां निस्पृहाणां नृपः कियान् ॥ १२५ ॥ तत्र गत्वा पुरो मत्री गुरूनानम्य चावदत् । आह्वाययति वात्सल्याद्भूपः पादोऽवधार्यताम् ॥ १२६ ॥
गुरुराह महामात्य ! राज्ञा नः किं प्रयोजनम् । निरीहाणामियं भूमिर्नहि प्रेत्यभवार्थिनाम् ॥ १२७ ॥ 20 मत्रिणोचे प्रभो ! श्रेष्ठा भावनातः प्रभावना । प्रभाव्यं शासनं पूज्यैस्तद्राज्ञो रङ्गतो भवेत् ॥ १२८ ॥
इति निर्बन्धतस्तस्य श्रीमानतुङ्गसूरयः । राजसौधं समाजग्मुरभ्युत्तस्थौ च भूपतिः ॥ १२९॥ धर्मलाभाशिषं दत्त्वा निविष्टा उचितासने । नृपः प्राह द्विजन्मानः कीदृक् सातिशयाः क्षितौ ।। १३० ॥ एकेन सूर्यमाराध्य स्वाङ्गाद् रोगो वियोजितः । अपरश्चण्डिकासेवावशाल्लेभे करक्रमौ ॥ १३१ ॥
भवतामपि शक्तिश्चेत् काप्यस्ति यतिनायकाः ! । तदा कंचिच्चमत्कारं पूज्या दर्शयताधुना ॥ १३२ ॥ 25
इत्याकाथ ते प्राहुर्न गृहस्था वयं नृप !। धनधान्यगृहक्षेत्रकलत्रापत्यहेतवे ॥ १३३ ॥ राजरञ्जनविद्याप्तिलोकाक्षेपादिकाः क्रियाः। यद् विध्मः परं कार्यः शासनोत्कर्ष एव नः॥१३४ ॥ इत्युक्ते प्राह भूपालो निगडैरेप यश्यताम् । आपादमस्तकं ध्वान्ते निवेश्य प्रावदन्निति ॥ १३५ ॥ ततोऽपवरके राजपुरुषैः परुषैस्तदा । निगडैश्च चतुश्चत्वारिंशत्संख्यैरयोमयैः ॥ १३६॥ नियन्त्रितः समुत्पाट्य' लोयन्त्रसमो गुरुः । न्यवेश्यताथ तद्वाराररी च पिहितौ ततः ।।१३७॥-युग्मम् । अतिजीर्णं सनाराचं तालकं प्रददुस्ततः । सूचिभेद्यतमस्काण्डः स पातालनिभो बभौ ॥ १३८ ॥ वृत्तं भक्ता म र इति प्राच्यं प्राहैकमानसः । त्रादकृत्य निगडं तत्र त्रुटित्वापे(पै)ति तत्क्षणात् ॥१३९॥ प्राक्संख्यया च वृत्तेषु भणितेषु द्रुतं ततः । श्रीमानतुङ्गसूरिश्व मुत्कलो मुत्कलोऽभवत् ॥ १४०॥ खयमुद्घटिते द्वारयन्त्रे संयमसंयतः । सदानुच्छृखलः श्रीमानुच्छृखलवपुर्वभौ ॥ १४१ ॥
अन्तःसंसदमागत्य धर्मलाभं नृपं ददौ । प्रातः पूर्वाचलान्निर्यन्भास्वानिव महाद्युतिः ।। १४२ ॥ ___ 1A सहाहती। 2 A यतः। 3 BD पुस्तकानि च प्रांगणे। 4 A ज्वालयन् । 5 A B D तव। 6 A महाप्राज्ञ । 7A समुद्धाट्य । 8 B नाराचजालकं। 90 प्रख्यं ।