________________
१२. मानतुङ्गसूरिचरितम् ।
११७ नृपः प्राह शमस्तादृक् शक्तिश्चाप्यतिमानुषी । देवीदेवकृताधारं' विना कस्येदृशं महः ॥ १४३ ॥ देशः पुरमहं धन्यः कृतपुण्यश्च वासरः । यत्र ते वदनं प्रैक्षि प्रभो! प्रातिभसप्रभम् ॥ १४४ ॥ आदेशं सुकृतावेशं प्रयच्छ स्वच्छतानिधे ! । आजन्मरक्षादक्षः स्याद् यथा मे त्वदनुग्रहः ॥ १४५ ॥ श्रुत्वेति भूपतेर्वाचं प्राहुस्ते यदकिंचनाः । 'लब्धीनामुपयोगं न" कुत्राप्यर्थे विदध्महे ।। १४६॥ परं श्रीमन् गुणाम्भोधे ! प्रशाधि वसुधामिमाम् । जैनधर्म हताक्षेमं परीक्ष्य परिपालय ॥ १४७ ॥ 5 अथावीचन्महीनाथः पान्थो जैनादृते पथि । अदर्शनादियत्कालं पूज्यानां वञ्चिता वयम् ॥ १४८॥ अहो ममावलेपोऽभूद् ब्राह्मणा एव सत्कलाः । देवान् सन्तोष्य यैः स्वीयो दर्शितः प्रत्ययो मम ॥१४९॥ विवदानावहंकारान्नैतावुपरतौ क्वचित् । दर्पायैव न बोधाय या विद्या सा मतिभ्रमः॥ १५०॥ येषां प्रभावः सर्वातिशायी प्रशम ईदृशः । सन्तोषश्च तदाख्यातो धर्मः शुद्धः परीक्षया ॥ १५१॥ तन्मया भवतामेवोपदेशः संविधीयते । अतःपरं कटुद्रव्यं त्यक्त्वा स्वाद्यं हि गृह्यते ॥ १५२॥ 10 तत आदेशपीयूषपोषात् तृप्तं कुरुष्व माम् । राज्ञो वाचमिति श्रुत्वा सूरिः प्रण्यगदद् गिरम् ॥ १५३ ॥ दीनपात्रौचितीभेदात् त्रिधा दानरुचिर्भव । जीर्णान्युद्धर चैत्यानि बिम्बानि च विधापय ॥ १५४ ॥ आह मन्त्री प्रभो विप्रप्रातिभं कजलोज्वलम् । जैनवाचंयमादेशक्षीरेणैव विलुप्यते ॥ १५५ ॥ इत्थं धर्मोपदेशं च प्रदेशमिव सद्गतेः । तेऽथ प्रदाय भूपाय संययुः स्वाश्रयं तदा ॥ १५६ ॥
सर्वोपद्रवनिर्नाशी 'भक्ता मर' महास्तवः । तदा तैर्विहितः ख्यातो वर्त्ततेऽद्यापि भूतले ॥ १५७ ॥ 15 ६६. कदापि कर्मवैचित्र्यात् तेषां चित्ररुजाभवत् । कर्मणा पीडिता यस्मात् शलाकापुरुषा अपि ॥१५८॥
धरणेन्द्रस्मृतेरायात् पृष्टोऽनशनहेतवे । अवादीदायुरद्यापि स तत् संह्रियते कथम् ॥ १५९ ॥ यतो भवाशामायुर्बहुलोकोपकारकम् । अष्टादशाक्षरं मनं ततस्तेषां समापयत् ।। १६०॥ ह्रियते स्मृतियोगेन' रोगादि नवधा भयम् । अन्तर्ययौ ततः श्रीमान् धरणो धरणीतलम् ॥ १६१ ॥ ततस्तदनुसारेण स्तवनं विदधे प्रभुः । ख्यातं 'भ यह रं' नाम तदद्यापि प्रवर्त्तते ॥ १६२ ॥ हेमन्तशतपत्रश्रीदेहोऽस्ताघमहोनिधिः । सूरेरजनि तस्याहो सुलभं तादृशां ह्यदः ॥ १६३ ॥-युग्मम् । सायं प्रातः पठेदेतत् स्तवनं यः शुभाशयः । उपसर्गा वजन्त्यस्य विविधा अपि दूरतः ॥ १६४ ॥ मानतुङ्गप्रभुः श्रीमानुद्योतं जिनशासने । अनेकधा विधायैवं शिष्यान्निष्पाद्य सन्मतीन् ॥ १६५ ॥ द्वेधा गुणाकरं शिष्यं पदे स्वीये निवेश्य च । इङ्गिनीमथ संप्राप्यानशनी दिवमभ्यगात् ॥ १६६ ॥
इत्थं श्रीमानतुङ्गप्रभुचरितमतिस्थैर्यकृज्जैनधर्म
प्रासादस्तम्भरूपं सुकृतभरमहापट्टविष्टम्भहेतु । श्रुत्वा कुत्रापि किंचिद् गदितमिह मया संप्रदायं च लब्ध्वा
शोध्यं मेधाप्रधानैः सुनिपुणमतिभिस्तच नोत्पासनीयम् ॥ १६७ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा ।
30 श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीमानतुङ्गाद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽभवद् द्वादशः ॥ १६८ ॥
॥ ग्रंथाग्रं १७४, अ०३। उभयं ३११४॥
20
25
1N देवदेवी। 2N प्रातिभसंनिभम् । 3 लक्ष्मीनां । 4 N च। 5N महीपालः। 6A धर्मशुद्धपरीक्षया । 7 DN स्मृतितोयेन । 8 A त्रिविधा।