________________
११८
प्रभावकचरिते १३. श्रीमानदेवसूरिचरितम् ।
10
६१. सूरेः श्रीमानदेवस्य प्रभावाम्भोनिधिर्नवः । सदा यत्क्रमसेविन्यौ ते जया-विजये श्रियौ ॥ १॥
निर्वृतिं यत्क्रमाम्भोजगुणानुचरणाद् दधुः । गति मनोहरां हंसा मानदेवः स वः श्रिये ॥ २ ॥ तद्वत्तसिन्धुतः किंचिदेकदेशं विभाव्य च । आख्यानपण्यविस्तारात तरिष्यामि स्वमूढताम् ॥३॥ अस्ति सप्तशतीदेशो निवेशो धर्मकर्मणाम् । यद्दानेशभिया भेजुस्ते राजशरणं गजाः ॥ ४ ॥ तत्र कोरंटकं' नाम पुरमस्त्युन्नताश्रयम् । द्विजिह्वविमुखा यत्र विनतानन्दना जनाः ॥५॥ तत्रास्ति श्रीमहावीरचैत्यं श्वैत्यं दधदृढम् । कैलासशैलवद्भाति सर्वाश्रयतयानया ॥ ६॥ उपाध्यायोऽस्ति तत्र श्रीदेवचन्द्र इति श्रुतः । विद्वद्वन्दशिरोरत्नं तमस्ततिहरो जने ॥ ७ ॥ आरण्यकतपस्यायां नमस्यायां जगत्यपि । सक्तः शक्तान्तरङ्गारिविजये भवतीरभूः ॥ ८॥ सर्वदेवप्रभुः सर्वदैव सद्ध्यानसिद्धिभृत् ।
सिद्धक्षेत्रे यियासुः श्रीवाराणस्याः समागमत् ॥ ९॥-युग्मम् । बहुश्रुतपरीवारो विश्रान्तस्तत्र वासरान् । कांश्चित्प्रबोध्य तं चैत्यव्यवहारममोचयत् ॥ १०॥ स पारमार्थिकं तीव्र धत्ते द्वादशधा तपः । उपाध्यायस्ततः सूरिपदे पूज्यैः प्रतिष्ठितः ॥ ११ ॥
श्रीदेवसूरिरित्याख्या तस्य ख्यातिं ययौ किल । श्रूयन्तेऽद्यापि वृद्धेभ्यो वृद्धास्ते देवसूरयः ॥ १२ ॥ 15 श्रीसर्वदेवसूरीशः श्रीमच्छत्रुञ्जये गिरौ । आत्मार्थ साधयामास श्रीनाभेयैकवासनः॥ १३ ॥
चारित्रं निरतीचारं ते श्रीमद्देवसूरयः । प्रतिपाल्य निवेश्याथ सूरिं प्रद्योतनं पदे ॥ १४॥ .
अन्तेऽनशनमाधाय ते सदाराद्धसंयमाः । सम्यगाराधनापूर्व दैवीं श्रियमशिश्रियन् ॥ १५॥ ६२. अथो विज नड्डले श्रीप्रद्योतनसूरयः । तेषां परोपकारायावतारो हि भवेत् क्षितौ ॥ १६ ॥
तत्र श्रीजिनदत्तोऽस्ति ख्यातः श्रेष्ठी धनेश्वरः । सर्वसाधारणं यस्य मानसं मानदानयोः ॥ १७॥ 20 धारिणीति' प्रिया तस्य धर्मे निबिडवासना । वर्तते व्यवहारेण द्वयोऽस्तु पुरुषार्थयोः ॥ १८ ॥
तत्पुत्रो मानदेवोऽस्ति मानवानप्यमानरुक् । वैराग्यरङ्गितस्वान्तः प्रान्तभूरान्तरद्विषाम् ॥ १९॥ श्रीप्रद्योतनसूरीणामन्यदोपाश्रयेऽगमत् । ते धर्म तस्य चाचख्युस्तरण्डं भवसागरे ॥२०॥ संसारासारतां बुद्धा गुरुपादान व्यजिज्ञपत् । मानदेवः परिव्रज्यां ददध्वं मे प्रसीदत ॥ २१॥
निर्बन्धात् पितरौ चानुज्ञाप्य शुद्धे दिने ततः । चारित्रमग्रहीदुग्रमाचचार व्रतं च सः॥ २२ ॥ 25
अङ्गैकादशकेऽधीती" छेद-मौलेषु निष्ठितः । उपाङ्गेषु च निष्णातस्ततो जज्ञे बहुश्रुतः ॥२३॥ विज्ञाय सोऽन्यदा विज्ञो योग्यः सद्गुरुभिस्तदा । पदप्रतिष्ठितश्चक्रे चान्द्रगच्छांबुधेः' शशी ॥२४॥ प्रभावाद् ब्रह्मणस्तस्य मानदेवप्रभोस्तदा । श्रीजया-विजयादेव्यौ नित्यं प्रणमतः क्रमौ ॥ २५ ॥
एवं प्रभावभूयिष्ठे शासनस्य प्रभावकः । संघव्योमाङ्गणोद्योत"भास्वानिव स च व्यभात् ॥ २६ ॥ ६३. अथ तक्षशिलापुर्या चैत्यपञ्चशतीभृति । धर्मक्षेत्रे तदा जज्ञे गरिष्ठमशिवं जने ॥२७॥
अकालमृत्यु'संपातिरोगैर्लोक उपद्रुतः । जज्ञे यत्रौषधं वैद्यो न प्रभुर्गुणहेतवे ॥२८॥
प्रतिजागरणे ग्लानदेहस्येह प्रयाति यः । गृहागतः स रोगेण पात्यते तल्पके द्रुतम्" ॥ २९ ॥ 1A कोटरकं । 2 D सिद्धिक्षेत्रे। 3 A बाणारस्याः। 4 A D प्रद्योतने। 5A धारणीति । 6 A ऽधीते। 7A चन्द्रगच्छो बुधैः। 8A गणोद्योतो। 9 N °मृत्यु संयाति । 10 A उपद्रवः। 11 A ध्रुवम् ।
80