________________
१२. मानतुङ्गसूरिचरितम् ।
सहस्रकिरणः कर्मसाक्षी ध्येयो मयास्य यत् । दृश्येते सफले साक्षादाराधनविराधने ॥ ८० ॥ षट्पादं रज्जुयन्त्रं सोऽवलम्ब्यात्रोपविष्टवान् । गर्त्तं च खदिराङ्गारैरधोऽर्श्विभिरपूरयत् ॥ ८१ ॥ शार्दूलवृत्तमेकैकमुक्त्वा शस्त्रिकयाच्छिनत् । पादमेवं च काव्येषु पञ्चसूक्तेषु' कृष्टिना ॥ ८२ ॥ छिन्दतः शेषपादं च मार्त्तण्डो व्यक्ततेजसा । आगत्यास्य ददौ देहं मंक्षु विध्यापितोऽनलः ॥ ८३ ॥ काव्यानां शततः सूर्य स्तुतिं संविद्धे ततः । देवान् साक्षात्करोति स्म येषामेकमपि स्मृतम् ॥ ८४ ॥ श्रीभानुस्तोषतस्तस्य नीरुजं देहमातनोत् । सार्द्धषोडशवणिक्यदीप्यत्कनकभास्वरम् ।। ८५ ।। प्रातः प्रकटदेहोऽसावाययौ राजपर्षदि । श्रीहर्षराजः पप्रच्छासीत् ते किं रुग् नवा वद ॥ आसीद् देव ! परं ध्यातः सहस्रकिरणो मया । तुष्टो देहं ददावद्य भक्तेः किं नाम दुष्करम् ॥ तदा च बाणपक्षीयैः सासूयैरिव पण्डितैः । जगदे किंचिदत्युग्रं प्रावृत्तश्रुतितः स्फुटम् ॥ ८८ ॥ तथा हियद्यपि हर्षोत्कर्षं विदधति मधुरा गिरो मयूरस्य । बाणविजृम्भणसमये तदपि न परभागभागिन्यः ॥ ८९ ॥
८६ ॥
८७ ॥
१.१५.
१०१ ॥
5
।
20
९९ ॥
राजाह सत्यमेवेदं गुणी गुणिषु मत्सरी । यूयमत्रापि सासूया ब्रूमहेऽत्र वयं किमु ॥ ९० ॥ वैद्यौषधं विना येन प्राञ्जलेनैव चेतसा । सूर्य आराधितो भक्त्या कवित्वैर्देहमातनोत् ॥ ९१ ॥ परितोषं परं प्राप सविता यद्वचःक्रमैः । के वयं मानुषास्तत्राहारादिकलुषाकुलाः ॥ ९२ ॥ बाणः प्राह प्रभो ! प्रायः कृतपक्षं किमुच्यते । अस्य कः किल शृङ्गारो देवस्यातिशये स्फुटे ॥ ९३ ॥ एवंजातीयमाश्चर्यातिशयं कोऽपि दर्शयेत् । अपरो यदि चेच्छक्तिः कः प्रत्यर्थी शुभायौ ॥ ९४ ॥ इति राज्ञो वचः श्रुत्वा बाणः प्राहातिसाहसात् । हस्तौ पादौ च संछिय चण्डिकावासपृष्ठतः ॥ ९५ ॥ मां परानयतु स्वामी तत्र मुक्तोज्झितः स्थिरम् । यथाऽमुष्मादतिप्रौढि प्रातिहार्यं प्रदर्शये ॥ ९६ ॥ - युग्मम् । अवादीच्च मयूरोऽपि तथाप्यस्यानुकम्पया । मयि प्रसद्य भूपाल मा कार्षीरेनमीदृशम् ॥ ९७ ॥ यतो मद्दुहितुः कष्टं व्यङ्गशुश्रूषणाद् भवेत् । आजन्म तन्ममाभीलं विलगेत प्रभो ! दृढम् ॥ ९८ ॥ श्रुत्वा च भूपतिर्भकिं मयूरे विभ्रदद्भुताम् । बाणे कोपं वहन् प्राह तथा कौतूहलं महत् ॥ कर्त्तव्यमेव बाणस्य गीः प्राणस्य कवेर्वचः । पाणिपादं नवं चेत् स्यादस्य स्फारं तदा यशः ॥ अन्यथा चेत् तथास्फारवचसां भज्यते भणिः । यदृच्छावचसां नावकाशो राज्ञां हि पर्षदि ॥ अथवा सूर्यमाराध्य त्वमेनमपि' पण्डितम् । विमदं निर्विषं नागमिव प्रगुणमाचरे ॥ १०२ ॥ उक्त्वा चैवं कृते राज्ञा चण्डीं स्तोतुं प्रचक्रमे । बाणः काव्यैरतिश्रव्यैरुदामाक्षरडम्बरैः ।। १०३ ॥ ततश्च प्रथमे वृत्ते निवृत्ते सप्तमेऽक्षरे । सधामा तन्मुखी भूत्वा देवी प्राह वरं वृणु ॥ १०४ ॥ 'विधेहि' पाणिपादं मे इत्युक्तिसमनन्तरम् । संपूर्णावयवः शोभाप्रत्यय इव निर्जरः ॥ १०५ ॥ महोत्सवेन भूपालमन्दिरं स समीयिवान् । राज्ञा पुरस्कृतौ प्रीतिहार्येऽस्थातामुभावपि ॥ १०६ ॥ ततो विवदमानौ च निवर्त्तेते पुरा कुधा । भूप एवं ततः प्राह निर्णयो नानयोरिह ॥ १०७ ॥ वाग्देवी मूलमूर्त्तिस्था यत्रास्ते तत्र गम्यताम् । उभाभ्यामपि काश्मीरनीवृति प्रवरे पुरे ॥ १०८ ॥ जयः पराजय वास्तु स्वामिन्यैव कृतोऽनयोः । प्रत्यवायं सचैतन्यः को हि स्वस्यानुषञ्जयेत् ॥ १०९ ॥ यः पराभूतिमाप्नोति तद्ग्रन्थाः प्राङ्गणे मम । प्रज्वाल्य पुस्तकस्तोमं विनाश्या अस्त्वसौ पणः ॥
१०० ॥
4
११० ॥
1 N पंचसून 12 N वाग्वृत्त । 3BDN प्रतिश्रये । 4A भलिः । 5A खमेवमपि । 6 N समाधौ । 7 N विदेहि । 8 B D °वयवशोभा' । 9 N 'निवृत्ति' | 10 A स्तोकं ।
10
15
25
30