________________
प्रभावकचरिते
उक्तं चलिखन्नास्ते भूमि बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छू ननयनाः। परित्यक्तं सर्व हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ५५ ॥ विलक्षीभूय साऽप्याह' बहिरागत्य कोविदम् । भवने प्रविशामोऽस्यामुक्त्वा वयमुपानही ॥५६॥ एतस्यां मौनमालम्ब्यावस्थितायां पुनस्ततः । विद्वानविद्वन्मन्योऽसौ बहुप्रातर्जगाद च ॥ ५७ ॥
तद्यथा
10
15
20
गतप्राया रात्रिः कृशतनुशशी शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्तदपि न जहासि क्रुधमहो
कुचप्रत्यासत्त्या हृदयमपि ते सुभ्र ! कठिनम् ॥ ५८॥ तद्भित्तिपरतः सुप्तोऽवकाशे तत्पिता तदा । जजागारातिसम्भ्रान्तः काव्यं श्रुत्वेत्युवाच च ॥ ५९॥ स्थाने त्वं 'सुभ्रु'शब्दस्य 'चंडी'त्याख्यामुदाहरेः । यतोऽस्या दृढकोपायाः शब्दोऽयमुचितः खलु ॥ ६० ॥ इत्याकर्ण्य पितुर्वाचं लज्जाभरनतानना । विममर्श निशावृत्तं विश्वं मे जनकोऽशृणोत् ॥ ६१ ॥ धिग्मां मूर्खामविज्ञातकारिणीमित्यकुत्सयत् । आत्मानं सा ततो वप्तर्यमषं च व्यधाद् धनम् ।। ६२ ॥ मदं मुक्त्वा च सा प्रेम भत्तरि स्थिरमादधे । गङ्गा हिमवतो गजे यथा शीतांशुशेखरे ।। ६३ ।। अहं शैशवतो भ्रान्ता यद्यसौ विद्वद्ग्रणीः । जनकोऽनुचिताधायी विमन्दाक्षः कथं किल ॥ ६४ ॥ इदं किमुचितं वक्तुं कुलीनानां हि तादृशाम् । मातृ-स्वमृ-दुहितृणामवाच्यं नहि वाच्यभूः ॥ ६५ ॥ शशाप कोपाटोपेन पितरं प्रकटाक्षरम् । कुष्ठी भव क्रियाभ्रष्टावज्ञातौरसनात्रकः॥६६॥ तस्याः शीलप्रभावेण सद्यः श्वेताङ्गचन्द्रकैः । कलाप्यग्रे मयूरोऽये तदा जज्ञे स चन्द्रकी ॥ ६७ ॥ सागान्निजगृहं बाणे बिभ्रती सक्तिमादरात्
तस्याः सान्त्वनाय तदाऽभवत् ।। ६८ ॥ सद्यः कुष्ठं समालोक्य पश्चात्तापातिविद्रुतः । अवाङ्मुखो गृहेऽस्वाप्सीन्न ययौ राजपर्षदि ॥ ६९ ॥ पञ्चषान् वासरान्नासौ जगाम मापमन्दिरे । बाणोऽपि कुपितस्तस्य बहून् दोषानभाषत ॥ ७० ॥ भोगिभोग"विनाशैकप्रतिज्ञो मलिनाङ्गभृत् । सुहृत्समागमे लज्जास्थानं प्रकटयन् सदा ॥ ७१ ॥ असौ मेघसुहृन्मेघसुहृच्चन्द्रकितस्तनौ । चित्रश्चित्रात्सभायोग्यो भूपानां नैनसां निधिः ॥ ७२ ॥ राजा श्रुत्वेति किं सत्यं मयूरः कुष्ठदूषितः । इति चित्रात् समाहूतवांस्तं निजनरैः प्रभुः ॥ ७३ ॥ . कृतावगुण्ठनः पट्या" स संवीताङ्गमण्डनः । उपभूपतिमागच्छदनिच्छन् स्थानमत्र च ॥ ७४ ॥ बाणेनोचे स्फुटं दृष्ट्वा मयूर प्राकृतादथ । शीतरक्षाङ्गसंव्यानं 'वरकोढी ति संसदि ॥ ७५ ॥ पुनर्निजं गृहं गत्वा व्यमृशञ्चेतसि स्थिरम् । कलङ्कपङ्किलानां हि नोचिता सहृदां सभा ॥ ७६ ॥ सहक्रीडितसंघेऽस्मिन् ये तिष्ठन्त्यङ्कशङ्किताः । भ्रूखड्गच्छिन्नमेते किं वं मूर्धानं न जानते ॥ ७७ ॥ वैराग्यात् त्यज्यते देहः सतां तदपि नोचितम् । दुःखानामसहिष्णुत्वात् स्त्रीवत्कातरता हि सा ॥ ७८॥ सुरः सनातनप्रीतिहार्यः कश्चित्कलानिधिः। आराध्यते प्रसादेन यस्य देहो नवो भवेत् ॥ ७९ ॥
25
30
तास स्थिरमसातरक्षाङ्गसंह
ऽस्मिन ये
1 N D साथाह। 2 A मुक्ता। 3 A तच्च । 4 N°मादधौ। 5 N अहो। 6 N तादृशैः। 7 N तदालोक्य । 8 N विह्वलः। 9N खेऽस्थान । 10 A 'भाग। 11 D N पद्यः। 12 N सुहृदां ।